LibreOffice-Suite-Draw/C4/Set-Draw-preferences/Sanskrit

From Script | Spoken-Tutorial
Revision as of 16:52, 27 July 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 लिब्रे आफीस् ड्रा इत्यत्र सेट्टिङ्ग् प्रिफरेन्स् अधिकृत्य विद्यमाने अनुशिक्षणे भवतां स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे भवन्तः

प्रापर्टीस् आवृत्तीनां रचना वर्णस्य/ग्रे-स्केल्/नील-श्वेतवर्णानां व्यू एते कथं सेट् करणीयाः इति जानन्ति ।

00:18 अत्र वयम् उबुन्टु लिनक्स् 10.04 आवृत्तिः तथा लिब्रे आफीस् सूट् इत्यस्य 3.3.4 आवृत्तिम् उपयुञ्ज्महे ।
00:29 इदानीं वयं पूर्वं सेव्-कृतं 3D object chart इति सञ्चिकाम् उद्घाट्य तस्य प्रथमपृष्ठं गच्छामः ।
00:40 इदानीम् अनन्तरस्य उल्लेखस्य कृते कानिचन विवरणानि अत्र सञ्चिकायां योजयामः ।
00:45 तथा कर्तुं मुख्य-मेनुतः File चित्वा Properties क्लिक् कुर्वन्तु ।
00:50 भवन्तः Properties इति डैलाग्-बाक्स् पश्यन्ति ।
00:56 General ट्याब् क्लिक् कुर्वन्तु । एतत्-सञ्चिका-सम्बद्धविषयाः अत्र आवलीकृताः सन्ति ।
01:02 कृपया पश्यन्तु, अत्र वयं केवल-सञ्चिका-दर्शनं कुर्मः । परिवर्तनं कर्तुं न शक्यते ।
01:09 तदनन्तरं, Description ट्याब् क्लिक् कुर्वन्तु ।
01:13 अत्र वयं शीर्षकं, विषयः, कीवर्ड् तथा अभिप्रायम् अस्माकं अवश्यकतानुसारं योजयितुं शक्नुमः ।
01:20 एतत् विवरणं अनन्तरम् उल्लेखरूपेण उपयोक्तुं शक्यते ।
01:25 टैटल् फील्ड् मध्ये 3D object chart इति टङ्कनं कुर्वन्तु ।
01:30 Subject फील्ड् मध्ये : 3D Objects Comparisons इति टङ्कनं कुर्वन्तु ।
01:37 Keywords मध्ये 3D and 3D Effects इति टङ्कनं कुर्वन्तु ।
01:42 अन्ते Comments फील्ड् मध्ये Learning about File Properties इति टङ्कनं कुर्वन्तु ।
01:48 एवं Draw फैल्-सम्बद्ध-सूच्यांशाणां टङ्कनं वरम् ।
01:54 एवं Description ट्याब्-मध्ये properties मध्ये भवन्तः भवतां प्रापर्टीस् सेट् कर्तुं शक्नुवन्ति ।
02:00 उदाहरणार्थं डाक्युमेण्ट्-निर्मितः दिनाङ्कः ।
02:05 डाक्युमेण्ट्-सम्पादकम्,
02:07 कस्य ग्राहकस्य कृते एतत् डाक्युमेण्ट् निर्मितम् इत्यादीनां ज्ञानं भवति ।
02:11 Draw इति इन्फर्मेषन् कस्टमैस् कर्तुं सहायकरण-वैशिष्ट्ययुक्तमस्ति ।
02:17 Properties डैलाग्-बाक्स् मध्ये Custom Properties क्लिक् कुर्वन्तु ।
02:23 अत्र भवन्तः Name, Type तथा Value इति स्थानत्रयं पश्यन्ति ।
02:30 अस्य अधः दक्षिणपार्श्वे वर्तमानं Add बटन् क्लिक् कुर्वन्तु ।
02:33 इदानीं भवन्तः प्रतिस्थानस्य अधः ड्राप्-डौन् बाक्स् पश्यन्ति ।
02:40 इदानीं Name क्लिक् कुर्वन्तु तथा ड्राप्-डौन् कृत्वा Date Completed चिन्वन्तु ।
02:46 Type ड्राप्-डौन् मध्ये वयं Date Time चिनुमः ।
02:51 इदानीं Value स्थानं, दिनाङ्कं, कालं च सूचयति ।
02:55 वयमिदानीं दिनाङ्कं न परिवर्तयामः ।
02:57 Time स्थाने वयं 10:30:33 इति एण्टर् कुर्मः ।
03:05 इदानीं भवन्तः डाक्युमेन्ट्-निर्माणदिनाङ्कं जानन्ति ।
03:09 इदानीं वयम् अन्यत् field योजयामः । Add क्लिक् कुर्वन्तु ।
03:14 इदानीं भवन्तः ड्राप्-डौन् बाक्स् मध्ये द्वितीयपट्टिकां पश्यन्तु ।
03:21 Name ड्राप्-डौन् मध्ये Checked by इति चिन्वन्तु ।
03:25 Type स्थाने Text चिन्वन्तु ।
03:29 Value मध्ये “ABC” इति टङ्कनं कुर्वन्तु ।
03:33 भवन्तः भवतां प्रापर्टीस् Draw file कृते योजयितुं OK क्लिक् कुर्वन्तु ।
03:39 वयमिदानीं अस्माभिः रचितं property कथं डिलिट् करणीयमिति पठामः ।
03:44 Main menu गत्वा File क्लिक् कृत्वा Properties चिन्वन्तु ।
