Difference between revisions of "Moodle-Learning-Management-System/C2/Blocks-in-Admin-Dashboard/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 | '''''Time''''' | '''''Narration''''' |- |00:01 | '''Blocks in Admin's Dashboard''' इति विषयकस्य स्पोकन् ट्युटो...")
(No difference)

Revision as of 21:40, 14 February 2020

Time Narration
00:01 Blocks in Admin's Dashboard इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:08 अस्मिन् पाठे वयम् :

block इत्येतेषां संयोजनं निष्कासनञ्च, Front page इत्यस्य सेट् करणञ्च कथमिति ज्ञास्यामः ।

00:18 पाठस्यास्य ध्वन्यङ्कनायाहम् :

Ubuntu Linux OS 16.04,

00:26 XAMPP 5.6.30 द्वारा प्राप्तानि Apache, MariaDB तथा PHP,
00:35 Moodle 3.3 तथा Firefox वेब् ब्रौसर् इत्येतेषां विनियोगं करोमि ।
00:41 भवदभीष्टं यत्किमपि वेब् ब्रोसर् उपयोक्तुमर्हन्ति भवन्तः ।

तथापि, Internet Explorer नोपयोक्तव्यम् ; यतो हि तस्मिन् डिस्प्ले सम्यङ् न भवति ।

00:54 पाठस्यास्य अभ्यासाय भवन्तः Admin’s dashboard विषयं जानीयुः ।

न चेत् तत्सम्बद्धपाठार्थं Moodle विषयकपाठान् अस्मिन् जालपुटे पश्यन्तु ।

01:08 ब्रौसर् इत्यस्मै परिवर्त्य भवतां moodle जालपुटम् उद्घाटयन्तु ।

XAMPP सर्वीस् रन् जायमानमस्तीति दृढीकुर्वन्तु ।

01:17 भवतां admin username तथा पास्वर्ड् अभ्यां लोग्-इन् कुर्वन्तु ।
01:22 वयमधुना ‘Admin’s डेश्-बोर्ड् मध्ये स्मः ।
01:26 स्मरन्तु यत् : 'ब्लोक्' इतीमानि निर्दिष्टं उद्देश्यं विवरणानि च प्रददति । अपि च 'मूडल्' इत्यस्य सर्वेषु पृष्टेषु दृश्यन्ते ।
01:38 अधुना, 'मूडल् ब्लोक्' इत्यनेन सह कथं कार्यं कर्तुं शक्यमिति ज्ञास्यामः ।
01:44 उपयोक्तं 'थीम्' आधृत्य, 'ब्लोक्स्' दक्षिणपार्श्वे अथवा उभयपार्श्वे वा भवितुमर्हति ।
01:52 यदा लोग्-इन् जायते तदा जनाः पश्येयुः इत्यभीष्टविवराणि ब्लोक्-मध्ये वर्तन्ते ।
01:58 'मूडल्' मध्ये नाना प्रकारकाणि 'ब्लोक्स्' उपलभ्यन्ते । अस्माकम् आद्यतानुसारेण तानि निरायासेन कर्षयितुं संयोजितुं वा शक्यन्ते ।
02:09 वयमधुना अस्माकं 'डेश्-बोर्ड्' इत्यस्मै कानिचन 'ब्लोक्स्' संयोजयाम ।
02:14 पृष्टस्य वामभागे विद्यमानं 'नेविगेशन् मेन्यू' नुदन्तु ।
02:19 'डेश्-बोर्ड्' इत्यस्य दक्षिणपार्श्वे विद्यमानं Customise this page गण्डं नुदन्तु ।
02:26 Add a block इत्येकं नूतनं मेन्यू ऐटम् अधुना दृश्यते ।

Add a block उपरि नुदन्तु ।

02:35 एकं नूतनं पोप्-अप् विण्डो उद्घट्यते ।

अस्माभिः संयुज्यमानं 'ब्लोक्' इत्यस्य प्रकाराः चेतव्याः ।

02:43 उदाहरणार्थं, Messages इत्यस्योपरि नुदन्तु ।

Messages ब्लोक्, अधुना 'डेश्-बोर्ड्' मध्ये दृश्यते इत्यवलोकयन्तु ।

02:53 सद्यः अत्र यत्किमपि सन्देशाः न सन्ति ।
02:56 उत्सर्गतया, सर्वाणि नूतनानि 'ब्लोक्स्' दक्षिणपार्श्वस्य कोलम् इत्यस्मै संयोजितानि ।
03:02 वयं अन्यं 'ब्लोक्' संयोजयाम ।

वामभागे विद्यमानं Add a block मेन्यू नुदन्तु ।

03:09 menu types इत्यस्य लिस्ट् तः, HTML इतीदं चिन्वन्तु ।

HTML ब्लोक् मध्ये रूढ्य़ाः HTML लिखितुमर्हति ।

03:19 इदमुपयुज्य वयं Library widgets, News feeds, Twitter, Facebook सदृशानि widgets अन्तः संयोजितुं शक्नुमः ।
03:30 अधुना Messages ब्लोक् इत्यस्याधः, NEW HTML BLOCK संयोजितं दृश्यते ।
03:37 HTML 'ब्लोक्' मध्ये, गियर् (gear) ऐकान् नुदन्तु ।

पश्चात् Configure (NEW HTML BLOCK) block उपरि नुदन्तु ।

03:46 Configure HTML block इतीदं विभागत्रययुतमस्ति : 'ब्लोक्स्' इतीमानि

Block settings,

Where this block appears अपि च

On this page.

03:57 उत्सर्गतया, प्रथमः विभागः विस्तारितः ।
04:02 सर्वान् विभागान् विस्तारितुम्, Expand all इत्यस्योपरि नुदन्तु ।
04:07 Block title मध्ये वयं “Things to do” इति टङ्कयाम ।
04:12 Content, स्थाने अस्मै admin user इत्यस्मै वयं कानिचन tasks संयोजयाम ।
04:19 इमानि टङ्कयन्तु : Create a new course,

Create new users,

Add users to the course.

04:30 इदमेकं HTML एडिटर् वर्तते, इदं अन्यानि 'वर्ड्-प्रोसेसर्' (word processor) अथवा एडिटर् इव उपयोक्तुमर्हति ।
04:39 Where this block appears इत्यस्याधः, विकल्पान् दृष्टुं अधः स्क्रोल् कुर्वन्तु ।
04:45 Default region मध्ये, Content इतीदं चिन्वन्तु ।

Default weight मध्ये, -10 इतीदं चिन्वन्तु ।

04:54 'ब्लोक्' इत्यस्य weight यावन्न्यूनं भवति तावत् तत् तस्मिन् “region” मध्ये उपरि दृश्यते ।

-10 न्यूनतमं वर्तते ।

05:03 -10 इतीदं चिन्वन्तु । इदं content region इत्यस्य ऊर्ध्वभागे अस्तीत्यहं दृढीकरोमि ।
05:12 इदं 'ब्लोक्', Admin’s dashboard मध्ये दृश्यते ।
05:17 अधुना “On this page” विभागः आयाति ।

अत्र, इदं 'ब्लोक्' यत्र संयोजितं तत्र पृष्टाय, भवन्तः कोन्फ़िगरेशन् विवरीतुं शक्नुवन्ति ।

05:28 अस्मिन् सन्दर्भे, इदं ‘डेश्-बोर्ड्’ वर्तते ।

इदं कोन्फ़िगरेशन्, उपरितन विभागे विवृतं डीफ़ोल्ट् कोन्फ़िगरेशन् इतीदम् अतिक्रमति ।

05:40 तत् Where this block appears इति विभागः वर्तते ।

अस्मिन् विभागे वयं, Region मध्ये Content इतीदम् अपि च Weight मध्ये -10 इतीदञ्च चिनुमः ।

05:53 अवलोक्यताम् : 'ब्लोक्' इत्यस्य प्रकारान् आधृत्य, कोन्फ़िगरेशन् सेटिङ्ग्स् भिध्यन्ते ।
06:01 परिवर्तनानि रक्षितुं, Save Changes इत्यस्योपरि नुत्वा ‘डेश्-बोर्ड्’ प्रति आगच्छन्तु ।
06:07 नूतनं HTML ब्लोक्, Things to do इति शीर्षकेण सह दृश्यते । अपि च content स्थाने, इदं सर्वस्योपरि विद्यमानं 'ब्लोक्' वर्तते ।
06:18 Move ऐकान् उपयुज्य, ब्लोक् इत्यस्य कर्षणेन वयं तस्य स्थानान्तरं कर्तुं शक्नुमः ।
06:25 ड्रेग् & ड्रोप् द्वारा वयं Things to do ब्लोक् इतीदं, Course Overview ब्लोक् इत्यस्याधः चालयाम ।
06:34 अस्माभिः पूर्वं सेट् कृतं कोन्फ़िगरेशन् कथं परिवर्त्यते इति पश्याम ।
06:40 अनुक्रमं गियर्(gear) ऐकान् ---> Configure Things to do ब्लोक् ---> , Expand All उपरि च नुदन्तु ।
06:49 “On this page” विभागं दृष्टुं अधः स्क्रोल् कुर्वन्तु । weight -2 इत्यस्मै परिवर्तितम् ।

तथापि, Default weight तथैव तिष्ठति ।

07:03 Dashboard प्रति आगन्तुं, Cancel उपरि नुदन्तु ।
07:07 मह्यं इदं Learning Plans ब्लोक् नावश्यकम् । अतः इदं डिलीट् कुर्मः ।

गियर् (gear) ऐकान्, तथा Delete Learning plans block उपरि च नुदन्तु ।

07:19 Confirm पोप्-अप् विण्डो दृश्यते । डिलीट् करणस्य दृढीकरणाय पृच्छति ।

अत्र Yes गण्डं नुदन्तु ।

07:29 Learning Plans ब्लोक् इतः परं लभ्यं नास्ति । पश्चात् आवश्यकञ्चेत् वयं सर्वदा इदं ब्लोक् संयोजितुं शक्नुमः ।
07:40 अधुनास्माकं Moodle इन्स्टालेशन् इत्यस्य मुखपृष्टं कस्टमैस् कुर्मः ।
07:46 वामपार्श्वस्य मेन्यू मध्ये, Site Administration लिङ्क् नुदन्तु ।
07:51 Front page विभागे, Front Page settings इत्यस्य अभिज्ञानाय अधः कर्षयन्तु । तस्योपरि नुदन्तु ।
08:00 Full Site Name इतीदं Digital India Learning Management System इति परिवर्तयाम ।
08:08 प्रत्येकस्य पृष्टस्य उपरितन भागे, breadcrumbs इत्यस्योपरि, इदं टेक्स्ट् दृश्यते ।
08:15 पृष्टस्य शीर्षिकायां, Short name टेक्स्ट् दृश्यते ।
08:20 अवलोक्यताम्: पृष्टस्यास्य शीर्षकं Digital India LMS वर्तते । पश्चात् वयं यस्मिन् पृष्टे स्मः तस्य नाम वर्तते ।
08:29 वयं लोगो इत्यस्मै यत्किमपि इमेज् न दास्यामः चेत्, Short name इतीदं लोगो-टेक्स्ट् रूपेणापि उपयुज्यते । वयं तत् एवमेव स्थापयाम ।
08:40 Front page ऐटम्स् इत्येतेभ्यः ड्रोप्-डौन् दृष्टुं अधः स्क्रोल् कुर्वन्तु ।

इमानि front page मध्ये दृश्यमानानि ऐटम्-लिस्ट्स् वर्तन्ते ।

08:50 सर्वे सन्दर्शकाः, विना लोगिन् करणेनापि इमानि ऐटम्स् दृष्टुं शक्नुवन्ति ।
08:57 अस्य क्रमं कोम्बिनेशन्-बोक्स् इतीदं निश्चिनोति । वयमिदं एवमेव त्यजामः ।
09:05 अतः सर्वे उपयोक्तारः कोर्स्-लिस्ट् दृष्टुं शक्नुवन्ति नान्यत् किमपि ।
09:13 अग्रिमं Front page items when logged in इति वर्तते ।

इदं, लोग्-इन् कृतेभ्यः उपयोक्तृभ्यः दृश्यमानं ऐटम्-लिस्ट् वर्तते ।

09:24 प्रथमे ड्रोप्-डौन् मध्ये वयं Enrolled courses इतीदं चिनुमः ।
09:29 वयमन्यान् विकल्पान् तेषां औत्सर्गिकमौल्याय त्यजामः ।
09:35 अधः स्क्रोल् कृत्वा Save Changes उपरि नुदन्तु ।
09:40 सङ्क्षेपेण,
09:43 अस्मिन् पाठे वयम् :

“Things to do” इति HTML ब्लोक् योजयितुं ज्ञातवन्तः । अपि च पृष्टे तत् कुत्र दृष्टव्यमिति सूचितवन्तः ।

09:54 गेस्ट् तथा लोग्-इन् कृतेभ्यः उपयोक्तृभ्यः, 'फ़्रण्ट् पेज्' इत्यस्य सेट्-अप् कृतवन्तः ।
10:00 अत्र युष्मभ्यम् एकं पाठनियोजनमस्ति:

Private files ब्लोक् इतीदं डिलीट् कुर्वन्तु । Code files लिङ्क् मध्ये दत्ताः सूचनाः उपयुज्य, एकं नूतनं HTML ब्लोक् संयोजयन्तु ।

10:14 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । उत्तमं बेण्ड्-विड्त् नास्ति चेत् अवचित्यापि दृष्टुं शक्यते तत् ।
10:23 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
10:33 अस्मिन् फ़ोरम् मध्ये भवतां प्रश्नान् समयेन सह पोस्ट् कुर्वन्तु ।
10:37 स्पोकन् ट्युटोरियल् प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थं पर्चनीं पश्यन्तु ।
10:51 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat