KTouch/S1/Configuring-Settings/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 "के-टच मध्ये सेटिंग कन्फिगरिंग" इत्यस्मिन् स्पोकन ट्युटोरियल मध्ये भवतां स्वागतम्।
00:04 अस्मिन् पाठे भवन्तः अवगच्छन्ति यत् -
00:08 प्रशिक्षणस्तरं कथं परिवर्तनीयम्, टङ्कणगत्याः व्यवस्थापनं कथम्,
00:13 शॉर्टकट कीज़ इत्येतानि कथं विन्यस्तव्यानि (कन्फिगर), टूलबार्स इत्येतानि कथं विन्यस्तव्यानि (कन्फिगर), टैपिंग मेट्रिक्स कथं दृष्टव्यम् इत्यादि।
00:20 अत्र वयं उबंटू लिनक्स 11.10 इत्यस्मिन् के-टच 1.7.1 इत्यस्य उपयोगं कुर्मः।
00:27 अधुना "के टच" उद्घाटयामः।
00:33 वयं “Level 1” इत्यत्र स्मः। द्वितीयस्तरं प्रति चलामः।
00:40 द्वितीयप्रशिक्षणस्तरं प्रति गन्तुं लेवल फील्ड इत्यस्याग्रे उपरि त्रिकोणचिह्नं नुदन्तु।
00:48 यदा वयं द्वितीयस्तरं प्रति गच्छामः तदा किं भवतीति अवदध्मः।
00:52 "Teacher’s Line" इत्यत्रस्थानि अक्षराणि परिवर्त्यन्ते ।
00:56 "New Characters in this Level" क्षेत्रे (फील्ड) दृश्यमानाक्षराणि अपि परिवृत्तानि सन्ति।
01:02 एतानि अक्षराणि अस्मिन् स्तरे अभ्यस्तव्यानि।
01:07 अधुना टङ्कणमारभाहे।
01:09 अधुना यदक्षरं "Teacher’s Line" मध्ये नास्ति तदत्र टङ्कयामः।
01:14 "Student Line" रक्तवर्णेन परिवृतं भवति।
01:17 अन्यत् किं परिवृतं पश्यन्ति?
01:19 Correctness क्षेत्रे प्रतिशतमूल्याङ्कनं न्यूनं भवति।
01:23 बैकस्पेस नुत्त्वा दोषं परिमार्जयन्तु।
01:27 अधुना कथं "Training" इति विकल्पस्य निर्धारणमिति पश्यामः।
01:31 किं नाम "Training Options"?
01:33 "Training options" इत्यस्य उपयोगं वयं टङ्कनगतेः विशुद्धटङ्कणस्य च मानदण्डपरिवर्तनाय कुर्मः।
01:41 वयं कस्मिंश्चित् विशिष्टस्तरे विद्यमानटङ्कणपङ्क्त्याः सङ्ख्यामपि स्वेच्छानुसारं निर्धरयितुं शक्नुमः।
01:47 मुख्यमेन्यू मध्ये "Settings" चित्वा "Configure Ktouch" इत्यत्र नुदन्तु।
01:52 "Configure – KTouch" डायलॉग बॉक्स प्रदर्शितं भवति।
01:56 "Configure – KTouch" डायलॉग बॉक्स इत्यस्य वामपैनल मध्ये "Training Options" इत्यत्र नुदन्तु।
02:02 दक्षिणपैनल अधुना विभिन्नानि "Training Options" दर्शयति।
02:06 "Typing speed", "Correctness" अपि च "Workload" इत्येतेषां कृते उपरि सीमां निर्धरन्तु।
02:13 "Limits to increase a level" इत्यस्य अधः -
02:15 Typing Speed इत्येतत् 120 characters per minute इति "Correctness" इत्येतत् 85% इति
02:24 "Workload" इत्येतत् 1 इति निर्धरन्तु।
02:27 एतस्यार्थः, प्रतिस्तरमस्माभिः एका एव पङ्क्तिः पूरणीया अस्ति।
02:31 एवं च सति वयं स्वयमेव अग्रिमस्तरं प्रति गच्छामः।
02:36 यदि भवन्तः स्तरमेकं सम्पूर्य एव अग्रिमस्तरं गन्तुमिच्छन्ति तर्हि "Complete whole training level before proceeding" पेटीं (बॉक्स) चिन्वन्तु।
02:46 "Typing speed" अपि च "Correctness" इत्येतयोः कृते न्यूनतमसीमां निर्धरन्तु।