03:51 इदानीं Properties डैलाग्-बाक्स् मध्ये Custom Properties क्लिक् कुर्वन्तु ।
03:55 वयमिदानीं प्रथम-प्रापर्टि Checked by डिलिट् कुर्मः ।
04:01 Remove Property दक्षिणपार्श्वस्य बटन् क्लिक् कुर्वन्तु । इदानीं प्रापर्टि डिलिट् भवति ।
04:07 OK क्लिक् कुर्वन्तु ।
04:11 भवन्तः 'Draw' सञ्चिकाम् अनेकासु आवृत्तिषु सेव् कर्तुं शक्नुवन्ति । एतत् वैशिष्ट्यं Versions इति उच्यते ।
04:17 उदाहरणार्थं प्रथमदिने भवन्तः आब्जेक्ट् योजयित्वा save कृतवन्तः इति चिन्तयन्तु ।
04:22 द्वितीयदिने भवन्तः तत् चित्रं परिवर्तितवन्तः ।
04:24 इदानीं भवन्तः मूलं, परिवर्तितं च उभयं चित्रम् इच्छन्ति चेत्,
04:31 Versions इति विकल्पम् उपयुज्य सेव् करणीयम् ।
04:33 Main menu तः, File प्रति गत्वाVersions क्लिक् कुर्वन्तु ।
04:39 इदानीं भवन्तःVersions इति डैलाग्-बाक्स् पश्यन्ति ।
04:42 Save New Version बटन् क्लिक् कुर्वन्तु ।
04:47 इदानीं भवन्तः Insert Version Comment इति डैलाग्-बाक्स् पश्यन्ति ।
04:51 "Version One" इति कमेण्ट् टङ्कयन्तु ।
04:55 OK क्लिक् कृत्वा अनन्तरं Close क्लिक् कुर्वन्तु ।
05:00 इदानीं वयं "Geometry in 2D Shapes and 3D Shapes" इति शीर्षकं परिवर्तयामः ।
05:07 वयमिदानीं टेक्स्ट् वर्णं नीलवर्णं प्रति परिवर्तयामः ।
05:18 Versions विकल्पमुपयुज्य सञ्चिकां सेव् कुर्मः ।
05:22 Main menu तः File गत्वाVersions क्लिक् कुर्वन्तु ।
05:26 Save New Version बटन् क्लिक् कुर्वन्तु ।
05:30 Insert Version Comment इति डैलाग्-बाक्स् दृश्यते ।
05:34 Version Two इति कमेण्ट् लिखन्तु ।
05:36 OK क्लिक् कुर्वन्तु ।
05:40 इदानीं अत्र Version One तथा Version Two इति वर्शन्-द्वयम् आवलीरूपेण भवति ।
05:46 यथा अस्माभिः ज्ञातं Version One इत्यस्य शीर्षकं कृष्णवर्णीयमस्ति,
05:51 Version Two शीर्षकं नीलवर्णस्य भवति ।
05:54 वयमिदानीं Version One चित्वा Open क्लिक् कुर्मः ।
06:00 वयमिदानीं कृष्णवर्णस्य शीर्षकयुताम् आवृत्तिं पश्यामः ।
06:05 प्रतिवारं Draw file पिधानकाले भवन्तः आटोम्याटिक् सेविङ्ग्, आवृत्तौ सक्रियं कर्तुं शक्नुवन्ति ।
06:11 तथा कर्तुं File क्लिक् कृत्वा तदनन्तरं Versions क्लिक् कुर्वन्तु ।
06:15 इदानीम् अत्र "Always save a version on closing" इति चेक्-बाक्स् वर्तते ।
06:23 एतत् बाक्स् सक्रियं कुर्वन्तु ।
06:24 अनेन प्रतिवारं Draw file पिधानकाले नूतन-वर्शन् किञ्चन रक्षितं भवति । तदनन्तरं Close क्लिक् कुर्वन्तु ।
06:34 भवन्तः भवतां ड्रा-फैल् वीक्षणविधानं निर्धारयितुं शक्नुवन्ति ।
06:38 भवन्तः Color, Gray scale अथवाBlack and White मध्ये भवतां ड्रायिङ्ग् द्रष्टुं शक्नुवन्ति ।
06:44 पूर्वनियोजितरूपेण, वयं Draw file वर्णेषु पश्यामः ।
06:48 वयमिदानीं वीक्षणं Gray Scale कृते परिवर्तयामः ।
06:53 View क्लिक् कृत्वा तस्मिन् Color/Grayscaleक्लिक् कृत्वा Gray Scale चिन्वन्तु ।
06:59 इदानीं भवन्तः वस्तूनि धूसरवर्णेषु प्रदर्शितं पश्यन्ति ।
07:03 इदानीं वीक्षणं Black and White कृते परिवर्तयामः ।
07:08 Main Menu तः, View चित्वा Color/Grayscale क्लिक् कृत्वा Black and White चिन्वन्तु ।
07:17 इदानीं भवताम् आब्जेक्ट् नील-रक्तवर्णेषु प्रदर्शितं भवति ।
07:25 इदानीं भवन्तः वीक्षणं पुनः colour कृते परिवर्तयितुं शक्नुवन्ति ।
07:29 तथा कर्तुं View उपरि क्लिक् कृत्वा, Color/Grayscale क्लिक् कृत्वा Color चिन्वन्तु ।
07:36 इदानीं ड्रायिङ्ग् पुनः colour मध्ये प्रदर्शितम् ।
07:43 एतावता वयं अस्यानुशिक्षणस्य अन्ते स्मः
07:45 अस्मिन् अनुशिक्षणे वयं,

Draw file इत्यस्य प्रापर्टीस्, Draw file इत्यस्य आवृत्तीनां रचना तथा ड्रायिङ्ग् color/grayscale/black-and-white मध्ये कथं वीक्षणीयमिति पठितवन्तः ।

07:59 अस्यां पर्चन्याम् उपलब्धं चलच्चित्रं पश्यन्तु ।
08:02 एतत् स्पोकन्-ट्युटोरियल्-योजनायाः सारांशः।
08:06 कदाचित् भवतां ब्याण्ड्-विड्त् अधिकं नास्ति चेत् डौन्-लोड् कृत्वा पश्यन्तु ।
08:11 स्पोकन्-ट्युटोरियल्-योजनागणः स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः सञ्चालयति । आन्-लैन् परीक्षायां उत्तीर्णेभ्यः प्रमाणपत्रं यच्छन्ति ।
08:21 अधिकविवरणार्थं कृपया, contact@spoken-tutorial.org पर्चनीं प्रति लिखन्तु ।
08:29 स्पोकन्-ट्युटोरियल्-योजना, टाक् टु अ टीचर् योजनायाः कश्चन भागः ।
08:33 एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रियसाक्षरतामिषन् तः समर्थितम् ।
08:40 अस्याः योजनायाः विषये अधिकं विवरणम् अस्यां पर्चन्याम् उपलभ्यते ।: - htpp://spoken-tutorial.org/NMEICT-Intro
08:54 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः । }

Contributors and Content Editors

NaveenBhat