Moodle-Learning-Management-System/C2/Installing-Moodle-on-Local-Server/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Installing Moodle on Local Server इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति भवद्भ्यः स्वागतम् ।
00:07 पाठेऽस्मिन् वयं , Moodle इत्यस्य डौन्लोड् करणं इन्स्टाल् करणञ्च ज्ञास्यामः ।
00:15 Moodle इत्यस्य इन्स्टाल् करणाय भवद्भिः तस्य समर्थनयोग्या व्यवस्था प्राप्ता स्यात् :

Apache 2.x (तदधिका वा आवृत्तिः),

00:23 MariaDB 5.5.30 (तदधिका वा आवृत्तिः) अपि च PHP 5.4.4 + (तदधिका वा आवृत्तिः) च।
00:36 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

00:44 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,
00:53 Moodle 3.3 अपि च Firefox वेब्-ब्रौसर् इतीमान्युपयुञ्जे ।
00:59 भवदभीष्टं यत्किमपि वेब्-ब्रौसर् उपयोक्तुमर्हन्ति भवन्तः ।
01:03 परन्तु, Internet Explorer इत्यस्योपयोगः मास्तु । तत् सम्यग् डिस्प्ले न करोति ।
01:11 आदौ, इण्टर्नेट् सम्पर्कः प्राप्तः इति दृढीकुर्वन्तु ।
01:16 अस्मिन् ततौ पूर्वतन पाठान्यप्यवलोकयन्तु ।

पूर्वोक्ताः सन्ति, डेटाबेस् सम्यग् सेट्-अप् जातमिति च दृढीकुर्वन्तु ।

01:27 अस्माकं XAMPP रन् जायमानं स्यात् अपि च अस्माभिः username moodle-st इत्यनेन सह डेटाबेस् सेट्-अप् कृतं स्यात् ।
01:37 आदौ, वेब्-ब्रौसर् गत्वा XAMPP इत्यस्यारम्भं करोमि ।
01:42 अड्रेस्-बार् मध्ये एवं टङ्कयन्तु : http colon double slash 127 dot 0 dot 0 dot 1 तथा Enter नुदन्तु च ।
01:56 स्क्रीन् इत्यस्योपरि दक्षिणे मेन्यू मध्ये , PHPinfo इत्यस्योपरि नुदन्तु ।
02:02 अधुना Ctrl + F कीलके नुत्वा DOCUMENT underscore ROOT इतीदम् अन्विषन्तु ।
02:10 इदं Apache Environment टेबल् मध्ये वर्तते ।
02:14 DOCUMENT underscore ROOT इत्यस्य मूल्यं , slash opt slash lampp slash htdocs अथवा slash var slash www वर्तते ।
02:30 मम यन्त्रे तत् slash opt slash lampp slash htdocs वर्तते ।
02:37 इदं पाथ् स्मरणे स्थापयन्तु । वयं 'मूडल्' इतीदमत्र इन्स्टाल् करिषामः ।
02:43 अधुना 'मूडल्' इत्यस्य डौन्लोड् प्रारभामहे ।

'मूडल्' इत्यस्य अधिकृतजालपुटं moodle.org इतीदं गच्छन्तु ।

02:53 उपरितन मेन्यू-मध्ये, Downloads लिङ्क् नुदन्तु ।

पश्चात्, सद्यःकालीन आवृत्तिः MOODLE 3.3+ गण्डं नुदन्तु ।

03:04 ट्युटोरियल् रेकोर्ड् करणकाले, 'मूडक्'इत्यस्य सद्यःकालीनावृत्तिः 3.3 आसीत् ।

