LibreOffice-Suite-Draw/C2/Insert-text-in-drawings/Sanskrit

From Script | Spoken-Tutorial
Revision as of 00:40, 3 April 2020 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 LibreOffice Draw मध्ये Inserting Text in Drawings इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:07 अस्मिन् अनुशिक्षणे, वयम् :
00:10 * चित्रे पाठ्यस्य साकं कार्यनिर्वहणम् ।
00:12 * चित्रे पाठ्यस्य फार्म्याट्-करणम् तथा
00:15 * टेक्स्ट्-बाक्स् साकं कार्यनिर्वहणं कथं कर्तव्यम् इति पठिष्यामः ।
00:17 वयम्,

‘इण्डेन्ट्स्’ , ‘स्पेस्’ तथा ‘अलैन् टेक्स्ट्’ इत्येतेषां सेट्-करणम्

00:22 * ‘लैन् तथा ‘आरो (Arrow)' कृते पाठ्ययोजनम् तथा
00:26 * ‘काल् औट् मध्ये पाठ्यस्थापनम् इत्यादीनि पठिष्यामः ।
00:29 पाठ्यम् उभयरीत्या योजयितुं शक्यते :
00:31 * चित्रित-आब्जेक्ट् मध्ये,
00:35 रेखाः तथा आरो (Arrow) इत्येतयोः उपरि अपि एतत् साक्षात् योजयितुं शक्यते ।
00:37 * एकं स्वतन्त्रं 'Draw' आब्जेक्ट् टेक्स्ट्बाक्स् मध्ये अपि योजयितुं शक्यते ।
00:42 अत्र वयम् :
00:44 * उबंटु लिनक्स् OS इत्यस्य 10.04 तमाम् आवृत्तिं तथा 'LibreOffice Suite' इत्याख्यस्य 3.3.4 तमाम् आवृत्तिम् उपयुञ्जानां स्मः ।
00:52 वयं “Water Cycle” इति 'Draw' सञ्चिकाम् उद्घाटयामः तथा च एतस्याः कृते किञ्चन पाठ्यानि योजयामः ।
00:57 सूर्यस्य पार्श्वे स्थितस्य श्वेतमेघद्वयस्य कृते वयं “Cloud Formation” इति पाठ्यं योजयामः ।
01:04 श्वेतवर्णस्य समूहं चिन्वन्तु ।
01:06 समूहस्य अन्तः गन्तुं तस्य उपरि वारद्वयं क्लिक् (Double-click) कुर्वन्तु ।
01:10 वयं उपरितनस्य मेघस्य चयनं कुर्मः ।
01:13 अधुना, 'Drawing' इति टूल्-बार् तः 'Text' इति टूल चयनं कुर्मः ।
01:17 कर्सर्, एकं लघुः, दीर्घतमा, स्फुरिता रेखाम् इव परिवर्तिता इति भवन्तः पश्यन्ति वा ?
01:23 एतत् ‘टेक्स्ट् कर्सर्’ वर्तते ।
01:25 “Cloud Formation” इति पाठ्यस्य टङ्कनं कुर्मः ।
01:29 अधुना, पत्रस्य उपरि कुत्रचित् वा क्लिक् कुर्वन्तु ।
01:33 वयम् अपरं श्वेतमेघं प्रति अपि एतदेव पाठ्यं लिखामः ।
01:37 ग्रूप्-तः बहिः आगन्तुं पत्रस्य उपरि कुत्रचित् वा डबल्-क्लिक् कुर्वन्तु ।
01:42 अधुना वयं सूर्यम् एतादृशरीत्या एव नामाङ्कनं कुर्मः ।
01:45 आब्जेक्ट् मध्ये पाठ्यस्य लेखनम् एतदपेक्षया सुलभं न स्यात् !
01:50 तदनन्तरं, वयं धूम्रवर्णस्य मेघस्य समूहं चिनुमः ।
01:53 आदाविव, ग्रूप् अन्तः प्रवेष्टुं तस्य उपरि डबल्-क्लिक् कुर्वन्तु ।
01:57 “Rain Cloud” इति प्रत्येकं मेघे अपि टैप् कुर्वन्तु ।
02:02 धूम्रवर्णस्य मेघेषु पाठ्यं श्यामवर्णे अस्ति इत्यतः एतत् न दृश्यते ।
02:07 अतः, वयं पाठ्यस्य वर्णं श्वेतवर्णेन परिवर्तयामः ।
02:11 पाठ्यं चित्वा तथा ‘काण्टेक्स्ट् मेनु’ कृते रैट्-क्लिक् तथा “Character” इत्येतत् चिन्वन्तु ।
02:17 “Character” इति डैलाग्-बाक्स् उद्घाट्यते ।
02:20 “Font Effects” इति ट्याब् उपरि क्लिक् कुर्वन्तु ।
02:23 'Font color' फील्ड् मध्ये, स्क्रोल्-डौन् कृत्वा तथा “White” इत्येतत् चिन्वन्तु ।
02:28 'OK' क्लिक् कुर्वन्तु ।
02:30 फाण्ट् कलर् श्वेतवर्णेरूपेण परिवर्त्यते ।
02:33 एवं रीत्या, वयं द्वितीये मेघे स्थितस्य पाठ्यस्य वर्णम् अपि परिवर्तयामः ।
02:38 पाठ्यं चित्वा रैट्-क्लिक् कृत्वा, तदनन्तरं 'Character' चिन्वन्तु ।
02:43 'Font color' मध्ये, “White” चिन्वन्तु ।
02:46 समूहात् बहिः आगन्तुं पत्रे कुत्रचित् डबल्-क्लिक् कुर्वन्तु ।
02:50 एवं, पर्वतस्य प्रतिनिधिभूते त्रिभुजे “Mountain” इति पदं टङ्कयामः ।
02:58 भवन्तः पाठ्यस्य 'Character' इत्येतत् फार्म्याट् कर्तुं शक्नुवन्ति ।
02:59 अर्थात्, फाण्ट्-स्टैल् इत्येतत् परिवर्तनम् तथा फाण्ट् कृते विशेषशैल्यः दातव्याः ।
03:05 भवन्तः 'Paragraph' मध्ये अपि पाठ्यं फार्म्याट् कर्तुं शक्नुवन्ति, अर्थात् अलैन्-करणम्, ‘इण्डेण्ट्स्’ तथा ‘स्पेसिङ्ग्’ सेट् करणम्, तथा ट्याब्-स्थानानां सेट् करणम् इत्यादि ।
03:13 भवन्तः एतानि डैलाग्-बाक्स्,
03:16 ’काण्टेक्स्ट् मेन्यू’ तः अथवा
03:18 'Main मेन्यू' तः स्वीकर्तुं शक्नुवन्ति ।
03:21 'Main मेन्यू' तः 'Character' इति डैलाग्-बाक्स् प्रवेष्टुम्, 'Format' इति विकल्पं चित्वा तथा 'Character' चिन्वन्तु ।
03:28 'Main मेन्यू’ तः 'Paragraph' इति डैलाग्-बाक्स् प्रवेष्टुम्, 'Format' तथा 'Paragraph' चिन्वन्तु ।
03:36 आयताकृतौ, अन्तर्जलस्य कुत्र पूरणं भवति इति दर्शयितुं, वयं स्थूलतमां कृष्णरेखां कर्षामः ।
03:43 'Drawing' टूल्-बार् तः, 'Line' चिन्वन्तु ।
03:46 कर्सर् 'page' प्रति स्थलान्तरं कृत्वा, दक्षिणभागस्य मौस्-बटन् नोदयित्वा तथा वामतः दक्षिणं प्रति कर्षन्तु ।
03:54 आयताकृतिः समभागद्वयेन विभक्तं यथा भवेत् तथा एकां तिर्याक् रेखां कर्षन्तु ।
04:01 क्षितिः भागद्वयेन विभज्यते!
04:04 अधुना, वयं रेखायाः इतोऽपि विस्तारं कुर्मः ।
04:07 रेखां चित्वा तथा च काण्टेक्स्ट्-मेनु कृते रैट्-क्लिक् कु्वन्तु ।
04:11 'Line' उपरि क्लिक् कुर्वन्तु । 'Line' इति डैलाग्-बाक्स् दृश्यते ।
04:16 'Style' फील्ड् मध्ये, ड्राप्-डौन् बाक्स् क्लिक् कुर्वन्तु ।
04:20 'Ultrafine 2 dots 3 dashes' चयनं कुर्वन्तु ।
04:24 'Width ' फील्ड् मध्ये, व्याल्यू पायिण्ट् इत्येतत् '.70' इति सेट् कुर्वन्तु ।
04:29 'OK' क्लिक् कुर्वन्तु ।
04:31 वयं रेखां विस्तारितवन्तः ।
04:34 आयतस्य अन्तः “Ground water table” इति पाठ्यं योजयामः ।
04:39 आदौ, 'Text' इति टूल् चयनं कुर्मः ।
04:42 एतेन 'Drawing' टूल् बार् इत्याख्यस्य उपरितनं बृहदक्षरं “T” इति चितं वर्तते ।
04:46 'Draw' पत्रं प्रति गच्छन्तु ।
04:49 अधुना, कर्सर् एकं सङ्कलनचिह्नेन परिवर्तितम् । एतस्य अधः एकस्मिन् बृहदक्षरे 'I' अस्ति ।
04:55 आयतस्य अन्तः क्लिक् कुर्वन्तु ।
04:57 टेक्स्ट्-बाक्स् परिदृश्यते इति लक्षयन्तु ।
05:01 अत्र, वयं “Ground water table” इति टङ्कनं कुर्मः ।
05:05 पाठ्यं टेक्स्ट्-बाक्स् मध्ये अलैन् कर्तुम्, कर्सर् टेक्स्ट्-बाक्स् अन्तः स्थापयन्तु ।
05:12 उपरितनं स्ट्याण्डर्ड् टूल्-बार् मध्यस्थस्य 'Centered' इति ऐकान् उपरि क्लिक् कुर्वन्तु ।
05:19 एवं रीत्या, वयं त्रिभुजे
05:22 “Rain water flows from land into rivers and sea” इति पाठ्यं योजयामः ।
05:30 गृहकार्यस्य निमित्तम् अनुशिक्षणस्य कृते विरामं (pause) प्रयच्छन्तु ।
05:33 एकं समचतुरस्रं चित्रयन्तु ।
05:35 एतस्मिन् पाठ्यं योजयतु : “This is a square
05:38 A square has four equal sides and four equal angles. Each angle in a square is ninety degrees.
05:46 The square is a quadrilateral" (क्वाड्रिल्याटरल्)
05:50 'Text' इति डैलाग्-बाकस् मध्ये विकल्पान् उपयुज्य अस्य पाठ्यस्य फार्म्याट् कुर्वन्तु ।
05:54 'font, size, style' तथा 'alignment' इत्येतान् विकल्पान् पाठ्यस्य कृते अन्वयं करोतु (अप्लै कुर्वन्तु)
06:00 अधुना, वयं चित्रे स्थितान् बाणान् (‘आरो’) क्रमेण योजयामः ।
06:03 एतत् ‘आरो’ भूमिः, सस्यानि तथा जलमूलेषु स्थितं जलं बाष्पीभूत्वा मेघः कथं भवति इति प्रदर्शयति ।
06:12 वामभागस्य अन्तिमं ‘आरो’ चिनुमः ।
06:14 अधुना, क्लिक् कृत्वा पर्वतस्य प्रति आकर्षन्तु ।
06:18 वयं मध्ये स्थितं ‘आरो’ चिनुमः ।
06:21 अधुना, क्लिक् कृत्वा वृक्षान् प्रति आकर्षन्तु ।
06:25 तृतीयम् ‘आरो’, जलात् मेघानां प्रति जलस्य बाष्पीकरणं प्रदर्शयति ।
06:31 पर्वतात् जलस्य अधः प्रवाहं प्रदर्शयतः काञ्चित् रेखां चित्रयितुम्, वयं 'Curve ' इति विकल्पस्य उपयोगं कुर्मः ।
06:37 'Drawing' टूल्-बार् तः, 'Curve' इत्यस्य उपरि क्लिक् कृत्वा तथा 'Freeform Line' चिन्वन्तु ।
06:43 'draw' इति पत्रस्य उपरि, पर्वतस्य पार्श्वे, कर्सर् स्थापयन्तु ।
06:47 वामभागस्य मौस्-बटन् नोदयित्वा तथा अधः आकर्षन्तु ।
06:51 भवन्तः एकां वक्ररेखां चित्रितवन्तः ।
06:53 अधुना, वयम् प्रत्येकं ‘आरो’ कृते अपि विवरणं लिखामः ।
06:58 दक्षिणभागे विद्यमानं प्रथमं ‘आरो’ चित्वा तथा एवं टङ्कनं कृत्वा : “Evaporation (इव्यापोरेषन्) from rivers and seas”.
07:06 पत्रे कुत्रचित् क्लिक् कुर्वन्तु ।
07:08 रेखायाः उपरि पाठ्यं परिदृश्यते ।
07:12 पाठ्यं समीचीनतया रेखायाः उपरि एव विद्यते इत्यतः तत् स्पष्टं नास्ति इति लक्षयन्तु ।
07:18 पाठ्यं रेखायाः उपरिभागं प्रति नेतुं, रेखायाः उपरि क्लिक् कुर्वन्तु ।
07:22 पाठ्यं तिर्यक् स्थापितं वर्तते ।
07:25 कर्सर् पाठ्यस्य अन्ते संस्थाप्य तथा 'Enter' नुदन्तु ।
07:30 'page' उपरि क्लिक् कुर्वन्तु ।
07:32 पाठ्यम् अलैन् अभवत् ।
07:35 रेखायाः तथा आरो उपरि टङ्कनं कृतं पाठ्यं ‘काण्टेक्स्ट् मेन्यू’ मध्यस्थस्य विकल्पान् उपयुज्य अपि फार्म्याट् कर्तुं शक्यते ।
07:41 ‘काण्टेक्स्ट् मेन्यू’ उपयुज्य फाण्ट्-सैज् फार्म्याट् कुर्मः ।
07:45 एतस्य पाठ्यस्य उपरि क्लिक् कर्वन्तु ।
07:47 “Evaporation from rivers and seas”.
