LibreOffice-Suite-Draw/C3/Basics-of-Layers-Password-Encryption-PDF/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 LibreOffice Draw मध्ये Basics of Layers and Password Encryption PDF इत्याख्यं Spoken Tutorial प्रति भवतां स्वागतम् ।
00:09 अस्मिन् अनुशिक्षणे भवन्तः layers प्राथमिकांशान् पठन्ति ।
00:12 भवद्भिः काचित् Draw सञ्चिका password encryption (पास्-वर्ड् एन्क्रिप्षन्) उपयुज्य कथं रक्षणीया तथा
00:18 तां PDF इव कथम् एक्स्पोर्ट् करणीयम् इत्यपि पठन्ति ।
00:21 अत्र वयं : Ubuntu Linux आवृत्तिः, 10.04 आपरेटिङ्ग् सिस्टं तथा LibreOffice Suite आवृत्तिः, 3.3.4 एतान् उपयुञ्महे ।
00:30 वयं 'Route Map' इति सञ्चिकाम् उद्घाटयामः ।
00:33 Layers (लेयर्स्) नाम किं? लेयर्स् पारदर्शकच्छदः, एते एकस्य उपरि अन्ये स्थापिताः ।
00:42 प्रत्येकं Draw सञ्चिकायां त्रीणि लेयर्स् भवन्ति ।
00:44 अनिवार्यरूपेण, Layout (लेऔट्) इति लेयर् प्रदर्श्यते ।
00:48 अस्माकं अधिक-ग्राफिक्स् अस्माभिः अत्रैव क्रियते ।
00:51 बटन् तथा फार्म् इव नियन्त्रणांशान् सङ्गृहीतुं "Controls" (कण्ट्रोल्स्) लेयर् उपयुज्यते ।
00:57 संकीर्णरेखाचित्रेभ्यः, आयाम(डैमेन्शन्) रेखाः अथवा मापकरेखाः निरूपयितुं "Dimension" (डैमेन्शन्) लेयर् उपयुज्यते ।
01:06 उदाहरणार्थं कस्यचन गृहस्य रेखाचित्रं निर्दिष्टभित्तीनां मापकैः, विद्युत्-तन्तुजालस्य स्थानैश्च युक्तं स्यात् ।
01:19 गृहात् (हौस्) शालां (स्कूल्) प्रति मार्गदर्शकस्य नक्षत्रयस्य वयं मुद्रणं कुर्मः ।
01:26 एतान् Map 1, Map 2 तथा Map 3 इति मन्यामहे ।
01:31 Map 1, अस्मिन् प्रदेशे विद्यमानानि सर्वाणि मार्गसूचकानि प्रदर्शयति ।
01:35 Map 2 मध्ये सरोवरद्वयं (लेक्स्), सभाङ्गणम् ('स्टेडियम्') तथा आपणसमूहः 'कमर्षियल् काम्प्लेक्स्' विहाय वयं सर्वाणि आब्जेक्ट् दर्शयामः ।
01:43 Map 3 मध्ये 'उद्यानवनं' विहाय सर्वाणि आब्जेक्ट् दर्शयामः ।
01:48 एतान् प्रदर्शयितुं अस्माभिः प्रत्येकं मानचित्रं रचनीयम् वा?