भवतां प्रयत्नकाले तदन्यं भवेत् ।

03:15 Download zip गण्डस्योपरि नुदन्तु । इदमस्माकं यन्त्रे, 'मूडल्' इत्यस्य डौन्लोड् कर्तुं प्रारम्भं करोति ।
03:22 अहं पूर्वमेव इमां सञ्चिकां डौन्लोड् कृतवानस्मि । इदं मम Downloads सञ्चये वर्तते । अतः अहं इमं स्तरं परित्यजामि ।
03:30 Ctrl + Alt + T कीलकानि युगपन्नोदनेन टर्मिनल् उद्घाटयन्तु ।
03:36 टर्मिनल् मध्ये, डिरेक्टरी इतीदं Downloads इति परिवर्तयामि ।
03:40 इदं कर्तुमेवं कमाण्ड् टङ्कयन्तु : cd space Downloads अपि च Enter नुदन्तु ।
03:48 भवतां व्यवस्थायां , भवन्तः मूडल् इत्यस्य डौन्लोड् कृतं 'पाथ्' टङ्कयन्तु ।
03:53 भवन्तः तस्मिन् डिरेक्टरी प्रति गते सति, तत्रस्थाः सञ्चिकाः लिस्ट् कर्तुं ls इति टङ्कयित्वा Enter नुदन्तु ।
04:01 मम Moodle इन्स्टालेशन् सञ्चिका अत्रास्ति । अस्य नाम moodle hyphen latest hyphen 33 dot zip इत्यस्ति ।
04:11 डौन्लोड् करणकाले, भवन्तः तस्मै अन्यनाम दत्तवन्तश्चेत् (rename), तां सञ्चिकां भवतः सञ्चये अन्विषन्तु ।
04:19 पश्चात्, अस्यां 'ज़िप्' सञ्चिकायां विद्यमानं, moodle सञ्चये extract करणीयम् ।
04:26 'कमाण्ड् प्रोम्प्ट्' मध्ये एवं टङ्कयन्तु । sudo space unzip space moodle hyphen latest hyphen 33 dot zip space hyphen d space slash opt slash lampp slash htdocs slash. Enter नुदन्तु च ।
04:51 Ctrl + L नुत्वा टर्मिनल् रिक्तं कुर्मः ।
04:56 अधुना एवं टङ्कयन्तु : cd space slash opt slash lampp slash htdocs तथा Enter नुदन्तु ।
05:06 अस्मिन् डिरेक्टरी मध्ये सञ्चिकाः लिस्ट् कर्तुं, ls इति टङ्कयित्वा Enter नुदन्तु ।
05:12 moodle इति नूतनसञ्चयः रचितः दृश्यते ।
05:18 moodle सञ्चयस्य owner इत्यस्मै group members इत्येतेभ्यश्च read, write तथा execute पर्मिशन् दास्यामः ।
05:27 तदर्थमेवं टङ्कयन्तु : sudo space chmod space 777 space moodle slash तथा Enter नुदन्तु च ।
05:39 पृष्टश्चेत्, administrative पास्वर्ड् दत्वा Enter नुदन्तु ।
05:45 ब्रौसर् गत्वा एवं टङ्कयन्तु : http colon double slash 127.0.0.1 slash moodle अथवा http colon double slash localhost slash moodle
06:06 अत्र मम localhost IP इतीदं टङ्कयामि ।
06:10 इदम् IP, moodle इत्यस्य इन्स्टाल् कृतस्य यन्त्रस्य IP भवेत् ।

अवलोक्यताम् - पूर्वं, moodle फ़ोल्डर् मध्ये एव वयं extract कृतवन्तः स्मः ।

06:23 Enter नुदन्तु । Moodle इन्स्टालेशन् पेज् दृश्यते ।
06:29 उत्सर्गतया, वयं पूर्वतनस्तरे Configuration मध्ये स्मः ।

अवलोक्यतां: Moodle इतीदं बहुषु भाषासु इन्स्टाल् कर्तुं शक्नुमः ।

06:40 परन्तु वयं आङ्ग्लभाषायै सीमिताः स्मः ।

अतोऽत्र English चिन्वन्तु । Language ड्रोपडौन् इत्यस्याधः, Next गण्डं नुदन्तु ।

06:52 पश्चात् Paths इति पृष्टः अस्ति ।

अत्र Web address, Moodle directory तथा Data directory इतीमानि विवृतानि ।

07:02 Web addressयदस्ति तत्- Moodle इत्यस्य इन्स्टालेशन् जाते सति तस्य एक्सेस् कर्तुं URL वर्तते ।
07:08 इदं, अस्माभिः उपरि दत्तं URL वर्तते तथा तदेव दर्शितम् ।
07:14 Moodle directory सञ्चये, सर्वाणि Moodle कोड्स् सन्ति ।
07:20 अवलोक्यताम् - Web address तथा Moodle directory इतीमे फ़ील्ड्स् एडिट् कर्तुं परिवर्तयितुम् वा अशक्ये ।
07:31 पश्चात् Data directory वर्तते ।

अध्यापकैः छात्रैश्च अप्लोड् कृतासु सञ्चिकासु विद्यमानानि सर्वाण्यपि सञ्चये रक्ष्यन्ते ।

07:42 अयं सञ्चयः, read तथा write अनुमतियुतः भवेत् । अतः सञ्चिकाः अत्र स्टोर् कर्तुं शक्नुमः ।
07:50 तथापि, संरक्षणकारणाय, इदं वेब् मध्ये डैरेक्ट् एक्सेस् न भवेत् ।
07:57 अतः, तत् इन्स्टालेशन्-फ़ोल्डर् इत्यस्य बहिः स्थापनीयं भवति ।
08:03 lampp सञ्चयस्यान्तः moodledata, डीफ़ोल्ट् Data directory वर्तते । इदं installer रचयितुं प्रयत्नं करोति ।
08:11 तथापि, अत्र फ़ोल्डर् रचनायै अनुमतिर्नास्ति । अतः, इमं सञ्चयं वयमेव रचयित्वा, आवश्यकानि पर्मिशन्स् अस्माभिरेव दातव्यानि ।
08:23 टर्मिनल् गवाक्षं गत्वा,

प्रोम्प्ट् मध्ये एवं टङ्कयन्तु : sudo space mkdir space slash opt slash lampp slash moodledata अपि च Enter नुदन्तु ।

08:41 अधुना एवं टङ्कयन्तु : sudo space chmod space 777 space slash opt slash lampp slash moodledata अपि च Enter नुदन्तु।
08:57 ब्रौसर् प्रति गत्वा Next गण्डं नुदन्तु ।
09:02 पश्चात्, database configuration पृष्टं प्रति गच्छन्तु ।

ड्रोप्-डौन् तः MariaDB इतीदं चित्वा Next गण्डं नुदन्तु ।

09:13 Database Host नाम localhost इति ददामि ।
09:18 अस्माभिधुना, Database name, username तथा password च दातव्यम् ।

इमानि पूर्वमेव phpMyAdmin मध्ये रचितवन्तः स्मः ।

09:30 अहं database name इतीदं moodle-st इति,
09:36 database user-name इतीदं moodle-st इति,
09:41 अपि च मम database password इतीदं moodle-st इति ददामि ।
09:46 Table Prefix अपि च नाना फ़ील्ड्स् इतीमानि तथैव स्थापयन्तु । Next नुदन्तु ।
09:54 वयं terms and conditions पृष्टं पश्यामः ।
09:59 भवन्तः अत्र लैसेन्स् एग्रिमेण्ट् पठन्तु । तत् अङ्गीकर्तव्यमेव ।

टेक्स्ट् पठित्वा Continue नुदन्तु ।

10:10 पश्चात् Server Checks पृष्टं पश्यामः ।

Your server environment meets all minimum requirements इति मेसेज् दृष्टुं अधः स्क्रोल् कुर्वन्तु ।

10:23 अत्र यथा दर्शितं तथा भवद्भिः एरर् प्राप्तः स्यात् :

उत्तराणि प्राप्तुं, पाठस्यास्य Additional reading material लिङ्क् पश्यन्तु ।

10:33 Continue उपरि नुदन्तु ।
10:36 भवताम् अन्तर्जालवेगानुसारं कश्चन समयः स्वीक्रियते ।

रीफ़्रेश् कुर्वन्ति चेत् भवद्भ्यः Site is being upgraded, please retry later इति एरर् मेसेज् प्राप्यते ।

10:50 एवमस्ति चेत्, कृपया कतिचन समयादनन्तरं रीफ़्रेश् कुर्वन्तु ।
10:54 इन्स्टालेशन् इत्यस्य समाप्तिसन्देशे प्राप्ते सति, Continue नुदन्तु ।
11:00 अग्रिमपृष्टः administrator configuration इत्यस्यार्थं वर्तते ।
11:05 Moodle Administrative पृष्टाय, भवदभीष्टं username यच्छन्तु ।

अहं username इतीदं admin इति ददामि ।

11:15 अधुना Moodle Administrator इत्यस्यार्थं पास्वर्ड् यच्छन्तु ।

अत्रदर्शितानां पास्वर्ड्-नियमानाम् अनुसरणं भवेदेव ।

11:26 पास्वर्ड् दातुं , Click to enter text पर्चनीं नुदन्तु ।
11:32 अहं Spokentutorial1@ इतीदं, मम admin password इति यच्छामि । पास्वर्ड् दर्शयितुं Unmask ऐकान् नुदन्तु ।
11:43 पश्चात् उपयोहार्थं, भवतां 'यूसर् नेम्' तथा पास्वर्ड् च स्मरणे भवेताम् ।
11:49 Email address एकम् अनिवार्यं फ़ील्ड् वर्तते ।

