Linux/C2/File-System/Sanskrit

From Script | Spoken-Tutorial
Revision as of 16:07, 2 December 2012 by Pravin1389 (Talk | contribs)

Jump to: navigation, search
Time Narration
0:00 Linux File System विषये spoken tutorial मध्ये स्वागतम्
0:04 अहं Ubuntu 10.04 उपयुञ्जे
0:07 वयम् आशास्महे यत् आदेशानां प्राथमिकसंकल्पनां तथैव Linux - प्रणाल्या: आरम्भ: कथं करणीय: इति भवान् जानाति
0:13 यदि रुचिमन्त: भवन्त: तर्हि अस्मिन् जालपुटे अन्यस्मिन् अपि spoken tutorial मध्ये इदं ज्ञानम् उपलभ्यमस्ति http://spoken-tutorial.org
0:25 अपि च जानातु यत् linux अक्षर-संवेद्यम् अस्ति
0:28 अस्मिन् पाठे विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघु-अक्षरै: टङ्किता: सन्ति
0:36 Linux-मध्ये प्राय: सर्वं सञ्चिका-रूपं भवति
0:39 तर्हि का नाम सञ्चिका ? व्यवहारे वयं जानीम: यत् सञ्चिका नाम सा यस्याम् अस्माकम् पत्राणि सामग्री: च वयं संगृह्णीम:
0:47 तथैव Linux - मध्ये सञ्चिका सामग्री-संग्राहिका भवति
0:53 अन्यच्च किं नाम संधारिका?
0:56 संधारिका इत्युक्ते सञ्चिकानां , उपसंधारिकाणां च संग्रह इति वक्तुं शक्यम्
1:02 संधारिका सञ्चिका: व्यवस्थापयितुं साहाय्यं करोति
1:08 Windows मध्ये यत् धारिका इति उच्यते, तादृशम् एव इदम्
1:12 अनेन भिन्न-उपयोक्-र्तॄणां स्वस्य संधारिका:, सञ्चिका: च भवितुम् अर्हन्ति या: अन्ये द्रष्टुं परिवर्तयितुं वा न शक्नुयु:
1:20 अपि च यदि संधारिका: न भवेयु: तर्हि प्रणाल्यां विद्यमानानां सर्व-सञ्चिकानां भिन्न-नामानि आवश्यकानि स्यु:,यानि व्यवस्थापयितुं कष्टंकरं भवेत्
1:31 यद्यपि संधारिकाणां , सञ्चिकानां च इमा: व्याख्या: सामान्यत: अवगन्तुं समीचीना: सन्ति तथापि ता: संपूर्णत: यथार्था: न सन्ति
1:42 सञ्चिकाया: एकं नाम भवति ,कतिचन धर्मा: भवन्ति ,अथवा प्रशासकीय-सूच्यांश: भवति इत्युक्ते सञ्चिकाया: रचना-परिवर्तन-दिनाङ्क: ,तदनुमतिश्च
1:55 सञ्चिकाविन्यासे inodeनामा एक: विशिष्ट: सामग्रीखण्ड: भवति , यस्मिन् धर्मा: रक्षिता: भवन्ति अपि च सञ्चिकाया: दैर्घ्यं , disk मध्ये संग्रहण-स्थानं च इत्यस्य ज्ञानं समाविष्टं भवति
2:08 सञ्चिकाया:विन्यास: inode - क्रमाङ्कम् उपयुङ्क्ते , अस्माकं सारल्यार्थं धारिकाविन्यास: सञ्चिकाया: नामकरणमात्रं करोति , यत: दीर्घ-क्रमाङ्कस्य स्मरणापेक्षया नाम्नां स्मरणं सुकरं भवति
2:23 वस्तुत: संधारिका अन्य-सञ्चिका: न रक्षति ,अपि तु सा स्वयमेव एका सञ्चिका अस्ति या inode क्रमाङ्कान् ,अन्य-सञ्चिकानां नामानि च संधारयति एतच्च तस्या: अतिसरलव्याख्याया: विरोधि भाति
2:37 वस्तुत: Linux - मध्ये सञ्चिकाया: प्रकारत्रयमस्ति -
2:41 १ नियत-सञ्चिका, सामान्य-सञ्चिका वा - एषा केवलं अक्षरयुतां सामग्रीं धारयति
2:48 २ संधारिका -इदं पूर्वतन-अवसर्पिण्यां दृष्टपूर्वम्
2:52 ३ Device Files - Linux मध्ये सर्वाणि यन्त्रांश-उपकरणानि ,आनुषाङ्गिक-उपकरणानि च सञ्चिका-रूपेण प्रदर्श्यन्ते
2:59 Linux - मध्ये CD, Harddisk , usb stick च इति प्रत्येकं सञ्चिका भवति , किन्तु किमर्थम् एवम्? इति चेत् अनेन सामान्य- सञ्चिका इव इमानि उपकरणानि पठितुं लेखितुं च शक्यानि
3:15 Linux - मध्ये सर्वा: सञ्चिका: संबद्धा: भवन्ति , संक्षेपेण सर्वा: कुटुम्बं रचयन्ति वयम् इव
3:22 संधारिकायां विद्यमानानां सञ्चिकानां : उपसंधारिकाणां च परस्पर-संबन्ध: जन्य-जनक-भाव-संबन्ध: इव भवति, एवञ्च linux इत्यस्य सञ्चिका-व्यवस्थाया: रेखावृक्ष: उत्पन्न: भवति
3:34 उपरि मूलं भवति यत् frontslash (/) द्वारा निर्दिश्यते , तस्मिन् अन्या: सर्वा: सञ्चिका: संधारिका: च भवन्ति
3:42 अनेन सञ्चिकात: संधारिकात: वा अन्यत्र गमनं सुकरं भवति , यदि वयम् उचितं मार्गं जानीम:,
3:51 यदा Linux प्रणाल्यां वयम् कार्यं कुर्म: तदा अनेन वृक्षेण सह गच्छाम: इति भाति
3:56 एकेन आदेशेन भवान् एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुयात्
4:01 चित्तवेधकं भाति इदं , तथैव अस्ति च ,वयं पश्याम: एव
4:05 यदा वयं Linux प्रणाल्यां login कुर्म: तदा उत्सर्गेण वयं गृह-संधारिकायां भवाम:
4:11 अधुना terminal उद्घाटयाम:
4:13 Ubuntu मध्ये terminal उद्घाटयितुं Ctrl+alt+T साहाय्यं करोति
4:17 आदेश: एष: सर्वासु सर्वेषु unix प्रणालीषु कार्यं न कुर्यात् ,तथापि terminal उद्घाटयितुं सामान्य-प्रक्रिया आदावेव अन्यस्मिन् spoken tutorial मध्ये स्पष्टीकृता अस्ति
4:27 गृह-संधारिकां द्रष्टुं ,आदेशस्य संसूचके टङ्कयतु

"echo space dollar capitalमध्ये H-O-M-E " , enter नुदतु च

4:40 अनेन गृह-संधारिकाया: मार्गनाम दृश्येत
4:44 वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:
4:47 किन्तु ,यदा वयम् कस्यां-चित् संधारिकायां भवाम: तदा सा संधारिका उद्घाटित - संधारिका / कार्यकारिणी संधारिका वा इति उच्यते, अधुना अवसर्पिणीं प्रति पुन: गच्छाम:
4:56 तत: pwd आदेश: उद्घाटित -संधारिकां द्रष्टुम् अस्माकं साहाय्यं करोति , pwd इत्युक्ते "present working directory"
5:03 संसूचके "pwd" इति टङ्कयतु ,enter नुदतु , अधुना एषा अस्माकं विद्यमाना कार्यकारिणी संधारिका अस्ति
5:13 वयम् उक्तवन्त: यत् वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:
5:17 किन्तु कथं करणीयम् इदम् ? एतन्निमित्तम् अस्मत्-सविधे cd इति आदेश: अस्ति
5:22 भवता इष्टसंधारिकाया: मार्गनाम्न: अनन्तरं cd इति आदेश: टङ्कनीय:
5:28 पुन: अस्माकं विद्यमान-संधारिकां पश्याम: ,तदर्थं संसूचके pwd टङ्कयतु तत: enter नुदतु
5:37 तर्हि वयमिदानीं अस्यां संधारिकायां स्म:
5:41 अधुना वयं slash usr directory इत्यत्र गन्तुम् इच्छाम: चेत् नुदाम:

"cd space slash usr" , अत्र स्मरतु, linux मध्ये slash इत्युक्ते front slash ,enter नुदतु च

5:56 अधुना अस्माकं उद्घाटित-संधारिकां पश्याम: ,टङ्कयतु pwd , enter नुदतु च
6:03 आं, वयं slash usr directory प्रति गतवन्त:
6:08 अत्र एका समस्यास्ति यत् मार्गनाम दीर्घं भवितुम् अर्हति ,यतो हि एतानि नि:शेषाणि मार्गनामानि मूल-संधारिकात: मूलसहितं संपूर्णं मार्गं निर्दिशति
6:18 अथवा वयं विद्यमान-संधारिकया आरभ्यमाणानि संबद्ध-मार्गनामानि उपयोक्तुं शक्नुम:
6:23 अत्र अस्माभि: विशिष्टं चिह्नद्वयं ज्ञातव्यम्

dot उद्घाटित-संधारिकां प्रदर्शयति, अपि च dot dot उद्घाटित-संधारिकाया: पितृ-संधारिकां दर्शयति

6:36 अधुना cd आदेशं सविस्तरं पश्याम:
6:40 नि:संशयं cd इति आदेश: पुन: गृह-संधारिकां गन्तुम् उपयुज्यते
6:46 संसूचके- "cd" enter नुदतु च
6:51 अधुना pwd इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु
6:55 अथ अधुना वयं अस्माकं गृह-संधारिकायां प्रत्यागता:

/home/gnuhata [ narration- slash home slash gnuhata ]

7:01 अधुना सङ्गीत-संधारिकां गच्छाम: , संसूचके टङ्कयतु "cd space Music(M in capital) slash" , enter नुदतु च
7:13 अधुना pwd इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु , pwd ,enter नुदतु , पश्यतु वयं /home/gnuhata/Music प्रत्यागता:
7:26 सङ्गीतत: पितृ-संधारिकां गच्छाम: , तन्निमित्तं भवता dot dot इत्यनेन सह cd इति आदेश: उपयोक्तव्य:
7:33 संसूचके टङ्कयतु - cd space dot dot , enter नुदतु च
7:40 अधुना pwd इति आदेशेन अस्माकं विद्यमान-सधारिकां परिशीलयाम:, वयं पुन: /home/gnuhata मध्ये स्म:
7:51 अधुना dot उपयुज्य उद्घाटित-संधारिकाया: उपसधारिकां गन्तुं प्रयतामहे
7:58 संसूचके टङ्कयतु - "cd space dot slash Documents(D in capital) slash." , enter नुदतु
8:09 pwd इति टङ्कयित्वा उद्घाटित-सधारिकां परिशीलयतु , वयं /home/gnuhata/Documents इत्यत्र स्म:
8:19 control L नुदित्वा पटलं रिक्तं कुर्म: , येन स्पष्टता भवेत्
8:23 cd आदेशेन अस्माकं गृह-सधारिकां गन्तुं

टङ्कयतु cd , नुदतु enter.

8:32 पुन: pwd इति आदेशेन उद्घाटित-सधारिकां परिशीलयतु , वयं /home/gnuhata इत्यत्र आगता:
8:41 वयं कियन्त: अपि dot dot दातुं शक्नुम: यानि संबद्ध-मार्गे slash इत्यनेन भिन्नानि भवन्ति
8:47 अस्याम् अवसर्पिण्यां वयं सञ्चिका- व्यवस्थापनस्य क्रमं पश्याम: , उपरितन-भागे Root , slash वा अस्ति , username -इति root मध्ये home तथा च bin इति उपसन्धारिका-द्वयम् अस्ति , अत्र home मध्ये gnuhata नाम्न: उपसन्धारिका अस्ति
9:05 अधुना वयं /home/gnuhata मध्ये स्म: , अधुना bin सन्धारिका कथं गन्तव्या ?
9:12 संसूचके टङ्कयतु

"cd space dot dot slash dot dot slash bin" , enter नुदतु च

9:23 pwd इति आदेशेन उद्घाटित-सन्धारिकां परिशीलयतु

वयं /bin [narration - slash bin] इत्यत्र स्म:

9:30 प्रथमं dot dot , slash home slash gnuhata] त: slash home प्रति अस्मान् नयति ,
9:37 अग्रिमं च /home त: root प्रति
9:43 अधुना slash त: ,root त: वा वयं slash bin संधारिकायां प्रत्यागता:
9:48 cd इति आदेशेन अस्माकं गृह-सन्धारिकां गच्छतु
9:52 सन्धारिकां निर्मातुं वयं mkdir आदेशम् उपयुञ्ज्महे
9:56 सन्धारिका-निर्माणार्थं भवता आदेशं ,सन्धारिका-नाम च टङ्कनीयं ,तदनु उद्घाटित-सधारिकायां सन्धारिका निर्मिता भवेत्
10:04 testdir इति नाम्न: सन्धारिकां निर्मातुम् आदेशं टङ्कयतु - "mkdir space testdir" ,enter नुदतु च
10:15 अनेन testdir सन्धारिका यशस्विरीत्या निर्मिता भवेत् !
10:19 पश्यतु यत् , संधारिका-निर्माणं तत्-निष्कासनं वा यशस्वि अभवत् इति वक्तुं कापि प्रत्यक्षं सूचना नास्ति
10:25 भवान् कमपि दोष-सूचनां न प्राप्नोति इत्युक्ते इदं सम्पादनं यशस्वि अभवत्
10:30 वृक्षे कुत्रापि सन्धारिकां निर्मातुं वयं relative , absolute वा मार्गनाम उपयोक्तुं शक्नुम: किन्तु तथा कर्तुम् अनुमति: आवश्यकी अपि च तत्-नाम्न: सन्धारिका आदावेव विद्यमाना स्यात्
10:43 एषा प्रक्रिया बहुविधा: संधारिका: , संधारिकाणां च क्रमं निर्मातुं उपयोक्तुं शक्यते
10:49 टङ्कयतु - "mkdir space test1 space test2 " enter नुदतु च , अनेन विद्यमान-संधारिकायां test1 तथा च test2 इति संधारिकाद्वयं निर्मितं भवति
11:06 टङ्कयतु - "mkdir space testtree space testtree slash test3".
11:20 अनेन testtree संधारिका तथैव testtree इत्यस्य test3 इति अन्या एका उपसंधारिका निर्मिता भवति
11:28 अथ अस्माभि: उद्घाटित-संधारिकायां संधारिका-चतुष्टयं निर्मितं -testdir,test1,test2 , testtree च , तेषु प्रथम-त्रयं रिक्तम् अस्ति , अन्तिमा च test3 नाम्न: उपसंधारिका समाविशति
11:47 mkdir इव rmdir अपि एक: आदेश: अस्ति य: संधारिकां निष्कासयितुम् उपयुज्यते
11:56 "rmdir space test1" इति आदेश: test1 संधारिकां यशस्विरीत्या निष्कासयति
12:09 संधारिका तदैव निष्कासयितुं शक्या यदा भवान् तस्य स्वामी भवति ,यदा भवत: उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि भवति अपि च यदा संधारिका रिक्ता भवति
12:23 संसूचके टङ्कयतु

"cd space testtree slash test3"

12:35 वयम् अधुना संधारिकायां स्म: या testtree इत्यस्य उपसन्धारिका अस्ति
12:42 "rmdir space testdir" आदेशं टङ्कयित्वा testdir संधारिकां निष्कासयाम: ,enter नुदाम:
12:55 वयं पश्याम: यत् एतत् न भवति ,उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि नास्ति
13:02 अत: अस्माभि: testdir संधारिकाया: क्रमश: उपरितना संधारिका गन्तव्या
13:08 टङ्कयतु - "cd space dot dot" , enter नुदतु च
13:14 अधुना "cd space dot dot" आदेशं टङ्कयित्वा पितृ-संधारिकां गच्छतु
13:20 अधुना पुन: पूर्वतन-आदेशं टङ्कयतु
13:24 अधुना टङ्कयतु - "rmdir space testdir" , enter नुदतु च
13:30 testdir संधारिका यशस्विरीत्या उच्छिन्ना , पश्यतु यत् testdir संधारिका अपि रिक्ता आसीत्
13:38 बहुविधसंधारिका: संधारिकाणां क्रम: वा युगपत् निष्कासयितुं शक्य: , अत: test3 उपसंधारिकया सह testtree संधारिकां उच्छेत्तुं प्रयत्नं करोतु
13:48 संसूचके टङ्कयतु

"rmdir space testtree space testtree slash test3 " , enter नुदतु च

14:02 पश्यतु , दोष-सूचना क्रियते यत् 'testree' संधारिका निष्कासयितुं न शक्या यत: testtree रिक्ता नास्ति
14:11 किन्तु एकम् अंशं भवान् विस्मर्तुं शक्नोति यत् testtree/test3 उच्छिन्ना यतो हि सा रिक्ता आसीत्
14:19 तत् परीक्षितुं संसूचके टङ्कयतु - "cd space testtree" , enter नुदतु च
14:27 अधुना टङ्कयतु- "ls" , enter नुदतु च , पश्यतु संधारिकायां किमपि नास्ति , अत: test3 उच्छिन्ना
14:36 अथ पाठे अस्मिन् अस्माभि: Linux - सञ्चिका , संधारिका ,तयो: कार्यं च इत्यादिकं पठितं , तत् सर्वं पश्यतु, यथावत् करोतु च
14:49 अत्र असौ पाठ: समाप्यते , Spoken Tutorial इति Talk to a Teacher प्रकल्पस्य भाग: य: National Mission on Education through ICT. इत्यनेन साहाय्यीकृत:
15:03 अस्य अधिक-ज्ञानम् अस्मिन् सन्धाने उपलभ्यते
15:08 एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: !


Contributors and Content Editors

PoojaMoolya, Pravin1389, Sneha