Linux/C2/Desktop-Customization-16.04/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:25, 8 September 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Ubuntu Linux 16.04 operating system मध्ये Desktop Customization इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:11 पाठेऽस्मिन् वयम्  :

Launcher (लोञ्चर्) विषयम्, लोञ्चर् मध्ये अप्लिकेशन् संयोजनं निष्कासनञ्च,

00:21 बहूनां डेस्क्-टोप् उपयोगः,

डेस्क्-टोप् थीम् परिवर्तनम्,

00:27 इण्टर्नेट् कनेक्षन्, सौण्ड् सेट्टिङ्ग्स्,
00:32 टैम् एण्ड् डेट् सेट्टिङ्ग्स्,

अन्यस्मै यूसर् अकौण्ट् प्रति परिवर्तनम् इत्येतेषां विषयं ज्ञास्यामः ।

00:39 पाठार्थमहम् Ubuntu Linux 16.04 ओपरेटिङ्ग् सिस्टम् उपयुनज्मि ।
00:46 Launcher (लोञ्चर्) इत्यनेन सह प्रारभामहै ।
00:49 'उबण्टु लिनक्स् डेस्क्टोप्' मध्ये लोञ्चर्, उत्सर्गतया वामपार्श्वस्य पेनल् वर्तते ।

डीफोल्ट् भूत्वा कानिचन अप्लिकेशन्स् अत्र सन्ति ।

00:59 भृशम् उपयुज्यमानानि अप्लिकेशन्स् एक्सेस् (access) करणं सुलभं भवति लोञ्चर् द्वारा ।
01:05 अतः लोञ्चर् उपरि तस्य 'डेस्क्-टोप् शोर्ट्-कट्' नोदनेन वयं प्रोग्रां प्रारभामहै ।
01:12 उत्सर्गतया लोञ्चर्, कानिचन अप्लिकेशन्स् प्राप्तवदस्ति ।
01:17 अस्माकम् आवश्यकतानुसारेण वयं 'लोञ्चर्' इत्यस्य कस्टमैसेशन् कर्तुं जानाम ।
01:22 मह्यं कार्यार्थं, Terminal, LibreOffice Writer, gedit इत्यादीनि अप्लिकेशन्स् आवश्यकानि ।
01:34 'लोञ्चर्' इत्यस्मै वयम् अप्लिकेशन्स् संयोजयाम ।
01:38 तत्करणात् प्राक्, अनवश्यकानि अप्लिकेशन्स् निष्कासयामि ।
01:44 'लोञ्चर्' द्वारा मया Amazon एप्लिकेशन् निष्कासनीयमिति वदाम ।
01:49 Amazon अप्लिकेशन् ऐकान् गत्वा, रैट्-क्लिक् कृत्वा Unlock from Launcher इतीदं चिन्वन्तु ।
01:58 पश्यतां यत्, 'लोञ्चर्' द्वारा Amazon अप्लिकेशन् ऐकान् निष्कासितम् ।
02:04 एवमेव वयं अनुपयुक्तानि शोर्ट्-कट्स् निष्कासितुं शक्नुमः ।
02:11 अत्र यथा दर्शितं तथा कानिचन अप्लिकेशन्स् 'लोञ्चर्' इत्यस्मात् निष्कासितानि ।
02:17 अधुना लोञ्चर् इत्यस्मै Terminal शोर्ट्-कट् संयोजयामि ।
02:22 'लोञ्चर्' इत्यस्य उपरितनकोणे, Dash home उपरि नुदन्तु ।
02:26 'सर्च्-बार्' मध्ये, “terminal” इति टङ्कयन्तु ।

Terminal उद्घाटयितुं, तस्य ऐकान् उपरि नुदन्तु ।

02:34 ' लोञ्चर् ' मध्ये भवन्तः, Terminal ऐकान् दृष्टुं शक्नुवन्ति ।
02:38 Terminal ऐकोन् इतीदं ' लोञ्चर् ' उपरि स्थापयितुम्, आदौ तस्योपरि रैट्-क्लिक् कुर्वन्तु ।

पश्चात् Lock to Launcher चिन्वन्तु ।

02:47 लोञ्चर्-मध्ये अप्लिकेशन् शोर्ट्-कट् स्थापयितुम् अन्यद्विधानं, dragging and dropping वर्तते ।

तत् कृत्वाहं दर्शयामि ।

02:57 Dash Home उद्घाट्य सर्च्-बार् मध्ये gedit इति टङ्कयन्तु ।
03:03 gedit ऐकान् इतीदं लोञ्चर् उपरि कर्षन्तु (drag) ।
03:07 अधुना, gedit ऐकान् इतीदं लोञ्चर् उपरि स्थापयन्तु (drop) ।

gedit शोर्ट्-कट्, लोञ्चर् उपरि संयोजितम् ।

03:16 लोञ्चर् मध्ये वयं शोर्ट्-कट् संयोजितुं शक्नुमः ।
03:21 'उबण्टु लिनक्स् ओ एस्' इत्यस्य वैशिष्ट्यमस्ति यत्, बहूनि 'वर्क्-स्पेसस्' अथवा 'डेस्क्-टोप्स्' सन्ति ।
03:28 कदाचित् वयं बहुषु अप्लिकेशन्स् मध्ये कार्यं कुर्मः ।
03:33 अपि च एकम् अप्लिकेशन् इत्यस्मात् अन्यस्मै परिवर्तयितुं दुस्साध्यं स्यात् ।
03:38 तत् सुलभतया कर्तुमस्माभिः Workspace Switcher उपयोक्तुमर्हति ।
03:42 वयं Desktop प्रति गच्छाम ।
03:45 Ubuntu 16.04 मध्ये, multiple workspaces उत्सर्गतया न दृश्यन्ते ।
03:51 तत् कर्मण्यितं कर्तुं, System Settings उपरि, तत्पश्चात् Appearance उपरि च नुदन्तु ।
03:58 Appearance गवाक्षे, Behavior टेब् उपरि नुदन्तु ।
04:02 अत्र, Enable workspaces विकल्पं चिन्वन्तु ।

लोञ्चर् उपरि इदं multiple workspaces ऐकान् इतीदं कर्मण्यितं करोति ।

04:11 अस्य गवाक्षस्य पिधानं करोतु ।
04:13 लोञ्चर् उपरि, Workspace Switcher ऐकान् प्राप्य तदुपरि नुदन्तु ।
04:19 इदं 4 डेस्क्टोप्स् इत्येतेभिः सह 4 क्वाड्रण्ट्स् दर्शयति ।
04:24 उत्सर्गतया, उपरितन वामभागस्य Desktop चितं वर्तते ।
04:29 अधुना वयं तस्मिन्नेव Desktop मध्ये कार्यं कुर्वन्तः स्मः ।
04:34 वयमधुना द्वितीयस्य Desktop इत्यस्योपरि नुत्त्वा तच्चिनुमः ।
04:39 अहं लोञ्चर् मध्ये terminal ऐकोन् उपरि नुत्त्त्वा, अत्र terminal उद्घाटयामि ।
04:45 अधुना पुनः Workspace Switcher उपरि नुदामि ।
04:49 भवन्तः टर्मिनल् इतीदं द्वितीये 'वर्क्-स्पेस्' (Workspace) मध्ये अपि च Desktop इतीदं प्रथमस्योपरि च दृष्टुं शक्नुवन्ति ।
04:55 एवं भवन्तः बहुषु देस्क्टोप्स् मध्ये कार्यं कर्तुमर्हन्ति ।
04:59 वयं प्रथमाय Desktop प्रति गच्छाम ।
05:03 लोञ्चर् उपरि Trash इतीदं प्रधानं ऐकान् वर्तते ।
05:07 Trash, डिलीट्-कृतानि सर्वाणि फ़ैल्स् अपि च फ़ोल्डर्स् प्राप्तवदस्ति ।

अकस्माद् वयं एकां सञ्चिकां निष्कासयामः चेत्, तां Trash इत्यस्मात् पुनः प्राप्तुं शक्नुमः ।

05:17 इदं विवरीतुं, Desktop उपरि विद्यमानं Hello.txt इतीदं निष्कासयामि ।
05:23 फ़ैल् उपरि रैट्-क्लिक् कृत्वा Move to Trash विकल्पं चिन्वन्तु ।
05:29 इदं रीस्टोर्-कर्तुं, लोञ्चर्-मध्ये Trash ऐकान् उपरि नुदन्तु ।

Trash फोल्डर् उद्घाट्यते ।

05:37 सञ्चिकां चित्वा, तस्योपरि रैट्-क्लिक् कृत्वा Restore विकल्पं नुदन्तु ।
05:43 Trash फ़ोल्डर् पिधानं कृत्वा , Desktop प्रति आगच्छन्तु ।
05:48 अस्माभिः पूर्वं निष्कासिता सञ्चिका पुनः प्राप्ता (restore) ।
05:53 भवातां व्यवस्थायाः सञ्चिकां शाश्वतनिष्कासनार्थं, तच्चित्वा Shift+Delete कीलके नुदन्तु ।
06:01 एकं डैलाग् बोक्स् “Are you sure you want to permanently delete Hello.txt?” इति पृच्छति ।

Delete गण्डस्योपरि नुदन्तु ।

06:12 पुनः Trash ऐकान् उपरि नुदन्तु ।
06:15 सञ्चिका अस्माकं व्यवस्थायाः शाश्वतं निष्कासितमित्यतः, तत् Trash फोल्डर्-मध्ये नोपलभ्यते ।
06:23 डेस्क्-टोप् इत्यस्य तदेव थीम् दृष्ट्वा भवन्तः नीरसताम् अनुभवन्तः सन्ति किम्? तत् परिवर्तयामः ।
06:28 लोञ्चर् गत्वा, System settings चिन्वन्तु । पश्चात् Appearance उपरि नुदन्तु ।
06:35 Appearance विण्डो उद्घट्यते ।
06:38 अत्र, Themes टेब्-इत्यस्याधः, एतावदेव इन्स्टाल्-जातानि बहूनि थीम्स् सन्ति ।
06:44 भवतामभीष्टानुसारेण थीम्स् उपयुज्यताम् ।
06:47 यत्किमपि थीम् नोदनक्षणे एव डेस्क्टोप् परिवर्त्यते इति भवन्तः पश्यन्ति ।
06:54 विण्डो पिधानं कर्तुं, स्माल् X ऐकान् नुदन्तु ।
06:58 अधुना, Desktop इत्यस्य दक्षिणकोणे विद्यमानानि कानिचन ऐकान्स् पश्यामः ।
07:04 प्रथमम् Internet connectivity इत्यस्ति ।
07:07 भवन्तः यत्किमपि Lan (लेन्) अथवा Wifi (वैफ़ै) नेट्वर्क्-सम्पर्कं प्राप्तवन्तः चेत्, भवद्भिः कनेक्षन् लभ्यते ।
07:13 इमानि भवन्तः अत्र दृष्टुं शक्नुवन्ति ।
07:16 भवद्भ्यः एक्सेस् (access) युतं 'नेट्वर्क्' यदस्ति तं भवन्तः चेतुं शक्नुवन्ति ।
07:20 नेट्वर्क् Enable अथवा Disable कर्तुं, Enable Networking विकल्पं चेक् अथवा अन्-चेक् कुर्वन्तु ।
07:27 Edit Connections विकल्पमुपयुज्य, नेट्वर्क् इत्यस्य एडिट् अपि भवितुमर्हति ।
07:32 अग्रिमम् ऐकान् Sound वर्तते ।
07:35 भवन्तः अत्रैकं स्लैडर् पश्यन्ति ।
07:37 अस्माकं विकल्पानुसारेण, आडियो स्तरम् अधिकं न्यूनं वा कर्तुम् इदं सहाय्यमाचरन्ति ।
07:43 Sound Settings उपरि नोदनेन, अस्माकं व्यवस्थायाः ध्वनेः स्थरं संमायोजितुं शक्नुमः ।

इमानि विण्डो-सेट्टिङ्ग्स् भवन्तः स्वतः अभ्यासं कुर्वन्तु ।

07:53 अग्रिमम् ऐकान् Time & Date वर्तते ।

वयमिदम् ऐकान् नुदामः चेत् केलेण्डर् उद्घट्यते ।

08:00 वयं प्रस्तुतं दिनाङ्कं, मासं, वत्सरञ्च दृष्टुं शक्नुमः ।
08:04 एरो (arrow) गण्डानि, अस्माकमभीष्टानुसारेण मासं वत्सरं च चेतुम् अवकाशं कल्पयन्ति ।
08:11 Time & Date Settings उपरि नुत्त्वा दिनाङ्कं समयञ्च वयम् एडिट् कर्तुं शक्नुमः ।
08:16 इमान् विकल्पान् स्वयमेव अभ्यासं कुर्वन्तु भवन्तः ।
08:20 पश्चात्, wheel अथवाPower ऐकान् उपरि नुदन्तु ।
08:24 अत्र, Log Out अपि च Shut Down विकल्पाभ्यां सह कानिचन शोर्ट्-कट् विकल्पानि दृष्टुं शक्नुमः ।
08:31 अस्माकं व्यवस्थायामुपलभ्यमानानि सर्वाणि युसर्-अकौण्ट् भवन्तः अत्र पश्यन्ति ।
08:36 आवश्यकातानुसारेण यत्किमपि user उपरि नुत्त्वा, तत् यूसर् अकौण्ट् प्रति परिवर्तयितुं शक्नुमः ।
08:43 अनेन वयं पाठस्यान्तमागतवन्तः ।

सङ्क्षेपेण,

08:48 पाठेऽस्मिन् वयम्,

लोञ्चर् विषयम्, लोञ्चर् मध्ये अप्लिकेशन्स् निष्कासनं संयोजनम्,

08:55 बहूनि डेस्क्टोप्स् कथमुपयोक्तव्यमिति,

डेस्क्टोप् थीम् परिवर्तनम्,

09:01 इण्टर्नेट् सम्पर्कः,

Sound सेट्टिङ्ग्स्,

09:04 Time and Date सेट्टिङ्ग्स् अपि च यूसर् अकौण्ट् परिवर्तनञ्च ज्ञातवन्तः ।
09:10 पर्चन्याम् विद्यमानं विडियो, “spoken tutorial” प्रकल्पस्य सारं दर्शयति । तदवचित्य पश्यन्तु ।
09:18 “spoken tutorial” प्रकल्पगणः, इमान् पाठान् उपयुज्य कार्यशालां चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं ददाति ।
09:27 अधिकविवरणार्थम् अस्मभ्यं लिखन्तु ।
09:30 अस्मिन् "स्पोकन् ट्युटोरियल्" मध्ये प्रश्नाः सन्ति वा ?

जालपुटमिदं पश्यन्तु :

09:35 भवतां प्रश्नान् मिनिट् सेकेण्ड् इत्यनयोः सह फोरं मध्ये लिखन्तु ।

भवतां प्रश्नान् सङ्क्षेपेण विवृण्वन्तु ।

09:41 अस्माकं गणेषु यः कोऽपि उत्तरं ददाति ।
09:45 "Spoken Tutorial" प्रकल्पः, NMEICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवान् अस्ति । अधिकविवरणं अस्यां पर्चन्याम् उपलभ्यते ।
09:57 इदं स्क्रिप्ट्, "स्पोकन् ट्युटोरियल्" गणस्य योगदानमस्ति ।

पाठस्यास्य अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat