Xfig/C2/Feedback-control-diagram/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:06, 9 April 2019 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Xfig उपयुज्य क्रियमाणे, feedback diagram creation इत्याख्ये 'अनुशिक्षणे' प्रति भवतां स्वागतम् ।
00:07 block diagram creation इत्याख्ये अनुशिक्षणे, वयम् अत्र दर्शितानि ब्लाक् डैग्राम्स् रचितवन्तः स्मः ।
00:14 इतःपरम्, एतत् वयं blocks tutorial इति वदामः ।
00:18 अस्य अनुशिक्षणस्य आरम्भात् पूर्वं, blocks tutorial सम्यक् अभ्यासं कुर्मः ।
00:22 अस्मिन् पुटे दर्शित-ब्लाक् डैग्राम्स् कथं रचनीयानि इति अस्मिन् अनुशिक्षणे वयं विवृणुमः ।
00:31 अहं Xfig आवृत्तिः 3.2, patch level 5 एतेषाम् उपयोगं करोमि ।
00:37 अस्माभिः blocks अनुशिक्षणे रचितेन "block.fig" तः आरभामहे ।
00:43 Xfig प्रति गच्छामः ।
00:47 File इत्येतत्, ततः Open इत्येतत् चिनुमः ।
00:52 एण्ट्रि-बाक्स् अन्तः, "block" इति लिखित्वा Open इति क्लिक् कर्तुं शक्यते । अथवा “block.fig” उपरि डबल्-क्लिक् कर्तुं शक्यते ।
01:04 File इत्यत्र Save as आप्षन् उपयुज्य, वयम् एताम् आकृतिं "feedback" इति सेव् कुर्मः ।
01:24 इदानीम् अस्माकं समीपे "feedback.fig" इति सञ्चिका अस्ति ।
01:28 वयं Grids उपरि क्लिक् कृत्वा, ग्रिड्स् योजयामः ।
01:34 क्यान्वास् उपरि अथवा अधः अपसारयितुं, दक्षिणतः विद्यमानं स्क्रोल्-बार् उपयोक्तुं शक्यते ।
01:41 प्रत्येकं मौस् बटन् यत् कार्यं करोति, तत् उपरि दक्षिणभागे दर्शितम् अस्ति ।
01:46 एतत् कार्यं, जायमानं कार्यम् अवलम्बते ।
01:49 एतत् विवरीतुम्, अहं मौस् स्क्रोल्-बार् समीपं नयामि ।
01:55 'लेफ्ट्-बटन्' पार्श्वे विद्यमानां टिप्पणीं सावधानं पश्यन्तु ।
01:59 एतत् दर्शयितुम्, मया मौस् नोदयितुं न शक्यते । यतः, मया स्क्रोल्-बार्-तः कर्सर् दूरे नीयते चेत्, बटन्स् पात्रं भिद्यते ।
02:08 वामतः विद्यमानं बटन्, क्यान्वास् उपरि नेतुं, दक्षिणतः विद्यमानं च अधः चालयति ।
02:17 वाम-अथवा-दक्षिण-बटन् क्लिक्-करणं विहाय, अस्माभिः मध्ये विद्यमानं बटन् क्लिक् कृत्वा, तत् नुदद्भिः, क्यान्वास् उपरि अधः आक्रष्टुं शक्यते ।
02:31 एवमेव, उपरितनं स्क्रोल्-बार् उपयुज्य, भवद्भिः क्यान्वास् दक्षिणतः अथवा वामतः नेतुं शक्यते ।
02:44 इदानीम् अहं मध्यम-बटन् क्लिक् कृत्वा, क्यान्वास् नुदित्वा, तत् मध्यभागे आकृष्य, बाक्स् इत्येतत् मध्यभागं प्रति आनयामि ।
02:57 यावता अहं मौस् मुञ्चामि, बाक्स्, मध्यभागं प्रति आगच्छति ।
03:03 इदानीं, एतत् ब्लाक्-तः, वयं फीड्-ब्याक्-डैग्रां रचयामः ।
03:08 एतत् बाक्स् copy कुर्मः ।
03:13 बाक्स् उपरि क्लिक् कृत्वा तत् चिनुमः ।
03:16 मौस् नूतनस्थलं प्रति नीत्वा, तत्र क्लिक् कुर्वन्तु ।
03:27 इदानीं वयं किञ्चित् टेक्स्ट् योजयामः ।
03:29 वामभागस्य प्यानल्-मध्ये, T द्वारा सूचितं टेक्स्ट्-बाक्स् क्लिक् कुर्मः ।
03:37 टेक्स्ट् सैज् चिनुमः ।
03:43 मौस् व्याल्यू-बाक्स् प्रति नीत्वा, तत्र 16 इति लिखन्तु ।
03:51 Set इत्येतत् क्लिक् कुर्वन्तु ।
03:53 'अट्रिब्यूट्स्' प्यानल् इत्यत्र विद्यमानं Text Just बटन् वयं क्लिक् कुर्मः ।
04:02 'सेण्टर् अलैन्मेण्ट्' इत्येतत् चिनुमः ।
04:05 प्रथम-बाक्स् मध्ये क्लिक् कुर्मः ।
04:11 क्षम्यताम्, मया समीचीनं स्थलं च चितम् ।
04:15 कर्सर् दूरे अपसारयितुं, अहम् अन्यस्मिन् स्थले क्लिक् करोमि ।
04:19 तदनन्तरम् अहं समीचीने स्थले क्लिक् करोमि ।
04:27 वयम् इदानीं टेक्स्ट् “Control” इति टैप्-कृत्वा, मौस् क्लिक् कुर्मः ।
04:35 अस्माभिः इदानीं, बाणचिह्नयुक्ताः काश्चन रेखाः योजनीयाः सन्ति ।
04:40 POLYLINE इत्येतत् बटन् वयं चिनुमः ।
04:43 'अट्रिब्यूट्स्' प्यानल्-तः, Arrow Mode बटन् चित्वा, द्वितीयं option चिनुमः ।
04:53 Arrow Type बटन्, किञ्चन आरो हेड् च क्लिक् कुर्मः ।
05:00 रेखा यत्र आरब्धा स्यात् तत्र क्लिक् कुर्मः ।
05:08 अस्याः रेखायाः अन्तिमबिन्दुसमीपे मौस् नयामः ।
05:14 middle mouse button तः, तत्र क्लिक् कुर्मः ।
05:20 इदानीं बाण-चिह्नेन सह रेखा रचनं जातम् अस्ति ।
05:25 मया किञ्चन वृत्तं योजनीयम् अस्ति ।
05:27 वामभागस्य प्यानल्-तः, वामतः विद्यमानं वृत्तं वयं चिनुमः ।
05:33 वयम् एतत् प्रथम-बाक्स् वामभागे योजयामः ।
05:37 मौस् क्लिक् कुर्वन्तु । अहं मौस् यथा यथा अपसारयामः, तथा तथा वृत्तं बृहत् भवति ।
05:47 समीचीनाम् आकृतिं यदा प्राप्नोति तदा, मौस् बटन् त्यजामः ।
05:54 ओह्, वृत्तं मदपेक्षितापेक्षया बृहत् अस्ति ।
05:57 उपरितने कोणे विद्यमानं Edit बटन् उपयुज्य, अहम् एतत् कार्यं undo कर्तुं शक्नोमि ।
06:02 वामभागस्थ-प्यानल् मध्ये विद्यमानं Delete बटन् उपयुज्य, वयम् एतत् अब्जेक्ट् डिलिट् अपि कर्तुं शक्यते।
06:10 वयमिदानीं तत् कुर्मः ।
06:14 cross hairs सह किञ्चन स्लेलेटन् दृश्यते ।
06:18 सर्वेषाम् अब्जेक्ट्स् की पायिण्ट्स् (मुख्यांशाः) अपि दृश्यन्ते । ಕಾಣಿಸಿಕೊಳ್ಳುತ್ತವೆ.
06:22 वृत्तसूचक-की पायिण्ट्-दिशि क्रास्-हेर्स् नीत्वा क्लिक् कुर्वन्तु ।
06:32 यदि, अन्यत् आब्जेक्ट् डिलिट् जातं चेत्, चिन्तायाः आवश्यकता नास्ति ।
06:35 भवन्तः तत् undo कर्तुं शक्नुवन्ति : Edit बटन् क्लिक् कृत्वा गृहीत्वा, Undo इत्यत्र गत्वा मौस् मुञ्चन्तु ।
06:44 यदि, केचन आब्जेक्ट्स् समीपे समीपे सन्ति चेत्, तेषां चयनाय भवतां क्लेशः स्यात् ।
06:49 zoom इति option द्वारा भवन्तः एतत् परिहर्तुम् अर्हन्ति ।
06:55 उपरि वामतः View बटन् क्लिक् कृत्वा, मौस् गृहीत्वा, झूम्-चयनेषु एकं चिन्वन्तु ।
07:00 अहं मौस् Zoom to fit the canvas इत्यत्र त्यजामि ।
07:04 इदानीम् अब्जेक्ट्स् मध्ये विद्यमानस्य व्यत्ययस्य ग्रहणं सरलम् ।
07:08 इदानीम् अहं वृत्तं डिलिट् करोमि ।
07:12 इदानीं unzoom करोमि ।
07:20 स्क्रोल्-बटन्स् सहायेन अहं डैग्राम् मध्यभागं प्रति नयामि ।
07:35 delete चिह्नम् अहं ON स्थापयितुं नेच्छामि । यतः, अकस्मात् अन्यत् किमपि अहं डिलिट् कुर्याम् ।
07:41 अन्यदेकं बटन् चित्वा, अहमेतत् परिवर्तयितुं शक्नोमि ।
07:44 अहं वामभागे विद्यमानंवृत्तं चिनोमि ।
07:47 वृत्तं पुनरपि रचयामि ।
08:00 मया एतस्याः रेखायाः अन्या रेखा रचनीया अस्ति ।
08:04 एतदर्थं, वयं रेखायाः उपरि आदौ एकं dot स्थापयामः ।