07:50 पाठ्यम् इदानीं समतलम् अस्ति ।
07:53 वयं पाठ्यस्य चयनं कुर्मः तथा ‘काण्टेक्स्ट् मेन्यू’ द्रष्टुं रैट्-क्लिक् कुर्मः ।
07:58 'Size' चयनं कृत्वा तथा २२ क्लिक् कुर्वन्तु ।
08:02 फाण्ट् सैज् परिवर्तितम् ।
08:05 अधुना, वयं अधस्तनं पाठ्यम् अवशिष्ट-सर्व ‘आरो’ कृते टङ्कनं कुर्मः ।
08:09 "Evaporation from soil" ।
08:12 "Evaporation from vegetation" ।
08:17 "Run off water from the mountains" ।
08:22 वयं धूम्रवर्णस्य मेघेभ्यः वर्षधारां प्रदर्शयामः ।
08:26 वर्षां प्रदर्शयितुम्, मेघात् अधोमुखं कृतं dotted arrow चित्रयामः ।
08:32 'Drawing' टूल्-बार् तः, 'Line Ends with Arrow' चिनुमः ।
08:37 तदनन्तरम्, वामभागे स्थितस्य आदिम-कृष्णमेघस्य उपरि कर्सर् स्थापयन्तु ।
08:42 वामभागस्य मौस्-बटन् नोदयित्वा एतत् अधः कर्षन्तु ।
08:46 ‘काण्टेक्स्ट् मेन्यू’ कृते रैट्-क्लिक् कृत्वा 'Line' क्लिक् कुर्वन्तु ।
08:50 'Line' इति डैलाग्-बाक्स् परिदृश्यते ।
08:53 “Style” ड्राप्-डौन् लिस्ट् उपरि क्लिक् कुर्वन्तु तथा
08:56 '2 dots 1 dash' चयनं कुर्वन्तु ।
08:58 'OK' क्लिक् कु्र्वन्तु ।
09:00 वयं एकं dotted arrow रचितवन्तः ।
09:02 वयं मेघस्य कृते इतोऽपि द्वयं ‘आरो’ copy तथा paste कुर्मः ।
09:06 अधुना वयं अपरस्य मेघस्य कृते ‘आरो’ copy तथा paste कुर्मः ।
09:12 अधुना, वयं “Rain” इति पाठ्यं ‘डाटेड् आरो’ (dotted arrow) इत्येतेषां कृते योजयामः ।
09:21 वयं “Evaporation to form the clouds” इति पाठ्यं एकं टेक्स्ट्-बाक्स् मध्ये 'Water' आब्जेक्ट् उपरि टङ्कनं कुर्मः ।
09:28 'Drawing ' टूल्-बार् तः, 'Text' टूल् चित्वा तथा पूर्वं प्रदर्शितरीत्या टेक्स्ट्-बाक्स् चित्रयन्तु ।
09:35 एतस्मिन्, “Evaporation to form the clouds” इति टङ्कनं कुर्वन्तु ।
09:41 'Drawing' टूल्-बार् तः 'Text Tool' चिन्वन्तु ।
09:44 तथा च कृष्णमेघानां पार्श्वे एकं टेक्स्ट्-बाक्स् रचयन्तु ।
09:48 एतस्मिन् “Condensation to form rain” इति टङ्कनं कुर्वन्तु ।
09:53 आदौ टेक्स्ट्-बाक्स् कोणस्य उपरि क्लिक् कृत्वा तस्य स्थानान्तरणं कुर्वन्तु ।
09:57 अधुना एतम् अपेक्षितस्थाने ‘ड्र्याग् तथा ड्राप्’ कुर्वन्तु ।
10:02 पूर्वतनानि सोपानानि अनुसृत्य, किञ्चन टेक्स्ट्-बाक्स् उपयुज्य, वयं “WaterCycle Diagram” इति शीर्षकं यच्छामः ।
10:07 तथा च पाठ्यं 'Bold' इति फार्म्याट् कुर्मः ।
10:16 'Water Cycle' रेखाचित्रस्य रचनां वयं समापितवन्तः ।
10:20 अधुना, वयं 'Callouts' (काल्-औट्स्) इत्येतानि पठामः ।
10:22 'Callouts' नाम किम्?
10:24 तानि विशिष्टानि टेक्स्ट्-बाक्स् सन्ति । तानि 'Draw' पत्रस्य
10:29 किञ्चन आब्जेक्ट् अथवा किञ्चन स्थानं प्रति भवताम् अवधानम् आकर्षति ।
10:33 उदाहरणार्थम् - अधिकेषु कामिक्-पुस्तकेषु
10:36 पाठ्यं 'Callouts' इत्यस्मिन् स्थापितं वर्तते ।
10:39 'Draw' सञ्चिकायाः कृते नूतनं 'page' योजयामः ।
10:42 'Main' मेनुतः, 'Insert ' चित्वा तथा 'Slide' उपरि नुदन्तु ।
10:47 नूतनमेकं 'page' योजितं वर्तते ।
10:50 'Callout' रचयितुम्, 'Drawing' टूल्-बार् प्रति गच्छन्तु ।
10:54 'Callout' ऐकान् पार्श्वे स्थितस्य लघुकृष्णवर्णस्य त्रिभुजस्य उपरि नुदन्तु ।
10:59 केचित् 'Callouts' परिदृश्यन्ते ।
11:01 'Rectangular Callout' उपरि नुदन्तु ।
11:04 'page' प्रति कर्सर् नुदित्वा, दक्षिण-मौस्-बटन् कर्षयन्तु ।
11:10 भवन्तः किञ्चन 'Callout' चित्रितवन्तः ।
11:12 भवन्तः अन्येभ्यः वस्तुभ्यः कृतमिव 'Callout' अन्तः पाठ्यं लेखितुं प्रभवन्ति ।
11:18 द्विर्नुदन्तु तथा Callout' अन्तः “This is an example” इति पाठ्यं टङ्कयन्तु ।
11:25 एवं, वयं LibreOffice Draw इत्याख्यस्य अनुशिक्षणस्य अन्तिमं सोपानं प्रति आगतवन्तः ।
11:30 अस्मिन् अनुशिक्षणे, भवन्तः
11:33 *चित्रेषु पाठ्येभ्यः कार्यं कथं करणीयम्
11:35 *चित्रेषु पाठ्यस्य फार्म्याट्-करणम्
11:38 *टेक्स्ट्-बाक्स् इत्यस्मात् कार्यनिर्वहणम्
11:40 *‘इण्डेण्ट्’, ‘स्पेसिङ्ग् तथा टेक्स्ट्-योजनं’
11:44 * लैन् तथा Arrow इत्येभ्यः पाठ्यं योजयितुं
11:46 तथा ‘काल् औट्’ इत्यस्मिन् पाठ्यस्य स्थापनम् इत्येतानि पठितवन्तः ।
11:50 एतत् गृहकार्यं भवन्तः स्वयं प्रयतन्ताम् ।
11:53 एकं नोट्बुक् शीर्षकं तथा एकाम् आह्वानपत्रिकाम् अस्मिन् स्लैड् मध्ये प्रदर्शितरीत्या रचयन्तु ।
12:00 एतस्यां पर्चन्याम् उपलभ्यमानानि चलच्चित्राणि पश्यन्तु ।

http://spoken-tutorial.org/

12:03 एषा ‘स्फोकन् ट्युटोरियल् प्राजेक्ट्’ सारांशं बोधयति ।
12:06 भवतां सविधे उत्तमरीत्या ब्याण्ड्-विड्त् नास्ति चेत्, भवन्तः डौन्-लोड् कृत्वा पश्यन्तु ।
12:11 स्फोकन् ट्युटोरियल् प्राजेक्ट् गणः
12:13 * अनुशिक्षणाानि उपयुज्य कार्याशालाः चालयति ।
12:17 * आन्-लैन् परीक्षायाम् उत्तीर्णतां प्राप्तवद्भ्यः प्रमाणपत्रं प्रयच्छति ।
12:20
12:27 ‘स्फोकन् ट्युटोरियल् प्राजेक्ट्’, ‘टाक् टु अ टीचर् प्राजेक्ट्’ इत्येतस्य एकः भागः वर्तते ।
12:31 एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रियसाक्षरतामिशन् तः समर्थितं वर्तते ।
12:39 अस्याः संस्थायाः विषये अधिकविचाराः अस्यां पर्चन्यां लभ्यन्ते - http://spoken-tutorial.org/
12:50 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Udayana