KTouch/S1/Customizing-Ktouch/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 के-टच इत्यस्य कस्टमाइज विषयकेऽस्मिन् स्पोकन ट्यूटोरियल मध्ये भवतां स्वागतम्।
00:04 अस्मिन् पाठे भवन्तः अधिगच्छन्ति यत्
00:08 कथम् एकं लेक्चर निर्मातव्यम्,

कथं के-टच इत्यस्य कस्टमाइज करणीयम्, कथं स्वकीयं कीलफलकं (कीबोर्ड) निर्मातव्यं च इति।

00:13 अत्र वयम् उबंटू लिनक्स 11.10 इत्यस्मिन् के-टच 1.7.1 इति तन्त्रांशम् उपयुञ्ज्महे।
00:21 अधुना के-टच उद्घाटयामः।
00:25 अवधेयं यत् तृतीयस्तरः परिदृश्यते इति।
00:28 यतो हि यदा वयं के-टच पिहितवन्तः तदा तृतीयस्तरे एव आस्म।
00:32 अधुना वयं नूतनं लेक्चर कथं निर्मातव्यम् इति ज्ञास्यामः।
00:36 अत्र वयं नूतनम् अक्षरसमूहं सृजामः यश्च टीचर्स लाइन मध्ये प्रदृष्टं भवितुमर्हति।
00:42 मुख्यमेन्युतः File चित्वा Edit Lecture इत्यत्र नुदन्तु।
00:48 Open Lecture File डायलॉग बॉक्स प्रदृष्टं भवति।
00:52 अधुना Create New लेक्चर इति विकल्पं चित्वा OK इत्यत्र नुदन्तु।
00:57 KTouch Lecture Editor डायलॉग बाक्स प्रदृष्टं भवति ।
01:01 टाइटल फील्ड मध्ये A default lecture इति वाक्यं चित्वा तन्नाशयित्वा च My New Training Lecture इति टङ्कयन्तु।
01:12 Level Editor, लेक्चर इत्यस्य स्तरं प्रदर्शयति।
01:15 Level Editor बॉक्स इत्यस्य अन्तः नुदन्तु।
01:18 अधुना Data of Level 1 इत्यस्य अन्तः, New Characters in this level इत्यत्र एम्पर्संड, स्टार अपि च डॉलर चिह्नानि टङ्कयन्तु।
01:29 अस्माभिः चिह्नानि केवलमेकवारं टङ्कितानि।
01:32 अवधातव्यं यत् चिह्नमिदं लेवल एडिटर बॉक्स इत्यस्य प्रथमपङ्क्तौ प्रदृश्यमानमस्ति इति।
01:38 लेवल डेटा फील्ड मध्ये प्रदृश्यमानं वाक्यं चित्वा नाशयन्तु।
01:44 एम्पर्संड, स्टार अपि च डॉलर चिह्नानि पञ्चवारं ट्ङ्कयन्तु।
01:49 अधुना लेवल एडिटर बॉक्स अन्तः, प्लस चिह्नोपरि नुदन्तु। किं जातम्?
01:57 लेवल एडिटर बॉक्स मध्ये वर्णमालासम्बद्धा अपरा पङ्क्तिः प्रदृश्यते।
02:02 लेवल एडिटर बॉक्स मध्ये अपरपङ्क्तिं चिन्वन्तु।
02:06 लेवल फील्ड इत्यस्य डेटा अधुना 2 इति प्रदृश्यते।
02:09 एतत् अस्माकं टाइपिंग पाठस्य द्वितीयं लेवल अस्ति।
02:13 New Characters in this Level फील्ड मध्ये fj इति टङ्कयन्तु।
02:20 Level Data फील्ड मध्ये पञ्चवारं fj इति टङ्कयन्तु।
02:24 स्वकीये टाइपिंग पाठे भवद्भ्यः यावन्तः स्तराः अपेक्षिताः तावतः निर्मातुं शक्नुवन्ति।
02:29 एवमेव स्वकीये टाइपिंग पाठे भवन्तः यावतः स्तरानिच्छन्ति तावतः निर्मातुं शक्नुवन्ति।
02:35 Save इत्यत्र नुदन्तु।
02:37 Save Training Lecture – KTouch डायलॉग बॉक्स प्रदृष्टं भवति।
02:41 नेम फील्ड मध्ये New Training Lecture इति टङ्कयन्तु।
02:45 अधुना फाइल निमित्तं किञ्चन फॉर्मेट चिन्वन्तु।
02:49 Filter ड्रॉप डाउन सूच्यां triangle इत्यत्र नुदन्तु।
02:52 फाइल इत्यस्य फॉर्मेट निमित्तं KTouch Lecture Files कोष्ठकेषु star.ktouch.xml चिन्वन्तु।
03:03 फाइल रक्षितुं डेस्कटॉप ब्राउज़ कुर्वन्तु। Save इत्यत्र नुदन्तु।
03:08 KTouch Lecture Editor डायलॉग बॉक्स अधुना New Training Lecture इति नाम प्रदर्शयति।
03:15 अस्माभिः स्तरद्वयेन समं नूतनमेकं ट्रेनिंग लेक्चर निर्मितम्।
03:19 KTouch Lecture Editor डायलॉग बॉक्स पिधीयताम्!
03:24 अधुना यदस्माभिः निर्मितं लेक्चर अस्ति तदुद्घाटयन्तु।
03:28 मुख्यमेन्युतः फाइल चित्वा Open Lecture इत्यत्र नुदन्तु।
03:34 Select Training Lecture File डायलॉग प्रदृष्टं भवति।
03:38 डेस्कटॉप ब्राउज़ कृत्वा New Training Lecture.ktouch.xml चिन्वन्तु।
03:46 अवधेयं यत् &, *, अपि च $ चिह्नानि टीचर्स लाइन मध्ये प्रदृश्यमानानि सन्ति इति। अधुना टङ्कनम् (टाइपिंग) आरभामहे।
03:54 अस्माभिः स्वकीयं लेक्चर निर्मितं अपि च तत् कश्चन टाइपिंगपाठः इव उपयुक्तम् अस्ति।
03:59 के-टच टाइपिंग पाठं प्रति गन्तुं मुख्यमेन्यु मध्ये File चिन्वन्तु, Open Lecture इत्यत्र नुदन्तु। तत्र दृश्यमानं फोल्डर पथं ब्राउज़ कुर्वन्तु।
04:10 Root->usr->share->kde4->apps->Ktouch अपि च english.ktouch.xml चिन्वन्तु।
04:26 वयं के-टच इतीदं स्वप्राशस्त्यानुसारं निर्मातुं शक्नुमः।
04:30 यथा, यदक्षरं टीचर्स पङ्क्तौ न प्रदर्शितं तदक्षरं यदा टङ्कयन्ति तदा स्टुडेण्ट पङ्क्तिः रक्तवर्णीया भवति।
04:37 भवन्तः पृथक्प्रदर्शनार्थं स्वेच्छानुसारं वर्णान् चेतुं शक्नुवन्ति।
04:41 अधुना कलर सेटिंग्स परिवर्तयामः।
04:44 मुख्यमेन्युतः Settings चिन्वन्तु अपि च Configure – KTouch इत्यत्र नुदन्तु।
04:50 Configure – KTouch डायलॉग बॉक्स प्रदृष्टं भवति।
04:53 Configure – KTouch डायलॉग बॉक्स मध्ये Color Settings इत्यत्र नुदन्तु।
04:58 Color Settings इत्यस्य विवरणं प्रदृष्टं भवति।
05:02 Use custom color for typing line इति बॉक्स चिन्वन्तु।
05:05 टीचर्स लाइन फील्ड मध्ये टेक्स्ट फील्ड इत्यस्य अग्रे कलर बॉक्स इत्यत्र नुदन्तु।
05:12 Select-Color डायलॉग बॉक्स प्रदृष्टं भवति।
05:15 Select-Color डायलॉग बॉक्स मध्ये green वर्णोपरि नुदन्तु। OK इत्यत्र नुदन्तु।
05:21 Configure – KTouch डायलॉग बॉक्स प्रदृष्टं भवति। Apply इत्यत्र नुदन्तु। OK इत्यत्र नुदन्तु।
05:29 टीचर्स लाइन मध्ये अक्षराणि हरितवर्णेन परिवृतानि सन्ति।
05:33 अधुना वयं स्वकीयकीलफलकं (कीबोर्ड) निर्मास्यामः।
05:37 किञ्चन नवीनकीलफलकं (कीबोर्ड) निर्मातुं प्रस्तुतकीलफलकम् (कीबोर्ड) उपयोक्तव्यं भवति।
05:42 अस्मिन् परिवर्तनानि कुर्वन्तु अपि च इदं नामान्तरेण रक्षन्तु।
05:46 मुख्यमेन्युतः File चिन्वन्तु अपि च Edit Keyboard Layout इत्यत्र नुदन्तु।
05:52 Open Keyboard File डायलॉग बॉक्स प्रदृष्टं भवति।
05:56 Open Keyboard File डायलॉग बॉक्स मध्ये Open a default keyboard चिन्वन्तु।
06:02 अधुना अस्मात् फील्डतः अग्रिमं पिञ्जं नुदन्तु।
06:06 कीबोर्ड्स इत्यस्य सूची प्रदृष्टा भवति। en.keyboard.xml चिन्वन्तु। OK इत्यत्र नुदन्तु।
06:15 KTouch Keyboard Editor डायलॉग बॉक्स प्रदृष्टं भवति।
06:19 कीबोर्ड टाइटल फील्ड मध्ये Training Keyboard इति टङ्कयन्तु।
06:25 अस्माभिः कीलफलकाय काचित् भाषा चेतव्या भवति।
06:29 Language id ड्रॉप डाउन सूचीतः en चिन्वन्तु।
06:35 प्रस्तुतकीलफलके (कीबोर्ड) फॉन्ट्स परिवर्तयन्तु।
06:39 Set Keyboard Font इत्यत्र नुदन्तु।
06:42 Select Font – KTouch डायलॉग बॉक्स विंडो प्रदृष्टं भवति।
06:48 Select Font – Ktouch डायलॉग बॉक्स मध्ये Font निमित्तं Ubuntu इति, Font Style निमित्तं italics इति, Font Size निमित्तं 11 इति च चिन्वन्तु।
06:58 अधुना OK इत्यत्र नुदन्तु।
07:00 कीलफलकं (कीबोर्ड) रक्षितुं Save Keyboard As इत्यत्र नुदन्तु।
07:04 Save Keyboard – KTouch डायलॉग बॉक्स प्रदृष्टं भवति।
07:08 अधस्थं फोल्डर पथं ब्राउज़ कुर्वन्तु।
07:10 Root->usr->share->kde4->apps->Ktouch अपि च तत्र english.ktouch.xml चिन्वन्तु।
07:26 नेम फील्ड मध्ये Practice.keyboard.xml इति टङ्कयन्तु। Save इत्यत्र नुदन्तु।
07:33 फाइल ‘<name>.keyboard.xml’ फ़ॉर्मेट मध्ये रक्षितम्। Close इत्यत्र नुदन्तु।
07:42 किं भवन्तः नवीनकीलफलकम् (कीबोर्ड) अनुक्षणमुपयोक्तुं शक्नुवन्ति? नैव।
07:46 भवद्भिः एतत् kde-edu इति मेल आईडी प्रति मेल करणीयं भवति। अनन्तरमेतत् के-टच इत्यस्य अग्रिमसंस्करणे (वर्ज़न) सम्मिलिष्यति।
07:57 एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः।
08:01 अस्मिन् पाठे अस्माभिः प्रशिक्षितुं अपि च कलर सेटिंग्स मध्ये परिवर्तनं कर्तुं किञ्चन लेक्चर निर्माणम् अभ्यस्तम्।
08:08 वयं किञ्चन प्रस्तुतकीलफलकरचनायाः (कीबोर्ड लेआउट) उद्घाटनं, तस्याः परिवर्तनं, स्वकीयकीलफलकस्य (कीबोर्ड) निर्माणं च अवगतवन्तः।
08:15 अत्र भवतां कृते किञ्चन नियतकार्यम् अस्ति।
08:18 स्वकीयकीलफलकं (कीबोर्ड) निर्मान्तु।
08:20 कीलफलके (कीबोर्ड) वर्णे अपि च फॉन्ट लेवल मध्ये परिवर्तनं कुर्वन्तु। परिणामं परिशीलयन्तु।
08:28 अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।
08:31 एतत् स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
08:34 यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
08:38 स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
08:41 स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
08:44 ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
08:48 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
08:54 स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
08:59 एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
09:07 अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
09:17 अस्य प्रतेः अनुवादकः प्रवाचकश्च वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal