Firefox/C2/Setting-General-Privacy-Options/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 Mozilla Firefox इत्यस्य अस्मिन् पाठे स्वागतम् |
00:04 अस्मिन् पाठे वयं पठाम: General preferences , Privacy preferences च इति अनयो: विन्यासम् |
00:11 पाठे अस्मिन् वयं Firefox - संस्करणं 7.0 ,Ubuntu 10.04 च उपयुञ्ज्महे |
00:19 Mozilla Firefox - इत्यस्य Pereferences आम्रेडितकार्याणि सरलतया कर्तुम् अनुमतिं करोति |
00:24 Windows मध्ये इदं वैशिष्ट्यं Options इति उच्यते |
00:29 यथा , वयं email login - पर्णं मुखपृष्ठत्वेन इच्छाम: चेत्
00:34 वयं नुदाम: - Edit , Preferences च |
00:37 windows - उपयोक्तार: Tools ,Options. च नुदेयु: |
00:42 Preferences , Options वा इति संवादपिटक: उद्घटति | संवादपिटके उपरि बहूनि tabs सन्ति |
00:50 तस्य प्रत्येकस्य कार्यं भिन्नम् |
00:53 General panel आधिक्येन उपयुज्यमानविन्यासै: संबद्धानि preferences समाविशति , यथा Firefox - मुखपृष्ठ-विन्यासं ,सञ्चिकाया: अवारोपणस्य स्थान-विन्यासम् |
01:05 तर्हि पठाम: Gmail-पर्णं औत्सर्गिक-मुखपृष्ठत्वेन कथं स्थापनीयम् इति |
01:09 Start up, मध्ये ‘When Firefox starts’ इति drop down मेनु मध्ये ‘Show my home page’ चिनोतु |
01:16 ‘Home page’ क्षेत्रम् उत्सर्गेण ‘Mozilla Firefox Start Page’ इति विन्यस्तमस्ति |
01:22 ‘Home Page’ - क्षेत्रं नुदतु , टङ्कयतु च - ‘www.gmail.com’ इति |
01:29 Close - पिञ्जं नुदित्वा संवादपिटकं पिदधाम: |
01:33 अस्माकं विन्यासा: स्वत: एव रक्षिता: भवेयु:|
01:36 अधुना एनं Firefox - गवाक्षं पिदधातु |
01:39 अपि च नूतनं Firefox -गवाक्षं उद्घाटयतु |
01:42 भवान् लक्षयति यत् Gmail login- पर्णं मुखपृष्ठत्वेन दृश्यते |
01:46 अग्रे पठाम: Mozilla Firefox अवारोपणं कथं कारयति इति |
01:51 नुदतु - Edit , Preferences. च |
01:54 यथापूर्वं Windows उपयोक्तार: नुदन्तु - Tools , Options. च |
01:59 ‘General’ tab. नुदतु |
02:01 ‘Downloads’ पर्याये ‘Show the Downloads window when downloading a file’ इति चयनिकाम् अङ्कयतु |
02:10 अधुना ‘Save files to’ इति विकल्पिकाम् अङ्कयतु |
02:14 Browse - पिञ्जं नुदतु , Desktop इति default folder स्थापयतु |
02:21 Close - पिञ्जं नुदित्वा संवादपिटकं पिदधातु |
02:24 यथापूर्वम् अस्माकं विन्यास: स्वत: एव रक्षित: भवेत् |
02:29 गवेषकस्य Search bar, मध्ये टङ्कयतु - ‘flowers’, दक्षिणत: च magnifying lens नुदतु |
02:34 शोधनेन आविर्भूतं प्रथम - परिणामं दक्षिणेन नुदतु |
02:38 ‘Save Link As’ नुदतु च |
02:41 भवान् लक्षयति यत् सन्धानम् उत्सर्गेण Desktop उपरि अवारोपितं भवति |
02:46 ‘Save’ नुदतु , सञ्चिका Desktop उपरि रक्षिता भवेत् |
02:51 Tabs panel ,tabbed browsing इत्यस्य वैशिष्ट्यै: संबद्धानि preferences समावेष्टि |
02:57 Content panel , जालपर्णानि कथं दृश्येयु: इत्यनेन संबद्धानि preferences समावेष्टि |
03:03 Mozilla Firefox भिन्न-प्रकारक-सञ्चिका: कथं नियन्त्रयति इति निर्णेतुं Applications panel अनुमतिं करोति |
03:11 असौ PDF - प्रलेख: , audio - सञ्चिका वा भवेत् |
03:13 परीक्षारूपेण तत्रस्थान् पर्यायान् tabs च परिशीलयतु |
03:20 Privacy panel , जाल-गुप्तता - संबद्धानि preferences समाविशति |
03:26 Tracking मध्ये ‘Tell web sites I do not want to be tracked’ इत्यत्र अङ्कयतु |
03:31 अनेन पर्याय-चयनेन browsing - विषयकस्य सूच्यांश-सञ्चयात् जालपर्णानि विरमन्ति |
03:38 History मध्ये बहव: पर्याया: सन्ति |
03:41 ‘Firefox will’ - क्षेत्रे , ‘Never remember history’ चिनोतु |
03:46 अनेन पर्यायेण गवेषणस्य इतिहास: भवत: सङ्गणके संगृहीत: न भविष्यति |
03:53 वयं ‘Clear all current history’ नुदाम: चेत् भवत: सङ्गणकस्थ: गवेषणेन संगृहीत: सर्व: इतिहास: उच्छिन्न: भवेत् |
04:01 Location Bar प्रति आगच्छाम: |
04:04 ‘When using the location bar suggest’ - क्षेत्रे वयं नुदाम: drop down मेनु , ‘Nothing’ चिनुम: च |
04:12 तेन यदा कदापि भवान् सङ्केत-स्थले नूतनं URL टङ्कयति तदा भवान् सूचनाभि: चोदित: न भविष्यति |
04:20 Close नुदित्वा संवादपिटकं पिदधाम: |
04:23 भवत: गुप्तता इदानीं संपूर्णत: रक्षिता अस्ति |
04:26 Security panel , जालगवेषण-सुरक्षा - संबद्धानि preferences समाविशति |
04:32 Sync panel इत्यस्य उपयोग: “Firefox Sync” account. व्यवस्थापयितुं भवति |
04:38 Firefox Sync इत्यनेन history, bookmarks ,passwords च इति एषां भिन्न-उपकरणेषु उपयोग: शक्य: |
04:46 Advanced Panel कतिचन महत्त्वपूर्ण-विन्यासान् समाविशति |
04:50 Firefox इत्यस्य गतिविधिं नियन्त्रयितुं गवेषणं ,प्रणाली चेत्यनयो: उत्सर्ग - विन्यासा: अस्मिन् सन्ति |
04:57 वयं Network पर्यायम् उपयुज्य Firefox इत्यस्य अन्तर्जालेन सह संयोजनस्य मार्गं अपि संरूपयितुं शक्नुम: |
05:04 Network tab मध्ये , Connections इत्यस्मिन् Settings - पिञ्जं नुदतु |
05:09 अनेन Connection Settings - संवादपिटक: उद्घटति |
05:13 अत्र भवान् Proxies. विन्यासयितुं शक्नोति |
05:16 कर्यक्षमतां वर्धयितुं , समीचीनतर-सुरक्षां दातुं Proxies उपयुज्यन्ते |
05:22 उत्सर्गेण ‘Use system proxy settings’ इति विकल्पिका चीयते |
05:27 पर्याय: असौ भवत्-प्रणाली-निमित्तं संरूपितान् विन्यासान् उपयुङ्क्ते |
05:32 यथावश्यकं proxy विन्यस्तुं "Manual proxy configuration" - इति विकल्पिकां नुदतु |
05:39 एषु क्षेत्रेषु भवान् proxy - विन्यासान् स्थापयितुं शक्नोति |,Close - पिञ्जं नुदित्वा " Connection Settings" - संवादपिटकं पिदधाम: |
05:49 पुन: Close - पिञ्जं नुदित्वा Preferences , Options वेति संवादपिटकं पिदधाम: |
05:55 भवत: विन्यासा: स्वत: एव रक्षिता: भवेयु: |
05:58 वयं Advanced panel - त: Update tab उपयुज्य Firefox नवीकर्तुं शक्नुम: |
06:05 अत्र असौ पाठ: समाप्यते |
06:08 पाठे अस्मिन् वयम् अपठाम, General preferences , Privacy preferences च इति अनयो: विन्यासम् |
06:15 व्यापक -परीक्षा
06:18 नूतनं गवेषक - गवाक्षम् उद्घाटयतु |
06:21 मुखपृष्ठत्वेन ‘spoken-tutorial.org’ इति स्थापयतु |
06:26 औत्सर्गिकम् अवारोपण-स्थानं ‘Home Folder’ इति स्थापयतु |
06:30 ‘When using the location bar, suggest:’ इत्यस्य स्थाने History , Bookmarks.च स्थापयतु |
06:38 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु -http://spoken-tutorial.org/What is a Spoken Tutorial
06:41 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
06:44 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
06:49 spoken tutorial गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
06:54 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
06:58 अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु |
07:05 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
07:07 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
07:17 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
07:27 एतत्- पाठ- अनुवादकर्त्री इयं घाग-नन्दिनी IIT - मुम्बयीत: आपृच्छते भवत: | दर्शनार्थं संपर्कार्थं च धन्यवादा: |

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Sneha