08:07 वामभागस्य प्यानल्-मध्ये विद्यमानं Library क्लिक् कुर्मः ।
08:11 राशीकृतैः पुस्तकैः Library सूच्यते ।
08:15 किञ्चन डैलाग् विण्डो उद्घाटितं भवति ।
08:17 Library इत्याख्ये बाक्स् मध्ये, None Loaded इति वर्तते ।
08:20 वयं क्लिक् कृत्वा गृह्णीमः ।
08:22 उपलब्धानां लैब्ररिसमूहानां काचित् आवली दृश्यते ।
08:25 मौस् 'Logic' इति लैब्ररि-समीपे नीत्वा तत्र त्यजन्तु ।
08:31 लघु-बिन्दुं, तस्य उपरि डबल्-क्लिक्-करणद्वारा चिनुमः ।
08:36 डैलाग् विण्डो पिहितं भवति ।
08:38 चितेन लघु डाट्-सह, क्रास् हेर् वयं पश्यामः ।
08:42 क्लिक्-करणद्वारा रेखाया उपरि बिन्दुं स्थापयामः ।
08:51 कर्सर् लघुः बिन्दुश्च पुनरपि दृश्यते । अन्यस्मिन् स्थाने अपि इदं स्थापयितुं शक्यते इति एतत् सूचयति ।
08:57 अस्माभिः अन्यत्र कुत्रचिदपि बिन्दुः स्थापनीया नास्ति ।
09:00 मौस् इत्यस्य दक्षिण-बटन् क्लिक् कृत्वा एतस्य पिधानं कुर्मः ।
09:05 दक्षिण-बटन्, undo आपरेषन् करोति ।
09:08 अस्मिन् सन्दर्भे, डाट्-चयनं निष्कासितम् अस्ति ।
09:10 एतस्मात् डाट्-तः वृत्तं प्रति एकां रेखां लिखामः ।
09:15 Polyline वयं चिनुमः ।
09:18 पूर्वतन-आप्षन्स् - Arrow Mode, Arrow Type च स्मर्यन्ते इत्येतत् अवलोकयन्तु ।
09:24 एकस्मिन् सेषन् मध्ये प्यारामीटर् व्याल्यू , Xfig स्मरति ।
09:28 बिन्दुं क्लिक् कुर्मः ।
09:34 मौस् अधः चालयित्वा, क्लिक् कुर्वन्तु ।
09:41 इदानीं मौस्, वामतः, वृत्तस्य अधोभागपर्यन्तं चालयित्वा क्लिक् कुर्वन्तु ।
09:47 मौस् वृत्तसमीपे नीत्वा, 'मिडल् मौस् बटन्' क्लिक् कुर्वन्तु ।
09:54 copyकरणद्वारा, वृत्तस्य वामतः अन्यामेकां रेखां लिखामः ।
10:08 Xfig उपरि वामकोणे विद्यमानं File बटन् उपयुज्य, Save इति चित्वा, वयम् एतत् चित्रं सेव् कुर्मः ।
10:19 इदानीं सञ्चिकां Export कुर्मः ।
10:22 File बटन् पुनः क्लिक् कृत्वा Export इति चिनुमः ।
10:30 वयं Language, ततः PDF इत्येतत् चिनुमः ।
10:36 "feedback.pdf" सञ्चिका अस्माभिः लभ्यते ।
10:43 open feedback.pdf कमाण्ड्-द्वारा, इदानीं वयम् एतां सञ्चिकाम् उद्घाटयामः ।
10:56 अस्मदपेक्षितं ब्लाक् डैग्राम्, इदानीम् अस्माभिः प्राप्तम् अस्ति ।
11:00 अस्माकं लक्ष्यं वयं प्राप्तवन्तः स्मः ।
11:04 भवद्भ्यः किञ्चन गृहकार्यम् अस्ति ।
11:08 ब्लाक्स्, विभिन्न-आब्जेक्ट्-द्वारा परिवर्तयन्तु ।
11:13 rotate, flip इत्यादीनि आपरेषन्स् प्रयतन्ताम् ।
11:19 एडिटर्-मध्ये “feedback.fig” सञ्चिकां पश्यन्तु, विविधानि घटकानि च परिचिन्वन्तु ।
11:25 'लैब्ररि' उपयुज्य, सम्पूर्णतया भिन्नमेवे ब्लाक् डैग्राम्स् रचयन्तु ।
11:32 स्पोकन् ट्युटोरियल् योजना, टाक् टु ए टीचर् योजनायाः कश्चन भागः । इदं ICT, MHRD द्वारा भारतसर्वकारस्य राष्ट्रिय साक्षरता मिशन् आधारीकृतम् अस्ति ।
11:44 एतद् मिषन् विषये अधिकं विवरणम्, अधोनिर्दिष्टायां पर्चन्यां लभ्यते:

http://spoken-tutorial.org/NMEICT-Intro

11:53 भवतां सहभागित्वं, सूचनाश्च वयं स्वागतीकुर्मः ।
11:57 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, ध्वनिः ........।

धन्यवादः ।

Contributors and Content Editors

NaveenBhat, Udayana