02:50 Limits to decrease a level इत्यस्मात् अधः -
02:53 "Typing Speed" इत्येतत् "60” characters per minute इति Correctness इत्येतत् "60" इति निर्धरन्तु ।
03:00 "Remember level for next program" इति पेटीं नुदन्तु।
03:06 "Apply" इत्यत्र नुत्त्वा "OK" इत्यत्र नुदन्तु।
03:09 अस्माभिः कृतानि परिवर्तनानि तदा एव अनुयन्ति यदा नवीनसेशन आरभ्यते।
03:14 "Start New Session" इत्यत्र नुत्त्वा "Keep Current Level" इतीदं चिन्वन्तु।
03:20 पुनः टङ्कनमारभन्तु।
03:23 अवधीयतां यत् आरम्भिकवेगः 0 अस्तीति। यदा वयं टङ्कयामः तदा वेगः ह्रीयते वर्धते वा।
03:30 "Pause Session" इत्यत्र नुदन्तु। यदा वयं स्थगयामः (पॉज़) तदा टङ्कनवेगः तस्यामेव गणनायां भवति।
03:38 टङ्कनं पुनरारभ्यताम्।
03:40 यदा वेगः 60 इत्यस्मात् न्यूनः भवति तदा Speed इत्यस्मात् अधः विद्यमाना रक्तबिन्दुः प्रकाशते इति अवधीयताम्।
03:47 एतेन ज्ञायते यत् वेगः अस्माभिः निर्धारितात् 60 इति सीमात् न्यूनः अस्ति इति।
03:54 अधुना, 4 इति सङ्ख्यां टङ्कयन्तु यच्च "Teacher’s Line" मध्ये नास्ति।
03:59 "Student’s Line" रक्तं भवति।
04:02 "Percentage of the Correctness" अपि न्यूनं जायते।
04:05 भवन्तः "Teacher’s Line" मध्ये विद्यमानं स्पेस् दृष्टुं शक्नुवन्ति?
04:11 अधुना, एतस्मात् शब्दात् परमहं स्पेस् न नुदामि।
04:15 "Student’s Line" पुनः रक्तं जातम्।
04:18 अस्यार्थः, स्पेस् अपि सम्यक्तया टङ्कनीयमिति।
04:22 student’s line मध्ये एकां सम्पूर्णां पङ्क्तिं टङ्कयन्तु अपि च "Enter" नुदन्तु।
04:31 तृतीयः स्तरः आगतः।
04:33 तृतीयस्तरे किमर्थं परिवृत्तम्? एतदर्थं, यतोहि, अस्माभिः Workload इत्यत्र 1 इति निर्धारितवन्तः आस्म।
04:39 अतः, यदा वयं द्वितीयस्तरस्य एकां पङ्क्तिं समापयामः अपि च यदा Enter नुदामः तदा वयं अग्रिमस्तरं प्रति चलामः।
04:47 अवधीयताम् यत्, "Teacher’s Line" मध्ये नूतनाक्षराणि प्रदृश्यन्ते इति।
04:52 किं भवन्तः भवतां टैपिंग् सेशन् इत्यस्य प्राप्ताङ्कं ज्ञातुमिच्छन्ति?
04:55 तर्हि, "Lecture Statistics" इत्यत्र नुदन्तु। "Training Statistics" इति डयलाग बाक्स प्रदृष्टं भवति।
05:02 टैब्स उपरि नुत्त्वा प्रत्येकस्मिन् किं दृश्यते इति पश्यन्तु।
05:07 "Current Training Session" इत्यत्र नुदन्तु।
05:12 एतत् general statistics इत्यस्य विवरणं ददाति। यथा, टङ्कनगतिः, टङ्कनस्य विशुद्धता अपि च अक्षराणां विवरणम् येषां च विषये अवधानस्य अवश्यकता वर्तते।
05:22 "Current Level Statistics" टैब अपि Current Training Session टैब यथा विवरणं ददाति तथैव विवरणं ददाति।
05:31 "Monitor Progress" टैब भवतां टङ्कनप्रगतेः चित्रीयविवरणं ददाति।
05:38 एतत् डयलाग बाक्स पिधीयताम्।
05:41 भवन्तः स्वकीय शार्टकट कीलान्यपि निर्मान्तुं शक्नुवन्ति।
05:45 शॉर्टकट कीलानि इत्युक्ते किम्?
05:47 शॉर्टकट कीलानि इत्युक्ते, अनेककीलानां संयोगः अस्ति यश्च मेन्युमध्ये स्थितान् विकल्पान् कीलफलकेनैव नुत्त्वा प्राप्तुं शक्नुमः।
05:56 "Lecture Statistics" दृष्टुं शॉर्टकट कीलं संरचयन्तु।
06:01 मुख्यमेन्यूतः "Settings", "Configure" "Shortcuts" इत्येषामुपरि नुदन्तु।
06:06 "Configure Shortcuts – KTouch" इति डायलॉग बॉक्स दृष्यते।
06:10 "Search" बॉक्स मध्ये "Lecture Statistics" इति टङ्कयन्तु।
06:16 "Lecture Statistics" इत्यत्र नुत्त्वा "Custom" इत्ति चित्वा "None" इत्यत्र नुदन्तु। ऐकान् "Input" इति परिवृत्तं भवति।
06:24 अधुना, कीलफलकात् Shift' अपि च A कीलं मिलित्वा नुदन्तु।
06:30 अवधीयतां यत्, अधुना ऐकान् Shift+A इत्याकारेण प्रदृष्टं भवति इति। "OK" इत्यत्र नुदन्तु।
06:38 अधुना, "Shift" अपि च "A" कीलं मिलित्वा नुदन्तु। "Training Statistics" इति डायलॉग बाक्स् प्रदृष्टं भवति।
06:45 बहिरागन्तुं Close इत्यत्र नुदन्तु।
06:49 के-टच भवतां कृते टूलबार इत्यस्य संरचनां कर्तुं अनुमतिं दास्यति।
06:53 चिन्तयामः यत् वयं "Quit Ktouch" इति आदेशं ऐकान् रूपेण दर्शयितुं इच्छामः इति।
06:58 मुख्य मेन्यू मध्ये "Settings" इत्यत्र नुत्त्वा, "Configure Toolbars" इत्यत्र नुदन्तु।
07:03 "Configure Toolbars – KTouch" इति डायलॉग बॉक्स प्रदृष्टं भवति।
07:07 वामपार्श्वे विकल्पानां सूचीतः "Quit" इति ऐकान् चित्वा तस्योपरि वारद्वयं नुदन्तु।
07:15 ऐकान् दक्षिणपार्श्वं उपसर्पति। "Apply" इत्यस्य उपरि नुत्वा "OK" इत्यत्र नुदन्तु ।
07:22 "Quit" इति ऐकान् अधुना के-टच विंडो मध्ये प्रदृश्यते।
07:26 एतेन समं वयं के-टच इति पाठस्य अन्तं प्राप्तवन्तः।
07:30 अस्मिन् ट्युटोरियल् मध्ये अस्माभिः अभ्यासस्तरः कथं परिवर्तनीयः, टङ्कनस्य गतिविषये विशुद्धताविषये च कथं अवधानं दातव्यम् इति अभ्यस्तम्।
07:38 वयं कीलफलके शार्ट्कट् इत्यस्य संरचनाम् अपि च टूलबार इत्यस्य संरचनाम् अपि ज्ञातवन्तः
07:43 अत्र भवतां कृते किञ्चन नियतकार्यमस्ति।
07:46 "Configure KTouch" इत्यस्मात् अधः Workload इत्येतत् 2 इति परिवर्तयन्तु।
07:50 "Complete whole training level before proceeding" इति बॉक्स चिन्वन्तु।
07:56 अधुना किञ्चन नूतनटङ्कनावधिम् आरभ्य तत्र अभ्यासं कुर्वन्तु।
08:00 अन्ततः, स्वकीयाभ्यासस्य फलितांशं परिशीलयन्तु।
08:04 अधस्थे लिंक मध्ये उपलब्धं विडियो पश्यन्तु।
08:07 एषः स्पोकन ट्यूटोरियल इत्यस्य सारांशः अस्ति।
08:10 यदि भवतां समीपे उत्तमं बैंडविड्थ नास्ति तर्हि भवन्तः एतत् अवचित्यापि (डाउनलोड) द्रष्टुं शक्नुवन्ति।
08:15 स्पोकन ट्यूटोरियल प्रकल्पगणः (प्रोजेक्ट टीम) :
08:17 स्पोकन ट्यूटोरियल इत्यस्य उपयोगद्वारा कार्यशालाः अपि चालयति।
08:20 ये ऑनलाइन परीक्षाम् उत्तरन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
08:23 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
08:29 स्पोकन ट्युटोरियल प्रोजेक्ट टॉक-टू-अ-टीचर प्रोजेक्ट इत्यस्य भागः अस्ति।
08:33 एतत् भारतसर्वकारस्य एमएचआरडी इत्यस्य “आईसीटी माध्यमेन राष्ट्रीयसाक्षरतामिशन” द्वारा समर्थितमस्ति।
08:41 अस्य विषये अधिकविवरणं spoken hyphen tutorial dot org slash NMEICT hyphen Intro इति लिंक मध्ये उपलब्धमस्ति।
08:52 अस्य प्रतेः अनुवादकः प्रवाचकश्च ऐ ऐ टि बांबे तः वासुदेवः अधुना आपृच्छति। समयदानाय धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal