LibreOffice-Suite-Impress/C2/Printing-a-Presentation-Document/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:33, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Printing a Presentation


Visual Cues Narration
00.00 LibreOffice Impress - प्रस्तुति-मुद्रणम् इत्यस्मिन् spoken tutorial मध्ये स्वागतम् |
00.06 पाठे अस्मिन् पठाम: - मुद्रणार्थं विविधपर्यायान् -
00.11 Slides , Handouts ,Notes ,Outline च |
00.16 अत्र वयं Ubuntu Linux 10.04 , LibreOffice - सम्पुटसंस्करणं 3.3.4. च उपयुञ्ज्महे |
00.25 कदाचित् वा भवता भवत् - प्रस्तुते: मुद्रणं करणीयं भवति |
00:29 यथा , भवता भवत् - प्रस्तुते: प्रतिकृति: श्रोतृभ्य: अग्रिम-संदर्भार्थं दातव्या भवेत् |
00.35 तर्हि प्रथमं ,द्विर्नोदनेन अस्माकं "Sample Impress " -प्रस्तुतिम् उद्घाटयाम: |
00.41 भवत् - प्रस्तुतिं मुद्रयितुं , "File " तथा च "Print" नुदतु | अथवा वयं "CTRL " तथा च "P " कीलौ युगपत् नुदाम: |
00.50 'General ' तथा च 'Options ' इति tab - अन्तर्गतं विन्यासं ज्ञातुं
00.55 LibreOffice Writer - मालिकायां Viewing and printing Documents - विषयकं tutorial पश्यतु |
01:02 "General " tab मध्ये , "Print "- अन्तर्गते "Document " - क्षेत्रे , वयं Impress निमित्तं विविधान् अनन्य- पर्यायान् पश्याम: |
01:09 यथावश्यकम् अवसर्पिणी: मुद्रयितुं पर्याया: एते अस्मान् उपकुर्वन्ति |
01:15 Slides Handouts ,Notes , Outline. च | वयं "Slides " - पर्यायं चिनुम: |
01:22 अधुना "LibreOffice Impress "tab नुदाम: |
01:26 अत्र भवान् अवसर्पिणी-भागान् चेतुं शक्नोति ,यान् भवान् मुद्रयितुम् इच्छति ,वर्णम् आकारं च |
01:34 "Content" - मध्ये "Slide name", "Date and time " , "Hidden pages " च चिनोतु |
01:41 यथा नाम वर्णयति , एते अवसर्पिणीनाम ,समयं , दिनाङ्कं , गुप्त-पर्णानि च मुद्रयेयु: यदि स्यु: |
01:49 "Color " - मध्ये "Gray scale " चिनुम: |
01:53 यथा नाम वर्णयति , अन्य-पर्याया: अवसर्पिणीं तत्-मूल -वर्णे , श्वेत-श्याम-वर्णे वा मुद्रयेयु: |
02:00 "Size " - मध्ये च "Fit to printable page" चिनुम: | भवान् स्वत: एव Libre Office impress tab - स्थान् अन्य- size-पर्यायान् परीक्षितुं शक्नोति |
02:10 भवान् किन्निमितं मुद्रयति तत्- मुद्रणस्य हेत्वनुगुणं Page Layout tab - मध्ये विविध - पर्याया: सन्ति |
02:18 चिन्तयाम: , एकस्मिन् एव मुद्रित-पर्णे भवान् कतिपय - अवसर्पिणी: इच्छति |
02:23 अत: , "Pages per sheet " चिनोतु | उत्सर्गेण , इदं प्रतिपर्णम् एकाम् अवसर्पिणीं मुद्रयति |
02:29 अत्र पर्णस्य लघु पूर्वदर्शनमस्ति |
02:33 "drop-down " -बाणं नुदतु , तथा च प्रतिपर्णं मुद्रयितुं पर्णानां संख्यां चिनोतु |
02:39 यदि भवान् २ चिनोति ,तर्हि पूर्वदर्शने वयं पर्णद्वयं पश्याम: | यदि वयं ६ चिनुम: तर्हि पूर्वदर्शने वयं ६ पर्णानि पश्याम: |
02:48 "Checking Draw a border around each page " - पर्याय: , मुद्रणसमये प्रत्येकं पर्णस्य कृते कृष्ण-सीमां निर्माति |
02:56 अनेन पर्णम् अधिकम् आकर्षकं भवति |
02:59 "Brochure " इति अग्रिम-पर्याय: , अवसर्पिणी: पुस्तकरूपे मुद्रयितुम् उपकरोति येन बन्धनं सुकरं भवेत् |
03:06 तथापि , अस्मिन् संदर्भे वयं एतं पर्यायं न चिनुम: | भवान् अनन्तरं स्वत: एव एतं पर्यायं परीक्षेत |
03:14 निश्चिनोतु यत् , "Options "tab - स्था: सर्वा: चयनिका: चिता: न सन्ति |
03:19 इमा: चयनिका: विशिष्ट-हेतुनिमित्तं सन्ति, या: पाठे अस्मिन् न चर्चयाम: |
03:25 अधुना "Print " -पिञ्जं नुदतु |
03:28 यदि मुद्रक: सम्यक् संरूपित: स्यात् तर्हि मुद्रक: मुद्रणम् आरभेत |
03:36 अग्रे "Handouts " -पर्याय-विषये पठाम: | " File " तथा च " Print. " नुदतु |


03:41 'General ' tab - मध्ये "Print "- tab - अन्तर्गते "Document "- क्षेत्रे , "Handout " चिनोतु |
03:47 उत्सर्गेण एकस्मिन् पर्णे अवसर्पिणी - चतुष्टयं भवति , उत्सर्ग-क्रम: च वामत: दक्षिणं तत: अध: | एतद् -प्रस्तुतये अत्र परिवर्तनं मास्तु |
03:58 LibreOffice Impress tab, मध्ये , भवान् प्राप्स्यति यत् Size - पर्याया: चिता: न सन्ति इति |
04:05 यतो हि , मुद्रित-पर्णस्य आकार: , sheet - स्थ - अवसर्पिणी -संख्यां , sheet - आकारं च अवलम्बते |
04:12 अधुना " Print " - पिञ्जं नुदतु |
04:15 यदि मुद्रक: सम्यक् संरूपित: स्यात् तर्हि तेन इदानीं मुद्रणम् आरब्धव्यम् |
04:20 प्रथम- अवसर्पिणीं प्रति गच्छेम ,'Notes 'tab. नुदेम च
04:25 अत्र वयं 'note ' मध्ये टङ्कयाम: - “This is a sample note”.
04:30 भवता भवत् - अवसर्पिणी - निमित्तं या टीपा टङ्किता तां मुद्रयितुं ,"File " तथा च "Print" नुदतु |
04:35 "General " tab मध्ये , "Print "- अन्तर्गते "Document " - क्षेत्रे , "Notes " -पर्यायं चिनोतु |
04:42 वामे पूर्वदर्शनं पश्यतु | इदम् अवसर्पिण्या: अधोभागे भवत्-टङ्कितां टीपां दर्शयेत् |
04:48 अधुना 'LibreOffice Impress tab' नुदतु |
04:52 लक्षयतु यत् , Size - पर्याया: न उपलभ्यन्ते यदा वयं टीपां मुद्रयाम: |
04:57 अधुना , "Print " - पिञ्जं नुदतु | यदि मुद्रक: सम्यक् संरूपित: स्यात् तर्हि, तेन इदानीं मुद्रणम् आरब्धव्यम् |
05:05 अन्ते, प्रस्तुतिसमये शीघ्र- संदर्भार्थं अवसर्पिणीनां रूपरेखां मुद्रयितुं " File " तथा च "Print" नुदतु |
05:13 'General 'tab - मध्ये "Print" - अन्तर्गते "Document " - क्षेत्रे "Outline " - पर्यायं चिनोतु |
05:19 वामभागे पूर्वदर्शनपर्णं पश्यतु | इदं रूपरेखाम् अथवा अवसर्पिणी - क्रमं तत् - शीर्षकै: उप-बिन्दुभि: च सह दर्शयति |
05:28 अधुना LibreOffice Impress tab नुदतु |
05:32 पुन: लक्षयतु , Size -पर्याया: न उपलभ्यन्ते यदा वयं रूपरेखां मुद्रयाम: |
05:38 अधुना "Print " - पिञ्जं नुदतु | यदि मुद्रक: सम्यक् संरूपित: , तर्हि तेन इदानीं मुद्रणम् आरब्धव्यम् |
05:47 अत्र tutorial इदं समाप्यते | अस्माभि: पठितं संक्षेपेण -
05:52 Slides, Handouts, Notes , Outline च |
05:57 व्यापक-परीक्षा | नूतन-प्रस्तुतिं निर्मातु |
06:02 केवलं द्वितीय - अवसर्पिणीं मुद्रयतु | प्रथम - अवसर्पिणी - चतुष्टयं handout - त्वेन मुद्रयतु |
06:10 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु | इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
06:16 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
06:21 spoken tutorial गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
06:27 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
06:31 कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |
06:38 Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:
06:42 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
06:50 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
07:01 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
07:06 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha