Inkscape/C2/Fill-color-and-stroke/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 Inkscape मध्ये Fill color and stroke इति पाठार्थं स्वागतम् ।
00:06 अस्मिन् पाठे वयं ओब्जेक्ट्-इत्यस्मै वर्णं पूरयितुं , ओब्जेक्ट्-इत्यस्मै औट्-लैन् दातुं , gradients इत्यस्य प्रकारान् अपि च Stroke paint तथा style इतीमानि ज्ञास्यामः।
00:20 अस्मै पाठार्थमहं

Ubuntu Linux 12.04 ओ.एस्. अपि च Inkscape वर्शन् 0.48.4 इमे उपजुञ्जन्नस्मि ।

00:29 अधुना Inkscapeइतीदमुघाटयाम । तदर्थं Dash home प्रति गत्वा "Inkscape" इति टङ्कयतु ।
00:35 लोगो इतीदं नुत्त्वापि Inkscape इतीदम् उद्घाटयितुं शक्नुमः ।
00:40 वयं, पूर्वरचितं 'Assignment.svg'इति सञ्चिकामुद्घाटयाम । तदहं Documents सञ्चये रक्षितवानस्मि ।
00:50 एताः पूर्वतन पाठस्याभ्यासे अस्माभिः रचिताः तिस्रः आकृतयः ।
00:54 वयं इण्टर्फेस् इत्यस्याधोभागे विद्यमानं color palette इतीदमुपयुज्य वर्णं परिवर्तितुं शक्नुमः ।
01:01 वयमधुना Fill and Stroke इतीदमुपयुज्य कथं विविधवर्णान् पूरयेम इति पश्याम ।
01:08 Object मेन्यू-प्रति गत्वा ड्रोप्-डौन्-लिस्ट्-इत्यस्मात् Fill and Stroke विकल्पं नुदन्तु ।
01:13 इण्टर्फेस् इत्यस्य दक्षिणपार्श्वे Fill and Stroke डैलाग्-बोक्स् उद्घाटितम् दृश्यते ।
01:20 अस्मिन् डैलाग्-बोक्स् मध्ये त्रीणि टेब्स् सन्ति । Fill, Stroke paint अपि च Stroke style
01:27 वयमधुना canvasमध्ये विद्यमानं आयतं नुदाम । Fill and stroke डैलाग्-बोक्स्-मध्ये विद्यमानाः विकल्पाः ऐकान् च सशक्ताः अभवदिति ज्ञास्यन्तु ।
01:38 अदौ वयं Fill टेब्-इतीदं ज्ञास्यामः ।
01:41 Fill टेब्-मध्ये षट् icons सन्ति । एतानि ऐकान्स् किं कुर्वन्तीति जानाम ।
01:48 प्रथमं No paint. । इदं , ओब्जेक्ट्-इतीदं केनापि वर्णेन न पूरितं भवतीति सूचयति ।
01:56 icon इत्यस्योपरि नुदतु अपि च आयते परिवर्तनं पश्यतु । तत्र वर्णं नास्ति ।
02:03 अग्रिमं ऐकान् Flat color इत्यस्ति । इदं गाढवर्णं बकेट्-मध्ये पूरयितुं साहाय्यं करोति ।
02:11 Flat color ऐकान् इत्यस्योपरि नुदतु , अपि च आयते वर्णपरिवर्तनं पश्यन्तु ।
02:17 Flat color, इत्यस्मिन् पञ्चसङ्ख्याकानि सब्-टेब्स् सन्ति ।
02:21 डीफोल्ट् रूपेण, RGB टेब् चितं वर्तते ।
02:25 'RGB' टेब् इत्यस्मिन् ,चत्वारि sliders सन्ति ।
02:29 आदौ त्रीणि स्लैडर्स्, Red, Green अपि च Blue इत्येतेषां गाढतां सूचयति ।
02:36 वयं स्लैडर्-इतीदं वामतः दक्षिणतः च चालयामः चेत् वर्णव्यत्यासं पश्यामः । एवं क्रियमाणे सति आयते वर्णव्यत्यासं पश्यन्तु ।
02:46 चतुर्थं स्लैडर् Alpha-स्लैडर् । अनेन वयं वर्णानां opacity स्तरं पारदर्शकात् अपारदर्शकपर्यन्तं न्यूनमधिकं च कर्तुं शक्नुमः ।
02:57 यदाहं इमानि चत्वारि स्लैडर्स् चालयामि तदा अस्मिन् पेटिकायां वर्णस्य RGBA मौल्ये परिवर्तनं जायते ।
03:06 अधुनाहं पुनरेकवारं इमानि स्लैडर्स् चालयामि । परिवर्तनानि पश्यन्तु ।
03:12 वयं स्लैडर् इत्यस्य दक्षिणपार्श्वे प्रत्येक-पेटिकायां वर्णस्य मूल्यं परिवर्तितुं शक्नुमः ।
03:20 अहं रक्तवर्णस्य मूल्यं 100इति, हरिद्वर्णस्य 50 इति अपि च नीलवर्णस्य 150 इति परिवर्ते । अधुना आयतस्य वर्णः नीललोहितः जातः।
03:32 अहं ओपेसिटि स्तरं न्यूनं कर्तुं नेच्छामीत्यतः Alpha स्तरं 255 एव स्थापयामि ।
03:40 अग्रिमं टेब् HSL इति ।अर्थात् Hue, Saturation अपि च Lightness
03:49 वयं Hue स्लैडर् इतीदं मूलवर्णं प्राप्तुं उपयुञ्ज्महे । हरिद्वर्णं मूलवर्णं कर्तुं स्लैडर् इतीदं वामभागे चालयामि ।
03:59 मूलवर्णस्य saturation इतीदं योजयितुं Saturationस्लैडर्-इतीदं उपयुञ्ज्महे ।
04:04 स्लैडर्-इतीदं वामे दक्षिणे च चालयामः चेत् saturation इत्यत्र परिवर्तनं पश्यन्तु ।
04:12 Lightness स्लैडर् मूलवर्णस्य द्युतिं योजयितुं उपयुज्यते ।
04:16 अनेन विकल्पेन वर्णस्य छायां श्वेतवर्णात् कृष्णवर्णपर्यन्तं परिवर्तितुं साध्यम् ।
04:26 पूर्वोक्तं Alpha स्लैडर्-इतीदं, यथा वर्णस्य opacity स्तरं न्यूनं अधिकं च करोति तथा ।
04:35 अग्रिमं टेब् CMYK इतीदं यथाक्रमंCyan, Magenta, Yellow अपि च Blackवर्णान् सूचयति ।
04:44 इमानि स्लैडर्स् उपयुज्य मूलवर्णस्य तीक्ष्णतां परिवर्तितुं शक्नुमः ।
04:52 एतादृशवर्णमिश्रणानि मुद्रणालयेषु विन्यासाय उपयुक्तानि भवन्ति ।
05:00 अग्रे Wheel टेब् इतीदमस्ति । इदं HSL कलर्-मिक्सर् इत्यस्य पर्यायमस्ति ।
05:07 वयं मूलं ह्यू इतीदं, स्टेण्डर्ड्-कलर्-वील् इतीदम् अनुसृत्य, वर्णस्य रिङ्ग्-इत्यस्योपरि क्लिक् कृत्वा चेतुं शक्नुमः ।
05:14 अतोऽहं पीतवर्णस्योपरि , पीतवर्णमेव मूलवर्णः इति चेतुं क्लिक् करोमि ।
05:19 वर्णस्य वृत्तस्योपरि ,चतुरश्रवृत्तयुतं त्रिभुजमस्ति । तन्नुत्वा त्रिभुजं प्रति ड्रेग्-कृत्वा आयते वर्णव्यस्यासं पश्यन्तु ।
05:31 CMSटेब् वर्णनिर्वहणं कर्तुम् उपयुक्तमस्ति ।
05:38 वयमत्र अस्य विवरणं पश्याम ।
05:43 पश्चाद्वयं Linear gradient इत्यस्य रचना कथमिति ज्ञास्याम ।
05:47 canvas प्रति गत्वा वृत्तस्योपरि नुदन्तु ।
05:50 अधुना Fill and Stroke डैलाग्-बोक्स्-प्रति आगत्य Linear gradient ऐकान् इत्यस्योपरि नुदन्तु ।
05:57 वृत्ते ग्रेडियेण्ट्-फिल्-इतीदम् अवलोकयन्तु ।
06:00 ग्रेडियेण्ट् इतीदं रेण्डम्-नम्बर्स् इत्येतेभिः अन्त्यं प्राप्नोति ।
06:05 मम इण्टर्-फेस्-मध्ये सङ्ख्या linearGradient3794 इत्यस्ति । भवताम् अन्यत् स्यात् ।
06:14 वयं ग्रेडियेण्ट् इतीदं linear gradient नम्बर्-बट्टन् इत्यस्याधः Edit इतीदं नुत्वा परिवरितुं शक्नुमः ।
06:21 इदं Gradient editor डैलाग्-बोक्स्-इतीदम् उद्घाटयति ।
06:26 बोक्स्-मध्ये उपरि बटन्-इतीदं केचन रेण्डम्-नम्बर्-युतम् अस्ति अपि च stop नाम प्राप्नोति ।
06:34 इदं ड्रोप्-डौन्-एरो-इतीदं नुदामश्चेत् , द्वे stop विकल्पे वयं पश्यामः ।
06:39 प्रथमं शुद्धं मूलवर्णं सूचयति , अन्यत् half checker boardइतीदं, तस्य पारदर्शकतां सूचयति ।
06:48 द्वितीयं विकल्पं अर्थात् पारदर्शकं stop विकल्पं चिनोतु ।
06:53 अधो विद्यमानं Stop Color प्रति गच्छन्तु । स्लैडर् चालयित्वा RGBमौल्यं अस्माकं वर्णस्य आवश्यकतामनुसृत्य योजयतु ।
07:00 पूर्णं ग्रेडियेण्ट् दृष्टुं Alpha मौल्यं 255 करोतु । Gradient editor डैलाग्-बोक्स् इतीदं क्लोस्-करोतु ।
07:09 वयमधुना gradient angle इतीदं परिवर्तितुं शक्नुमः ।तत्कर्तुं इण्टर्-फेस्-इत्यस्य वामपार्ष्वस्थं टूल्-बोक्स्-नुत्वा Node टूल्-इत्यस्योपरि नुदन्तु ।इदं Selector tool इत्यस्याधः वर्तते ।
07:21 इदं वृत्तस्योपरि एकां रेखां दर्शयति । इयं रेखा ग्रेडियेण्ट्-इतीदं दर्शयति ।
07:29 इयं वृत्तस्य square handle अपि च arc handle इमे ओवर्-लेप् करोति ।
07:33 वयं gradient line handle इतीमानि , तानि हेण्डल्स्इतीमनि दृष्टुं साध्यं भवेत् इति ज्ञात्वा चालयेम ।
07:40 gradient इत्यस्य आदिमम् अन्तिमञ्च स्थानं परिवर्तितुं circular handle इतीदम् अथवा square handle इतीम् नुत्वा कर्षयन्तु ।
07:50 अत्र यथा दर्शितं तथा circular handle इतीदं चालयित्वा ग्रेडियेण्ट्-इत्यस्य दिशं परिवर्तितुं शक्नुमः ।
07:58 वयमधुना Radial gradient इत्यस्योपयोगं ज्ञास्यामः । ऐकान् इत्यस्योपरि नुत्वा वृत्ते ग्रेडियेण्ट् इत्यत्र परिवर्तनं पश्यन्तु ।
08:06 Radial gradient इतीदं वृत्ताकारे रचितं भवति ।
08:10 एकं square handle अपि च द्वे circular handles. पश्यन्तु ।
08:15 ग्रेडियेण्ट् इत्यस्य आदिमं बिन्दुं चालयितुं , मध्ये स्थितं square handle इतीदं चालयतु । अहमिदं अधः वामे चालयामि ।
08:22 ग्रेडियेण्ट्-मध्ये परिवर्तनं कर्तुं , यत्किमपि circular handle इत्यस्योपरि नुत्वा कर्षयतु ।
08:28 ग्रेडियेण्ट्-इत्यस्य आकृतेः हैट् अपि च विड्त् मध्ये परिवर्तनं करोतु ।
08:37 वयं Tool box मध्येऽपि Gradient tool इतीदं पश्यामः ।
08:42 तस्योपरि नुत्वा वृत्तं प्रति आगच्छतु ।
08:45 अधुना, कर्सर् capital I युतं plus चिह्नमभवदिति पश्यन्तु ।
08:51 अधुना वृत्ते यत्र कुत्रापि नुत्वा कर्षयतु । ग्रेडियेण्ट्-मध्ये परिवर्तनं पश्यन्तु ।
09:00 अधुना वृत्तस्य बाह्ये यत्र कुत्रापि नुत्वा कर्षयतु ।
09:04 ग्रेडियेण्ट्-मध्ये परिवर्तनं पश्यन्तु ।
09:06 पश्चाद्वयं आकृतौ विविधप्रकारकानि पेटर्न्स् स्थापयितुं ज्ञास्यामः ।
09:11 Tool box प्रति गत्वा Selector tool इत्यस्योपरि नुत्वा नक्षत्रस्योपरि नुदन्तु ।
09:17 Fill and stroke डैलाग्-बोक्स्-मध्ये Patternऐकान् इत्यस्योपरि नुदन्तु । नक्षत्रस्यवर्णः रेखायुतः जातः ।
09:26 Pattern fill मध्ये एकं ड्रोप्-डौन्-मेन्यु अस्ति । लभ्यान् विकल्पान् दृष्टुं बाणस्योपरि नुदतु ।
09:32 वयं Checkerboard विकल्पं नुदाम । नक्षत्रे परिवर्तनं पश्यन्तु । अत्र लभ्यमानेषु विकल्पेषु एकं उपयोक्तुमर्हन्ति ।
09:44 अन्यपाठे Swatch इत्यस्य विषयं ज्ञास्याम ।
09:48 अन्तिमं ऐकान् Unset paint, यदस्ति तत् , स्वीकृतायाः आकृत्याः वर्णं कृष्णं कर्तुं उपयुञ्ज्महे ।
09:54 icon इत्यस्योपरि नुत्वा नक्षत्रे व्यत्यासं पश्यन्तु । तत् कृष्णवर्णमभवत् ।
10:01 अधुना ओब्जेक्ट्-इत्यस्मै stroke अथवा औट्-लैन्-दातुं ज्ञास्याम । तकर्तुमस्माभिः Stroke paint टेब्-इतीदम् उपयोक्तव्यम् ।
10:09 अधुना Stroke paint टेब्-इत्यस्योपरि नुत्वा आयतमस्योपरि नुदन्तु ।
10:14 Stroke paint टेब्-मध्ये विद्यमानानि ऐकान्स् Fill टेब्-मध्ये विद्यमानानीव सन्ति ।
10:19 एतान्यपि एवमेव कार्यं कुर्वन्ति ।
10:22 प्रथमं ऐकान् No paint इत्यनेन वयं आकृतेः औट्-लैन्-इतीदं निष्कासयाम ।
10:26 पश्चात् Flat color ऐकान् इत्यस्योपरि नुदन्तु ।आयतं परितः कृष्णवर्णस्य औट्-लैन् द्श्यते ।
10:33 Stroke style टेब्-इतीदमुपयुज्य औट्-लैन्-इत्यस्य विस्तारं न्यूनमधिकञ्च कर्तुं शक्नुमः ।
10:44 अधुना विड्त्-इतीदं 10 स्थापयाम । मापनं अवश्यकतानुसारेण percentage, point इत्यस्मायपि परिवर्तितुमर्हति ।
10:54 अहन्तु मापनं Pixels इति स्थापयामि ।
10:56 पुनः Stroke paint टेब्-प्रति आगच्छाम । स्ट्रोक्-वर्णं, RGB टेब्-मध्ये स्लैडर् चालयित्वा परिवर्तितुं शक्नुमः ।
11:04 एवं क्रियमाणे सति औट्-लैन्-मध्ये वर्णव्यत्यासं पश्यन्तु ।
11:09 एवमेव अन्यान् Flat color विकल्पान् HSL, CMYK, Wheel अपि च CMS इतीमानि भवन्तः एव उपयुञ्जन्तु ।
11:17 अधुना Linear gradient इत्यस्योपरि नुदतु । इदं आयताय ग्रेडियेण्ट्-औट्-लैन् ददाति ।
11:24 असाम्भिः आदौ उपयुक्तानि ग्रेडियेण्ट्स् इतीमानि अत्र ड्रोप्-डौन्-लिस्ट्-मध्ये दृश्यन्ते । वयं तानि उपयोक्तुं शक्नुमः ।
11:32 अहं आयताय रक्तवर्णं नीलवर्णं च gradient औट्-लैन्-ददामि ।
11:38 एवमेव वयं अन्यानि स्ट्रोक्-ऐकान्-इतीमानि उपयोक्तुं शक्नुमः । अपि च मनोज्ञानि पेटर्न्स् अपि च ग्रेडियेण्ट्स् दातुं शक्नुमः ।
11:46 वयमधुना Stroke style इत्यस्य विषयं ज्ञास्यामः । तदुपरि नुदन्तु ।
11:50 वयं strokeइत्यस्य विस्तारं परिवर्तितुं ज्ञातवन्तः ।
11:54 वयमधुना 3 Join ऐकान्स् अर्थात् , Miter join, Round join अपि च Bevel join विषयं ज्ञास्यामः । उत्सर्गतया स्ट्रोक् इतीदं Miter join मध्ये वर्तन्ते ।
12:08 सम्यक् रीत्या दृष्टुं आयतस्य अन्तं जूम् करवाम ।
12:12 अधुना स्ट्रोक् इत्यस्मै वृत्ताकारस्य अश्रिं(corner)दातुं Round join इत्यस्योपरि नुदन्तु । स्ट्रोक्-इत्यस्यान्ते परिवर्तनं पश्यन्तु ।
12:21 Bevel अश्रिं रचयितुं Bevel join विकल्पं नुदतु ।
12:26 Dashes ड्रोप्-डौन्-मेन्यूमध्ये नाना प्रकारकाणि डेश्-पेटर्न्स् सन्ति । अमानि उपयुज्य स्ट्रोक्-इत्यस्मै नाना डेश्-पेटर्न्स् दातुं शक्नुमः । अपि च विस्तारं परिवर्तितुं शक्नुमः ।
12:38 अग्रिमः विकल्पः Capइति । इमानि लन्-स्ट्रोक्-मध्ये वर्तन्ते ।
12:44 Tool box.गत्वा Freehand tool इत्यस्योपरि नुदन्तु । Freehand tool इत्यस्य साहाय्येन एकां रेखां रचयाम ।
12:50 अधुना रेखायाः अन्तं ज़ूम् कुर्मः ।
12:54 उत्सर्गतया Butt cap इतीदं चिनुमः अपि चेदं अन्ते अभङ्गुरं वर्तते ।
12:59 अधुनाहं Round cap नोदनेन वृत्ताकरस्य अन्तं प्राप्नुमः ।
13:04 अग्रिमविकल्पः Square cap इत्ययं, रेखायाः अन्ते अभङ्गुराम् अधिकां च अश्रिम् आनयति ।
13:13 अत्र Dashes tab इत्यस्य अधः त्रीणि Markers सन्ति । एतानि पथस्य मध्ये marker इतीमानि ददति ।
13:20 ड्रोप्-डौन्-मेन्यूमध्ये Marker इत्यस्य प्रत्येकं विकल्पं दृष्तुं तस्योपरि नुदन्तु ।
13:25 Start Markers मध्येऽहं Torso' इति विकल्पं चिनोमि ।
13:29 वयं Curveinइतीदं Mid markers रूपेण चिनुमः ।
13:33 End Markers इत्यस्मै Legs इतीदं चिनुमः ।
13:39 canvasइत्यस्योपरि कार्टून् आगतम् ।
13:44 अन्ते Fill and stroke डैलाग्बोक्स्-मध्ये Blur अपि च Opacity इतीमे स्लैडर्स् अवलोकयन्तु ।
13:53 अधुना पुनः आयतं चिनुमः ।
13:56 Blur स्लैडर् इतीदं ओब्जेक्ट्-इत्यस्मै अस्पष्टं एफेक्ट्-दातुं उपयुञ्ज्महे । स्लैडर्-इतीदं नुत्वा दक्षिणपार्श्वं कर्षयामि ।
14:04 यथाहं दक्षिणं चालयामि तथा आयतम् अस्पष्टं जायते ।
14:15 Opacity स्लैडर्, आकृत्यै पारदर्शकतां दातुं उपयुक्तं वर्तते । स्लैडर् इतीदं दक्षिणं कर्षयित्वा आकृतौ परिवर्तनं पश्यन्तु ।
14:27 सारांशान् पश्याम, अस्मिन् पाठे वयम् ...
14:31 Fill and Stroke विकल्पमुपयुज्य, ओब्जेक्ट्-इत्यस्मै वर्णं पूरयितुं, स्ट्रोक् अथवा औट्-लैन्-दातुं , ग्रेडियेण्ट्-इत्यस्य प्रकारान्, स्ट्रोक्-पेण्ट् अपि च स्ट्रोक्-स्टैल् इत्येतेषां विषयं ज्ञातवन्तः ।
14:44 स्वाभ्यासार्थम्,
14:47 1.एकं पञ्चभुजं रचयित्वा पीतं Linear gradient इतीदं पूरयतु । अपि च ५पिक्सेल्-विस्तारस्य नीलं स्ट्रोक् ददातु ।
14:57 2. एकं एलिप्स् रचयित्वा Wavy पेटर्न् दत्वा opacity इतीदं 70% करोतु ।
15:04 3. 10 मानस्य एकां रेखां रचयित्वा , Start Markers' इतीदं Arrow1Lstart अपि च End Markers इतीदं Tail इति संयोजयतु ।
15:15 अन्ते युष्माकं पाठाभ्यासः एवं दृश्येत् ।
15:18 स्पोकन्-ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क्-मध्ये विद्यमानं विडियो पश्यन्तु । इदं अस्य प्रकल्पस्य सारांशं वदति । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्य पश्यन्तु ।
15:28 स्पोकन्-ट्युटोरियल् टीम्, इमान् पाठानुपयुज्य कार्यशालां चालयति । ये ओन्-लैन्-परीक्षायां उत्तीर्णाः भवन्ति ते प्रमाणपत्रमपि प्राप्नुवन्ति ।
15:37 विवरणार्थंcontact @ spoken-tutorial.org. इत्यस्मै लिखन्तु । स्पोकन्-ट्युतोरियल् प्रकल्पः, टोक् टु ए टीचर् इत्यस्य घटकमस्ति । अयं प्रकल्पः नेशनल् मिशन् ओन् एजुकेशन् ,ICT, MHRD, भारतसर्वकारेण अनुदानितमस्ति ।
15:55 अधिकविवरनम् - spoken-tutorial.org/NMEICT-intro इत्यत्रोपलभ्यते ।
16:05 अनुवादकः प्रवाचकश्च श्री नवीन भट्टः , उप्पिनपत्तनम् ।धन्यवादाः ।

Contributors and Content Editors

NaveenBhat