Difference between revisions of "Moodle-Learning-Management-System/C2/Overview-of-Moodle/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- |00:01 | ''' Overview of Moodle''' इति स्पोकन् ट्युटोरि...")
 
 
Line 114: Line 114:
 
|-
 
|-
 
|03:46
 
|03:46
| '''MySQL, MariaDB ''' अथवा '''PostgreSQL''' सदृशानि डेटाबेस् तथा ''PHP''' इतीमान्यावश्यकानि ।  
+
| '''MySQL, MariaDB ''' अथवा '''PostgreSQL''' सदृशानि डेटाबेस् तथा '''PHP''' इतीमान्यावश्यकानि ।  
 
|-
 
|-
 
| 03:54
 
| 03:54

Latest revision as of 11:12, 24 March 2020

Time
Narration
00:01 Overview of Moodle इति स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:07 पाठेऽस्मिन् वयं : Learning Management Systems (सङ्क्षेपेण LMS ) इत्यस्य परिकल्पना ।
00:16 Moodle इतीदमेकं LMS वत्,
00:19 अस्योपयोगं कः कर्तुमर्हति अपि च Moodle जालपुटानाम् उदाहरणानि इत्येतेषां विषयान् ज्ञास्यामः ।
00:26 Moodle इतीदमनुसर्तुम् आवश्यकानि सोफ़्ट्वेर्स् तथा हार्ड्वेर्स् अपि च,
00:33 अस्मिन् सरणौ विवरिष्यमाणानि प्रधानवैशिष्ट्यानि, इत्येतेषां विषयान् ज्ञास्यामः ।
00:39 पाठस्यास्य अनुसरणाय उपयोक्तारः अन्तर्जाले ब्रौसिङ्ग् विषयं जानीयुः ।
00:45 आदौ Learning Management System अथवा LMS नाम किमिति जानाम ।
00:53 LMS, अस्माकं किमपि eLearning content इत्यस्य रचनाय, निर्वहणाय, प्रापणाय च साहाय्यमाचरति ।
01:01 उदाहरणार्थं : शैक्षणिकप्रणाल्यः तथा प्रशिक्षणकार्ययोजनाः च ।
01:07 इदमस्माकं प्रणालीनां निर्वहणाय च सहाय्यमाचरति ।
01:11 विषयस्य रचना, एडिट्-करणं, विद्यार्थिभ्यः एक्सेस् प्रदानं, तैः सब्मिट् कृतस्य ग्रेड् करणम् इत्यादीनि ।
01:21 'मूडल्' एकं प्रतिक्रियाशीलं निःशुल्कं ओपन्-सोर्स् सोफ़्ट्वेर् वर्तते ।
01:27 जागतिकस्तरे शैक्षणिक-संस्थाभिः उपयुज्यमानेषु अत्यन्तजनप्रियेषु 'एल् एम् एस् ' (LMS) इत्येतेषु इदमन्यतमं वर्तते ।
01:33 अस्य सेक्यूरिटि नियन्त्रणानि अस्माकं डेटा इतीदं सुरक्षितं स्थापयति ।
01:39 इदमस्माकं अध्यापकेभ्यः ज्ञातृभ्यश्च अधिकारं दातुं वैशिष्ट्यानि प्राप्तवदस्ति ।
01:47 अस्य सुलभविनियोगाय, 'मूडल्' इतीदं, सविस्तरं डोक्युमेण्टेशन् प्रददाति ।
01:54 'मूडल्' उपयोक्तॄणां समुदायस्य, फ़ोरम् इत्यस्य सहाय्यञ्च बहु-क्रियाशीलं वर्तते ।
02:00 'मूडल्' मध्ये उपलभ्यमानानि निःशुल्कनि प्लग् इन्स् इतीमानि, इदं विशेषं कारयति ।
02:06 सर्वेषु साधनेषु मूडल् इत्यस्य नेविगेशन् सुलभमस्ति ।

'कोर्स्' तथा सैट् अनयोः स्तरे चर्या तथा सहभागित्वं प्रति विस्तृतविवरणं प्राप्तवदस्ति ।

02:18 एककाले तथा स्वयमेव ज्ञातुमपि साहाय्यमाचरति ।
02:23 एतदर्थं- फ़ोरम्स्, पीर् असैन्मेण्ट्स्, ग्रुप् मेनेज्मेण्ट्स्, लर्निङ्ग् पाथ्स् इत्यादीन् उपयोक्तुं शक्नुमः ।
02:32 Moodle LMS कः उपयोक्तुमर्हन्तीति पश्याम ।
02:36 विश्वविद्यालयः, महाविद्यालयाः, शालाः अपि च प्रशिक्षणसंस्थाः,
02:44 औद्यमिकप्रशिक्षणं ओरियेण्टेशन्स्, वाणिज्यम्,
02:49 चिकित्सालयः, आरोग्यरक्षणप्रशिक्षणानि अपि च
02:53 या कापि eLearning आधारितसंस्था च ।
02:57 'मूडल्' द्वारा निर्मितानि कानिचन जालपुटानि पश्याम ।
03:02 एतादृशमहाविद्यालयाः,
03:05 एतादृश स्वीयविश्वविद्यालयाः,
03:09 एतादृशप्रशिक्षणसंस्थाः,
03:13 एतादृश शिक्षाकेन्द्राणि,
03:17 ओन्लैन् मध्ये स्वप्रणालीः दातुमिच्छन्तः अध्यापकाः इत्यादयः ।
03:24 अधस्तन URL, 'मूडल्' इत्यस्योपयोगस्य साङ्ख्यिकविवरणं प्राप्तवदस्ति ।
03:30 अत्र, नाना राष्ट्रेभ्यः नामाङ्कितानि मूडल् जालपुटानि भवन्तः परीक्षितुमर्हन्ति ।
03:40 Moodle इत्यस्य इन्स्टाल् करणाय अस्मभ्यं Apache web-server,
03:46 MySQL, MariaDB अथवा PostgreSQL सदृशानि डेटाबेस् तथा PHP इतीमान्यावश्यकानि ।
03:54 'मूडल्' इतीदं, सम्पन्मूलस्वाधीनाय एकं सोफ़्ट्वेर् वर्तते ।
03:58 'मूडल्' रन् कर्तुम् उक्तानि हार्ड्वेर्स्:
04:02 'डिस्क् स्पेस्': Moodle कोड् इत्यस्मै 200 MB अपि च विषयसङ्ग्रहणाय अधिष्ठानञ्च आवश्यकम् । तथापि वस्तुतः न्यूनातिन्यूनं 5GB आवश्यकम् ।
04:15 प्रोसेस्सर् (processor) : न्यूनातिन्यूनं 1 गिगा-हर्ट्स् (Gigahertz) आवश्यकं, परन्तु 2 Gigahertz dual core अथवा तदधिकं वा उत्तमपक्षः ।
04:23 मेमोरि (Memory): न्यूनातिन्यूनं 512 MB आवश्यकं, परन्तु 1GB अथवा तदधिकमस्ति चेद्वरम् ।
04:31 'सिस्टम्' इत्यस्योपरि विद्यमान लोड् आधृत्य आवश्यकता भिद्यते ।
04:37 उदाहरणार्थं: courses इत्येतेषां सङ्ख्या, युगपन्निरीक्षितानि लोग्-इन्स् इतीमानि च ।
04:44 अस्याः ततेः रचनाकाले, Moodle 3.3 सद्यःकालीन-स्थिरावृत्तिः आसीत् ।
04:50 उपलभ्यमानया सद्यःकालीनावृत्या सह कार्यकरणम् सर्वदा वरम् ।
04:57 Moodle 3.3 इत्यस्यार्थम् अधस्तन आवश्यकता अस्ति :
05:01 Apache 2.x (अथवा तदधिकावृत्तिः),

MariaDB 5.5.30 (अथवा तदधिकावृत्तिः) अपि च

05:11 PHP 5.4.4 (अथवा तदधिकावृत्तिः) ।
05:17 अस्मिन् ततौ वयमधस्तन OS तथा सोफ़्ट्वेर् उपयुक्तवन्तः ।

Ubuntu Linux OS 16.04,

05:26 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP अपि च Moodle 3.3
05:36 अयं मूडल् ततिः द्विधा विभक्तः -
05:41 एकः 'मूडल् सैट् एड्मिनिस्ट्रेटर्स्' (Moodle site administrators) इत्यस्यार्थम् अन्यच्च अध्यापकेभ्यः (teachers).
05:48 Moodle site Administrators इतीदं : सर्वर् इत्यस्योपरि Moodle इतीदम् इन्स्टाल् करोति ।
05:54 इन्स्टिट्यूट् दिग्दर्शनानुसारेण course categories इतीदं रचयति । नाना प्रणालिभ्यः, courses तथा 'यूसर् अकौण्ट्' निर्वहणं करोति ।
06:04 'मूडल् सैट् एड्मिनिस्ट्रेटर्स्' इत्यस्यार्थं, अस्मिन् ततावुक्तानि कानिचन वैशिष्ट्यानि अत्रोक्तानि ।
06:14 Getting ready for Moodle installation ट्युटोरियल् इतीदं , 'लोकल् होस्ट्' इत्यस्योपरि पेकेजस् परिशीलनं कथं करणीयं तथा डेटाबेस् इत्यस्य सेट् अप् करणं कथमिति च वदति ।
06:29 Installing Moodle on Local Server इति ट्युटोरियल्, Moodle इतीदं कथं डौन्लोड् कृत्वा इन्स्टाल् करणीयमिति विवरिष्यति ।
06:39 Moodle मध्ये, Admin’s dashboard इति ट्युटोरियल् - Admin Dashboard, नाना block इतीमानि, profile page अपि च preferences इत्यस्य एडिट् करणं कथमिति च विवरिष्यति ।
06:53 Blocks in Admin's Dashboard इति ट्युटोरियल् - blocks इत्यस्य संयोजनं निष्कासनं च कथमिति, तथैव
07:05 Front page इत्यस्य सेट्-करणं कथमिति च विवरिष्यति ।
07:08 Categories in Moodle इत्यस्मिन् अग्रिमे ट्युटोरियल् मध्ये वयं categories & subcategories इत्यस्य रचनां च जानामः ।
07:19 Courses in Moodle इति टुटोरियल् मध्ये वयं course इतीदं रचयित्वा तस्य कोन्फ़िगर् करणं जानामः ।
07:28 Users in Moodle इति ट्युटोरियल्,-

user इतीदं कथं संयोजनीयम्,

07:36 user इत्यस्य प्रोफ़ैल् एडिट् करणं,

अपि च users इतीदं बृहत्परिमाणे अप्लोड् कर्तुं विवरिष्यति ।

07:43 User Roles in Moodle इति ट्युटोरियल्, उपयोक्तृभ्यः नाना पात्रनियोजनं च विवरिष्यति ।
07:52 तद्यथा : secondary admin role, teacher role अपि च student role.
08:00 Moodle site administrators इत्यस्यार्थं , अस्मिन् ततौ अग्रे बहूनि ट्युटोरियल्स् सन्ति ।
08:07 वयमधुना अध्यापकेभ्यः विद्यमानानि ट्युटोरियल्स् जानाम ।
08:11 अध्यापकाः – स्वकीयप्रणाल्यै विषयस्य अप्लोड् करणाय, एडिट्करणाय च ,
08:17 विद्यार्थिनां प्रगतिः निर्धारयितुम् असैन्मेण्ट् तथा क्विझस्(quizzes) रचयितुम् अपि च,
08:22 विद्यार्थीन् स्वकीयानां 'कोर्सस्' मध्ये संयुज्य तैः सह सम्पर्काय उत्तरदायिनः वर्तन्ते ।
08:27 अधुना, अध्यापकेभ्यः विद्यमानततौ विवृताः काश्चन विशिष्टताः दर्शयिष्यामि ।
08:34 Teacher’s dashboard in Moodle इति ट्युटोरियल् -

'टीचर्स् डेश्-बोर्ड्' (teachers’ dashboard), प्रोफ़ैल् एडिट्-करणम् अपि च preferences इत्यस्य एडिट्-करणञ्च विवरिष्यति ।

08:46 Course Administration in Moodle इति ट्युटोरियल् - course सेट्टिङ्ग्स् कथं कोन्फ़िगर् करणीयम्,
08:53 अपि च course मध्ये, Activities तथा Resources इत्येतेषां निर्वहणं विवृणोति ।
08:59 Formatting course material in Moodle इति ट्युटोरियल् - डीफ़ोल्ट् Moodle text editor मध्ये, फ़ोर्मेट् कर्तुं नाना विकल्पाः,
09:10 अपि च अधिकानि course material संयोजनञ्च विवृणोति ।
09:15 Uploading and Editing Resources in Moodle ट्युटोरियल् - URL resource इतीदं अपि च book resource इतीदं कथम् अप्लोड् कर्तव्यं अपि च तानि रिसोर्सस् इत्येतेषाम् एडिट् करणञ्च विवृणोति ।
09:29 अस्मिन् ततौ अग्रिमं ट्युटोरियल् Forums and Assignments in Moodle वर्तते ।
09:34 अस्मिन् ट्युटोरियल् मध्ये वयं :

Moodle मध्ये नाना प्रकारकाणि forums इतीमानि,

09:39 चर्चार्थं फ़ोरम्-संयोजनम् अपि च असैन्मेण्ट्स् रचना च कथमिति जानाम ।
09:48 Question bank in Moodle इति ट्युटोरियल् मध्ये, questions इत्येतेषां Categories इत्यस्य रचना अपि च प्रश्नान् question bank मध्ये संयोजनं कथमिति जानाम ।
09:58 Quiz in Moodle ट्युटोरियल् मध्ये:

Quiz इत्यस्य रचना तथा Question bank तः प्रश्नान् Quiz मध्ये संयोजनं कथमिति जानाम ।

10:12 Enroll Students and Communicate in Moodle इति ट्युटोरियल् मध्ये वयम् :

'कोर्स्' इत्यस्मै 'CSV फ़ैल्' द्वारा अप्लोड् कृतान् छात्रान् संयोजितुम्,

10:25 कोर्स् इत्येतेषु ग्रुप्-रचना अपि च छात्रेभ्यः सन्देशान् टिप्पणीः च प्रेषयितुं जानाम ।
10:31 अस्मिन् ततौ पश्चात् अध्यापकेभ्यः छात्रेभ्यश्च अधिकानि ट्युटोरियल्स् सन्ति ।
10:37 सङ्क्षेपेण -

पाठेऽस्मिन् वयं 'लर्निङ्ग् मेनेज्मेण्ट् सिस्टम्(LMS)' इत्यस्य परिकल्पना,

10:48 LMS इतीव मूडल्,

मूडल् केन उपयोक्तुमर्हति ? अपि च मूडल् जालपुटानां विवरणानि च ज्ञातवन्तः ।

10:57 'मूडल्' इत्यस्य रन् करणाय आवश्यकानि सोफ़्ट्वेर्स् अपि च हार्ड्वेर्स् तथा 'मूडल्' ततौ विवृतानि प्रधानविशिष्टतानाम् अवलोकनं कृतवन्तः ।
11:10 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।

उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।

11:18 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
11:28 अस्मिन् 'स्पोकन् ट्युटोरियल्' मध्ये प्रश्नाः सन्ति वा? कृपया जालपुटमिदं पश्यन्तु ।
11:35 भवतां प्रश्नस्य मिनिट् सेकेण्ड् च चिन्वन्तु ।

भवतां प्रश्नान् सङ्क्षेपेण विवृण्वन्तु । अस्माकं गणेषु यः कोऽपि उत्तरं यच्छति ।

11:45 स्पोकन् ट्युटोरियल् फ़ोरम्, पाठसम्बद्धाय प्रश्नाय वर्तते ।
11:51 कृपया अस्मबद्धप्रश्नान् न पृच्छन्तु । अनेन भ्रान्तिः सङ्कीर्णता च न जायते ।
11:59 अनेन चर्चा अर्थपूर्णाभूत्वा ज्ञानाय सुलभः भविष्यति ।
12:05 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
12:18 लेखोऽयं प्रियाङ्का-महाभागायाः योगदानमस्ति ।

पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14