01:51 Draw,लेयर्स् साहाय्येन अस्य परिहारः कर्तुं शक्यः ।
01:58 एवम् अनेकविषययुक्तं लेयर्-युक्तं केवलं किञ्चन म्याप्-फैल् स्यात् ।
02:03 अस्माभिः किञ्चन Draw पृष्ठम् उपयुज्य, लेयर् संयोजयितुं मुद्रयितुम् अथवा द्रष्टुं शक्यते ।
02:10 वयं RouteMap कृते कांश्चन लेयर्स् योजयामः ।
02:13 Layout लेयर् उपरि क्लिक् कुर्वन्तु ।
02:15 रैट्-क्लिक् कृत्वा Insert Layer चिन्वन्तु ।
02:18 Insert layer इति डैलाग्-बाक्स् दृश्यते ।
02:22 Name क्षेत्रे Layer four इति टङ्कनं कुर्वन्तु ।
02:24 भवतां रेखाचित्रसम्बद्धं यत्किमपि शीर्षकं विवरणं वा योजयितुं शक्यते ।
02:30 “Visible” तथा “Printable” बाक्स् अभिजानन्तु ।
02:34 डैलाग्-बाक्स् तः बहिः आगन्तुं OK क्लिक् कुर्वन्तु ।
02:37 पुनः "Layout" लेयर् उपरि क्लिक् कुर्वन्तु ।
02:40 Draw पृष्ठस्य उपरि म्याप् चित्वा तत् अन्-ग्रुप् (ungroup) कुर्वन्तु ।
02:44 इदानीं वयं Lakes चिनुमः ।
02:46 Shift की क्लिक् कुर्वन्तु तथा Stadium एवं Commercial complex चिन्वन्तु ।
02:52 अनन्तरं रैट्-क्लिक् कुर्वन्तु तथा Cut चिन्वन्तु ।
02:55 अनन्तरं “Layer four” इति लेयर् उपरि क्लिक् कृत्वा तान् पेस्ट् कुर्वन्तु ।
02:59 Layout लेयर् मध्ये यथा अस्ति तथा तस्मिन्नेव स्थाने पेस्ट् कृतं वर्तते ।
03:04 पुनः Layer Four क्लिक् कुर्वन्तु ।
03:07 context menu द्रष्टुं रैट्-क्लिक् कुर्वन्तु । Modify Layer चिन्वन्तु ।
03:12 Modify Layer इति डैलाग्-बाक्स् दृश्यते ।
03:15 Visible इति बाक्स् अन्-चेक् कुर्वन्तु । OK क्लिक् कुर्वन्तु ।
03:18 Layer Four मध्ये वस्तूनि इतः परं न दृश्यन्ते ।
03:21 आब्जेक्ट्स् अत्र भवन्ति परन्तु न दृश्यते ।
03:26 Layout लेयर् क्लिक् कुर्वन्तु । कदाचित् ट्याब् न दृश्यते चेत् Layout लेयर् यावत्पर्यन्तं दृश्यते तावत् पर्यन्तं वाम-आरो बटन् नुदन्तु ।
03:35 अस्माकं Map 2 इदानीं पूर्णम् ! एवमेव वयं Map 3 रचयामः ।
03:42 एतदनुशिक्षणं अत्रैव त्यक्त्वा एतत् गृहकार्यं कुर्वन्तु ।
03:45 Home तः School Campus पर्यन्तं मार्गद्वयं रच्यताम् ।
03:49 RouteMap चित्रे प्रत्येकं मार्गं प्रत्येकं लेयर् मध्ये रचयन्तु । तदर्थम् एतत्-द्वयं भिन्न-मानचित्रम् इव मुद्रणं कर्तुं शक्यते । परन्तु प्रत्येकं मार्गः प्रदर्शयते ।
04:01 वयं इदानीं काचित् सञ्चिका PDF इव कथं एक्स्पोर्ट् करणीया, तथा अस्माकं Draw सञ्चिका कथं 'पास्-वर्ड् प्रोटेक्ट्' करणीया इति पठामः ।
04:10 आदौ “RouteMap” इति Draw सञ्चिकां 'PDF' इति रक्षामः ।
04:14 मुख्य-मेनुतः File चित्वा “Export as PDF” क्लिक् कुर्वन्तु ।
04:19 PDF डैलाग्-बाक्स् दृश्यते ।
04:21 आदौ वयं “General”इति चिनुमः ।
04:24 “General”इति ट्याब् क्लिक् कुर्वन्तु ।
04:26 वयं Draw सञ्चिकायाः सर्वाणि पृष्ठानि 'पिडिएफ्'रूपेण परिवर्तयामः । तदर्थं Range अधः All चिनुमः ।
04:34 Images अधः वयं “JPEG compression” चिनुमः ।
04:38 एतत् कम्प्रेशन्-निमित्तं उपयुज्यमानं सामान्य-फार्म्याट् वर्तते ।
04:42 इदानीं, Initial View ट्याब् क्लिक् कुर्वन्तु ।
04:45 वयं डैलाग्-बाक्स् मध्ये दृश्यमानं अनिवार्यमौल्यं स्थापयामः ।
04:49 इदानीं Links ट्याब् क्लिक् कुर्वन्तु ।
04:52 वयं Draw सञ्चिकायां पर्चनीं योजयामः।
04:55 पुनः Links कृते निर्दिष्टं अनिवार्यमौल्यं स्थापयामः ।
04:59 इदानीं 'पि.डि.एफ्' डाक्युमेण्ट् रक्षितुं किञ्चन पास्-वर्ड् दद्मः ।
05:03 तदर्थं, “Security” ट्याब् क्लिक् कुर्वन्तु ।
05:07 Set open password बटन् क्लिक् कुर्वन्तु ।
05:10 Set Open Password इति डैलाग्-बाक्स् दृश्यते ।
05:14 “Password” क्षेत्रे भवतां सञ्चिकां रक्षितुं भवदिष्टं यत्किमपि पास्-वर्ड् टैप् कुर्वन्तु ।
05:20 अहं मम पास्-वर्ड् "Protect101" इति सेट् करोमि ।
05:24 Confirm क्षेत्रे अहं मम पास्-वर्ड् - “Protect101” इति पुनः टङ्कनं करोमि । OK इति क्लिक् कुर्वन्तु ।
05:31 तदनन्तरं डाक्युमेण्ट् प्रिन्ट् कर्तुं अथवा परिवर्तयितुं पर्मिशन् पास्-वर्ड् वयं सेट् कुर्मः ।
05:37 Set permission password बटन् क्लिक् कुर्वन्तु ।
05:41 Password स्थाने भवदिष्टं पास्-वर्ड् टङ्कयन्तु । अहं ProtectAgain0 इति टङ्कयामि ।
05:49 Confirm स्थाने, अहं पास्-वर्ड् ProtectAgain0 इति पुनः टङ्कनं करोमि तथा OK क्लिक् करोमि ।
05:57 इदानीं Printing तथा Changes निमित्तं पर्मिषन् सक्रियमस्तीति पश्यन्तु ।
06:03 संख्याविशेषयुक्तस्य अक्षरयुक्तस्य न्यूनातिन्यूनं षडक्षरयुक्तस्य पास्-वर्ड् चयनं वरम् ।
06:14 Printing अधः Not Permitted इति चिन्वन्तु ।
06:18 सम्यक् पास्-वर्ड् दीयते चेदेव पिडिएफ् मुद्रणं कर्तुं शक्यते, अन्यथा मुद्रणं कर्तुं न शक्यते ।
06:25 Changes अधः Not Permitted इति चिन्वन्तु ।
06:29 सम्यक् पास्-वर्ड् दीयते चेदेव पास्-वर्ड् एडिट् कर्तुं शक्यते, अन्यथा परिवर्तयितुं न शक्यते ।
06:36 इदानीं वयम् अधः वर्तमानं Export बटन् क्लिक् कुर्मः ।
06:41 Export डैलाग्-बाक्स् दृश्यते ।
06:43 वामपार्श्वस्थ-प्यानेल् तः , Places अधः भवतां फैल् रक्षणीयस्थानं क्लिक् कुर्वन्तु । अहं Desktop इति चिनोमि ।
06:53 File type अधः PDF - Portable Document Format क्लिक् कुर्वन्तु ।
06:57 तथा Save बटन् उपरि क्लिक् कुर्वन्तु ।
07:01 Draw सञ्चिका इदानीं PDF सञ्चिकारूपेण परिवर्तितम् । तं डेस्क्-ताप् उपरि रक्षितम् च ।
07:07 इदानीं वयं डेस्क्-टाप् कृते परिवर्तयामः ।
07:09 डेस्क्-टाप् मध्ये RouteMap PDF सञ्चिकां द्विवारं क्लिक् कुर्वन्तु ।
07:14 Enter password इति डैलाग् बाक्स् उद्घाट्यते ।
07:17 "Password" क्षेत्रे वयं Protect111 इति दुष्टं पास्-वर्ड् टङ्कनं कुर्मः ।
07:23 Unlock Document बटन् उपरि क्लिक् कुर्वन्तु ।
07:26 password क्षेत्रं रिक्तमस्तीति भवन्तः पश्यन्ति । पुनः पास्-वर्ड् स्थापयितुं तत्तु सूचयति ।
07:35 Password स्थाने वयं सम्यक् पास्-वर्ड् "Protect101" टङ्कयामः ।
07:40 Unlock Document बटन् उपरि क्लिक् कुर्वन्तु । PDF सञ्चिका उद्घाट्यते ।
07:46 भवतां Draw सञ्चिका अस्माभिः PDF रूपेण परिवर्तिता, तथा एषा अस्माभिः यशसा password-protected कृता ।
07:53 अनेन वयम् अस्य अनिशिक्षणस्य अन्ते स्मः ।
07:57 वयम् अत्र लेयर्स् अधिकृत्य ,
08:00 काञ्चन Draw सञ्चिकां PDF रूपेण परिवर्तयितुं तथा
08:03 एतत् 'पास्-वर्ड् एन्क्रिप्षन्' (password encryption) उपयुज्य कथं रक्षणीयम् इति पठितवन्तः ।
08:08 भवद्भ्यः किञ्चन गृहकार्यं वर्तते ।
08:11 “RouteMap” सञ्चिकायाः अन्यत् किञ्चन PDF निर्मीयताम् ।
08:14 PDF डैलाग्-बाक्स् मध्ये “Initial View” आप्षन्स् परिवर्तयन्तु ।
08:17 किं भवतीति पश्यन्तु ।
08:20 “User Interface” निमित्तं वर्तमानानि सर्वाणि आप्षन्स् चेक् कुर्वन्तु ।
08:23 permission passwords सेट् कुर्वन्तु ।
08:25 एतत् PDF मुद्रणं कुर्वन्तु ।
08:28 अस्यां पर्चन्यां लभ्यं चलच्चित्रं पश्यन्तु ।
08:31 एतत् स्पोकन् ट्युटोरियल् योजनायाः सारांशः।
08:34 कदाचित् भवतः ब्यान्ड्-विड्त् अधिकं नास्ति चेत् डौन्-लोड् कृत्वा पश्यन्तु ।
08:40 स्पोकन् ट्युटोरियल् योजनागणः
08:42 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः सञ्चालयति ।
08:45 आन्-लैन् परीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छन्ति ।
08:50 अधिकविवरणार्थं कृपया :

contact at spoken hyphen tutorial dot org. पर्चनीं प्रति लिखन्तु ।

08:58 स्पोकन् ट्युटोरियल् योजना, टाक् टु अ टीचर् योजनायाः भागः ।
09:03 अनया राष्ट्रिय-साक्षरता-मिषन्, ICT, MHRD द्वारा भारतसर्वकारस्य धनसहायं प्राप्तमस्ति ।
09:11 अस्याः योजनायाः विषये अधिकं विवरणम् अस्यां पर्चन्याम् उपलभ्यते ।:

spoken hyphen tutorial dot org slash NMEICT hyphen Intro

09:23 एतत् अनुशिक्षणं , DesiCrew Solutions Pvt. Ltd. योगदानम् । अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Udayana