अत्राहं priyankaspokentutorial@gmail.com इति ददामि ।

11:59 Select a country ड्रोप्-डौन् मध्ये, India इति चिनोतु ।

timezone इतीदं Asia/Kolkata इति चिन्वन्तु ।

12:08 वयम् अन्यानि फ़ील्ड्स् इतीमानि तेषां औत्सर्गिकमूल्याय स्थापयामः ।
12:13 अधः स्क्रोल् कृत्वा Update Profile गण्डं नुदन्तु ।
12:18 'मूडल्' इतीदं, सम्पन्मूलम् उपयुज्यमानं सोफ़्ट्वेर् वर्तते । प्रतिस्तरः समाप्त्यै कालमपेक्षते ।
12:27 अग्रिमपृष्टं लोड् भवितुं निरीक्ष्यताम् । पृष्टस्य पिधानं रिफ़्रेश् करणं वा मास्तु ।
12:34 अग्रिमं स्क्रीन् Front page settings इत्यस्यार्थं वर्तते ।

जनाः अस्माकं ‘मूडल् सैट्’ प्रति यदा आगच्छन्ति तदा पृष्टमिमं पश्यन्ति ।

12:45 Full Site Name मध्ये Digital India LMS इति ददातु ।
12:50 Short name for site मध्ये, पुनः Digital India LMS इति ददातु ।

नेविगेशन् बार् मध्ये, इदं 'मूडल् सैट्' इत्यस्य नाम भूत्वा दृश्यते ।

13:03 Front Page Summary इतीदं सद्यः रिक्तं त्यजाम ।

timezone इतीदं Asia/Kolkata इति चिनोतु ।

13:11 अग्रिमं ड्रोप्-डौन् Self Registration वर्तते ।

इदं सक्रियं कुर्मः चेत् नूतनोपयोक्ता स्वस्य नामाङ्कनं कर्तुं शक्नोति ।

13:23 ड्रोप्-डौन् तः, Disable इतीदं चिन्वन्तु ।

पश्चात् no-reply address टेक्स्ट्-बोक्स् वर्तते ।

13:31 अस्मिन् फ़ील्ड् मध्ये औत्सर्गिकमूल्यं noreply@localhost वर्तते ।

इदं सम्यक् ईमेल् ऐ डि नास्ति । अतः इदं noreply@localhost.com इत्यस्मै परिवर्तयन्तु ।

13:46 'मूडल्' इत्यस्मै दर्शयितुं यत्किमपि ईमेल् ID यदा न भविष्यति, तदा इदम् ईमेल् ID इतीदं From सङ्केतेन दर्श्यते ।
13:55 उदाहरणार्थं, मम सङ्केतं private इति स्थापयितुं सूच्यते चेत्, मदर्थं प्रेषितानि सर्वाणि मेल्स्, इदं ID युतं भविष्यति ।

अन्ते, Save Changes गण्डं नुदन्तु ।

14:10 वयमधुना Moodle इत्यस्य विनियोगाय सिद्धाः स्मः ।

भवन्तः अत्र नूतन-जालपुटस्य अग्रिमपृष्टं दृष्टुं शक्नुवन्ति ।

14:17 अनेन वयं पाठस्यान्तमागतवन्तः । सङ्क्षेपेण,
14:23 पाठेऽस्मिन् वयम् :

Moodle इतीदं, moodle.org इत्यस्मात् डौन्लोड् कर्तुं तथा लोकल्-सर्वर् उपरि तस्य इन्स्टाल् करणञ्च ज्ञातवन्तः ।

14:33 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु ।

उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।

14:41 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
14:51 अस्मिन् 'स्पोकन् ट्युटोरियल्' मध्ये प्रश्नाः सन्ति वा? कृपया जालपुटमिदं पश्यन्तु :

http://forums.spoken-tutorial.org

15:00 भवतां प्रश्नस्य मिनिट् सेकेण्ड् च चिन्वन्तु ।

भवतां प्रश्नान् सङ्क्षेपेण विवृण्वन्तु । अस्माकं गणेषु यः कोऽपि उत्तरं यच्छति ।

15:10 स्पोकन् ट्युटोरियल् फ़ोरम्, पाठसम्बद्धाय प्रश्नाय वर्तते ।
15:15 कृपया अस्मबद्धप्रश्नान् न पृच्छन्तु ।
15:21 अनेन भ्रान्तिः सङ्कीर्णता च न जायते । अनेन चर्चा अर्थपूर्णाभूत्वा ज्ञानाय सुलभः भविष्यति ।
15:31 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं अधस्तनपर्चनीं पश्यन्तु ।
15:45 लेखोऽयं प्रियाङ्का-महाभागायाः योगदानमस्ति ।

पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat