LibreOffice-Suite-Draw/C2/Fill-objects-with-color/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:48, 20 May 2020 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 LibreOffice Drawमध्ये Fill Objects with Colorइत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे भवन्तः
00:09 object कृते वर्ण-ग्रेडियण्ट्-ह्याचिङ्ग्-बिट्-माप्-पूरणं
00:15 पत्रस्य पृष्ठभूमीनां (ब्याग्रौड्) सेट्-कर्तुं तथा
00:17 नूतनवर्णानां निर्माणं पठिष्यन्ति ।
00:20 वयं 'WaterCycle' इत्याख्यसञ्चिकायाः उद्घाटनद्वारा प्रारभामः ।
00:24 भवन्तः objects इत्येतानि :
00:25 वर्णैः
00:26 ग्रेडियण्ट्स् इत्येतैः
00:29 लैन् प्याटर्न्स् अथवा अथवा ह्याचिङ्ग् इत्येतैः तथा
00:32 चित्रैः पूरयितुं शक्नुवन्ति ।
00:33 अत्र वयं : उबुण्टु लिनेक्स् इत्यस्य OS 10.04 आवृत्तेः तथा

LibreOffice Suite इत्यस्य 3.3.4आवृत्तेः उपयोगं कुर्मः ।

00:42 वयं WaterCycle चित्रे वर्णं पूरयामः ।
00:46 सूर्यं परितः विद्यमानस्य मेघद्वयस्य वर्णपूरणद्वारा वयं प्रारभामः । तेषु वयं श्वेतवर्णं पूरयामः ।
00:54 सूर्यस्य पार्श्वस्थस्य मेघस्य चयनं कुर्वन्तु ।
00:56 काण्टेक्स्ट् मेनु द्रष्टुं रैट्-क्लिक् कृत्वा तथा ‘एरिया’ नुदन्तु ।
01:01 “Area” इति डैलाग्-बाक्स् उद्घाटितं भवति ।
01:05 'Area'ट्याब् क्लिक् कुर्वन्तु तथा Fill इति विकल्पस्य अधः Color चिन्वन्तु ।
01:13 स्क्रोल्-डौन् कृत्वा White उपरि क्लिक् कुर्वन्तु ।
01:16 'OK' क्लिक् कुर्वन्तु ।
01:19 एवं रीत्या, वयम् अन्यस्य मेघस्य कृतेऽपि वर्णं पूरयामः ।
01:24 Area इत्यस्य अधोभागे, Color तथा White उपरि रैट्-क्लिक् कुर्वन्तु ।
01:30 प्रत्येकं मेघस्य कृते वर्णं पूरयितुं बहु समयः अपेक्षते ।
01:33 एतं कर्तुं सरला रीतिरित्युक्ते, तेषां ग्रूप्-करणम् ।
01:38 इतोऽपि द्वयोः मेघयोः कृते वयं धूम्रवर्णस्य पूरणं कुर्मः, किमर्थम् इति चेत् ते वृष्टिकारकाः मेघाः ।
01:46 प्रथमतः तेषामेकं समूहं (ग्रूप्) कुर्मः ।
01:48 'Shift' कीलकं नोदयित्वा तथा प्रथमं विद्यमानस्य मेघस्योपरि क्लिक्-कृत्वा, तदनन्तरं द्वितीयस्य मेघस्योपरि क्लिक् कुर्वन्तु ।
01:54 ‘काण्टेक्स्ट् मेन्यू’ निमित्तं रैट्-क्लिक् कृत्वा Group क्लिक् कुर्वन्तु ।
01:58 मेघाः समूहे संयोजिताः ।
02:00 पुनः ‘काण्टेक्स्ट् मेन्यू’ निमित्तं रैट्-क्लिक् कृत्वा ‘एरिया’ उपरि क्लिक् कुर्वन्तु ।
02:07 “Area” इति डैलाग्-बाक्स् मध्ये, 'Area' ट्याब् क्लिक् कुर्वन्तु । Fill इत्यस्य विकल्पस्य अधः, Color चित्वा, अनन्तरं स्क्रोल्-डौन् कृत्वा तथा “Gray 70%” इति वर्णस्योपरि क्लिक् कुर्वन्तु ।
02:23 'OK' नुदन्तु ।
02:25 एवमेव वयं त्रिभुजं “brown 3” वर्णेन पूरयामः ।
02:37 इदानीम्, एवमेव वयं पुनः आयतं “brown 4” इत्येतेन पूरयामः ।
02:48 एवं रीत्या, सूर्याय हरितवर्णं पूरयामः ।
02:58 अग्रे, वयम् अपरस्य त्रिभुजस्य कृते तथा जलस्य प्रतिनिधिभूतायाः वक्राकृतेः “turquoise 1” इति वर्णं पूरयामः ।
03:05 तेषां कृते समानरीत्या प्रारूपणस्य (formatting) आवश्यकता अस्ति इत्यतः, यदि ते समूहे न सन्ति चेत् तेषां समूहमेकं कुर्मः ।
03:12 तेषां कृते वर्णं पूरयितुं पूर्वतनक्रमान् एव अनुसरामः - रैट् - क्लिक्, 'Area -> Area ट्याब् -> Fill -> color -> turquoise 1'
03:27 “water” इति आब्जेक्ट्-मध्ये त्रिभुजस्य तथा वक्राकृतेः बाह्यरेखाः दृश्यमानाः सन्ति इति अवलोकयन्तु ।
03:35 वयं एताः बाह्यरेखान् अगोचरान् कुर्मः । एतेन चित्रम् इतोऽपि सुष्ठु दृश्यते ।
03:41 आब्जेक्ट् चयनं कृत्वा, ‘काण्टेक्स्ट् मेन्यू’ द्रष्टुं क्लिक् कृत्वा तथा 'Line' उपरि नुदन्तु ।
03:48 'Line' इति डैलाग्-बाक्स् उद्घाटितं भवति ।
03:52 'Line' ट्याब् नुदन्तु ।
03:55 'Line properties' मध्ये, Styleड्राप्-डौन् बाक्स् उपरि क्लिक् कुर्वन्तु तथा Invisible इति चयनं कुर्वन्तु ।
04:03 'OK' क्लिक् कुर्वन्तु ।
04:05 'water' आब्जेक्ट् बाह्यरेखा निवृत्ता भवति ।
04:09 अधुना, वयं वृक्षेभ्यः वर्णं पूरयामः ।
04:14 वामभागस्य अन्तिमं वृक्षं चिनुमः ।
04:16 ‘काण्टेक्स्ट् मेन्यू’ द्रष्टुं रैट्-क्लिक् कुर्वन्तु तथा Enter Group उपरि क्लिक् कुर्वन्तु ।
04:23 अधुना, वयं वृक्षम् एडिट् कुर्मः ।
04:26 वामभागे विद्यमानानि पर्णानि चिन्वन्तु ।
04:30 ‘काण्टेक्स्ट् मेन्यू’ निमित्तं रैट्-क्लिक् कृत्वा तथा 'Area' उपरि क्लिक् कुर्वन्तु ।
04:36 Areaइति डैलाग्-बाक्स् मध्ये,
04:38 Areaट्याब् नुदन्तु ।
04:40 'Fill' अधः, 'Color' चिन्वन्तु ।
04:44 स्क्रोल्-डौवन् कृत्वा “Green 5” उपरि क्लिक् कुर्वन्तु ।
04:47 OKनुदन्तु ।
04:49 दक्षिणभागे विद्यमानानां पर्णानानां कृतेऽपि एवं रीत्या कुर्मः ।
04:57 अनन्तरं, वृक्षस्य काण्डाय वर्णं पूरयामः ।
05:05 Y-आकृतेः arrow चित्वा, ‘काण्टेक्स्ट् मेन्यू’ कृते रैट्-क्लिक् कृत्वा 'Area' उपरि नुदन्तु ।
05:08 'Area'डैलाग्-बाक्स् मध्ये पूर्वं कृतं सर्वं चयनं तथैव वर्तते इति अवलोकयन्तु ।
05:15 अतः, वयं Color चयनं कुर्मः ।
05:18 स्क्रोल्-डौन् कृत्वा “Brown 1” उपरि क्लिक् कुर्वन्तु ।
05:21 'OK' क्लिक् कुर्वन्तु ।
05:23 वयं वृक्षे वर्णं पूरितवन्तः !
05:26 समूहात् बहिरागन्तुं, रैट्-क्लिक् कृत्वा Exit Group चिन्वन्तु ।
05:31 अन्येभ्यः वृक्षेभ्यः वयम् एवमेव वर्णं पूरयितुं शक्नुमः ।
05:36 वयं एवमपि कर्तुं प्रभवाम : अन्यान् वृक्षान् डिलिट् कृत्वा, वर्णपूरितं वृक्षं ‘कापि-पेस्ट्’ कृत्वा तथा तम् अपेक्षितस्थलं प्रति नेतुं शक्यते ।
05:44 एषा इतोऽपि सरला रीतिः खलु ?
05:49 अधुना, वयं सूर्यस्य पार्श्वे विद्यमानाय मेघाय छायां योजयामः ।
05:55 तेषां चयनं कर्तुं, Drawingटूल्-बार् तः Select क्लिक् कुर्वन्तु तथा तेषां समूहं कुर्वन्तु ।
06:03 श्वेतवर्णीयमेघस्य समूहं चित्वा, तथा ‘काण्टेक्स्ट् मेन्यू’ निमित्तं रैट्-क्लिक् कृत्वा 'Area' क्लिक् कुर्वन्तु ।
06:10 “Area” डैलाग् बाक्स् मध्ये, Shadow ट्याब् क्लिक् कुर्वन्तु ।
06:15 Properties मध्ये Use Shadow बाक्स् चेक् कुर्वन्तु ।
06:20 अन्यानि ‘फील्ड्स्’ अधुना क्रियाशीलानि भवन्ति ।
06:24 Positionमध्ये bottom-right corner विकल्पस्य उपरि क्लिक् कुर्वन्तु ।
06:29 Position इत्येतत् छाया कुत्र प्रदर्शनीया इति सूचयति ।
06:33 Color फील्ड् मध्ये Gray इति चिन्वन्तु ।
06:36 'OK' इत्यस्य उपरि क्लिक् कुर्वन्तु ।
06:39 प्रत्येकं मेघस्य पृष्ठभागे एकैका छाया दृश्यते ।
06:44 अधुना, वयम् एतान् मेघान् इतोऽपि वास्तविकानिव कुर्मः ।
06:48 धूम्रवर्णयुक्तानां मेघानां समूहं चित्वा तथा काण्टेक्स्ट् मेनु द्रष्टुं रैट्-क्लिक् कृत्वा Area चिन्वन्तु ।
06:55 “Area” इति डैलाग्-बाक्स् मध्ये, “Area” ट्याब् इति चिन्वन्तु । Fill मध्ये, Gradient उपरि नुदन्तु ।
07:02 अधुना Gradient1 इति चिन्वन्तु ।
07:04 OK क्लिक् कुर्वन्तु ।
07:06 अधुना मेघाय इतोऽपि वास्तविकः धूम्रवर्णः आगतः !
07:11 आकारस्यैकस्य चयनं कुर्वन्तु - उदा : मेघस्य एकः समूहः । ‘कान्टेक्स्ट् मेन्यू’ निमित्तं रैट्-क्लिक् कृत्वा 'Area' उपरि क्लिक् कुर्वन्तु ।
07:19 Area ट्याब् विकल्पाः दृश्यन्ते ।
07:23 Fill इत्येतस्य अन्तः, भवन्तः चतुरः विकल्पान् पश्यन्ति -
07:27 Colors, Gradient, Hatching तथा Bitmap
07:32 एतेभ्यः प्रत्येकं विकल्पेभ्यः सम्बद्धं ट्याब्, डैलाग् - बाक्स् मध्ये अस्ति इति अवलोकयन्तु ।
07:39 एतानि ट्याब्स् अस्मभ्यं नूतनशैलीनां रचनार्थं तथा रक्षणार्थं अनुमितिं यच्छन्ति ।
07:43 Colors ट्याब् उपरि क्लिक् कुर्मः ।
07:46 Properties मध्ये, वयं Color ड्राप्-डौन्-तः Red 3 इति चिनुमः ।
07:53 तदनन्तरम्, RGB चित्वा प्रदर्शितरीत्या 'R', 'G' तथा 'B' 'इत्येतेषां कृते व्याल्यू यच्छन्तु ।
08:01 'R', 'G'तथा 'B' इत्येतानि - कस्मिंश्चित् वर्णे विद्यमानः रक्तवर्णः, हरितवर्णः, नीलवर्णः - इत्येतेषाम् अनुपातान् सूचयति ।
08:08 वयं 'R' कृते 200, 'G' कृते 100 तथा 'B' कृते 50 इति उल्लिखामः ।
08:16 अत्र वयं धूम्रवर्णं परिवर्तयितुं रक्तः, हरितः तथा नीलः इत्येषाम् अनुपातं परिवर्तयामः ।
08:22 RGB फील्ड् उपरि preview बाक्स् पश्यन्तु ।
08:28 प्रथमम् प्रिव्यू बाक्स्, मूलं वर्णं प्रदर्शयति ।
08:31 Color फील्ड् अनन्तरं विद्यमानं द्वितीयं प्रिव्यू-बाक्स् , अस्माभिः कृतानि परिवर्तनानि प्रदर्शयति ।
08:37 Name फील्ड् मध्ये, वयं एतस्य किञ्चन नाम टङ्कयामः ।
08:41 “New red” इति नाम लिखामः ।
08:44 Add बटन् उपरि क्लिक् कुर्वन्तु ।
08:46 नूतनः वर्णः पट्टिकायां संयोजितः ।
08:49 OK क्लिक् कुर्वन्तु ।
08:51 इदानीं वयं नूतनं वर्णं सज्जीकृतवन्तः !
08:54 Ctrl तथा Z इत्येतौ नुदित्वा, एतत् कार्यम् undo कुर्मः ।
08:59 मेघस्य वर्णः पुनः श्वेतवर्णं प्रत्यागच्छति ।
09:03 Area डैलाग्-बाक्स् मध्ये स्थितानि ट्याब्स् उपयुज्य, भवन्तः भवतां स्वकीयानि ग्रेडियण्ट्स् तथा ह्याचिंग्स् अपि सज्जीकर्तुं शक्नुवन्ति ।
09:10 Gradient इत्येताः एकस्य वर्णस्य कृते अपरस्य वर्णस्य मिश्रणेन जाताः छायाः ।
09:14 उदाहरणार्थम्, नीलवर्णेन हरितवर्णं प्रति परिवर्तनस्य वर्णस्य छाया (कलर् शेड्)।
09:18 Hatching इत्येतत्, काञ्चन सूक्ष्म-समानन्तररेखाः उपयुज्य चित्रे रचितः विन्यासः अथवा छाया ।
09:24 अधुना, वयं Draw मध्ये bitmap इत्येतत् कथं ‘इम्पोर्ट्’ करणीयम् इतीदं पठामः ।
09:28 Main मेनु-तः, Format चित्वा Area क्लिक् कुर्वन्तु ।
09:33 पूर्वं दृष्टरीत्या, Area डैलाग्-बाक्स् उद्घाट्यते, Bitmaps ट्याब् उपरि क्लिक् कुर्वन्तु ।
09:39 Import बटन् उपरि क्लिक् कुर्वन्तु ।
09:42 Import डैलाग्-बाक्स् गोचरीभवति ।
09:45 ब्रौस् कृत्वा (संशोध्य), किञ्चन बिट्-म्याप् चिन्वन्तु ।
09:48 Open बटन् उपरि क्लिक् कुर्वन्तु ।
09:50 Draw, भवद्भ्यः Bitmap कृते किञ्चन नाम एण्टर् कर्तुं सूचयति ।
09:55 वयं “NewBitmap” इति नाम दद्मः ।
09:58 OK क्लिक् कुर्वन्तु ।
10:00 अधुना Bitmap, ड्राप्-डौन् पट्टिकायां परिदृश्यते ।
10:04 बहिः आगन्तुं OK क्लिक् कुर्वन्तु ।
10:07 मेघान् अधुना लक्षयन्तु ।
10:10 Ctrl , Z इत्येतौ नोदयित्वा एतत् undo कुर्मः ।
10:14 “water” आब्जेक्ट् पूरयितुं, वयं bitmap उपयोगं कुर्मः ।
10:19 अधुना वयं, जलम् इतोऽपि वास्तवं यथा दृश्येत् तथा कुर्मः ।
10:22 एतत् कर्तुं, समूहभूतं त्रिभुजं वक्राकृतिं च चिन्वन्तु ।
10:26 ‘काण्टेक्स्ट् मेनु’ निमित्तं रैट्-क्लिक् कृत्वा Area चिन्वन्तु ।
10:31 Area डैलाग्-बाक्स् मध्ये, Bitmaps ट्याब् क्लिक् कुर्वन्तु ।
10:36 बिट्-म्याप् पट्टिकां स्क्रोल्-डौन् कृत्वा Water चिन्वन्तु ।
10:41 OK क्लिक् कुर्वन्तु ।
10:43 जलम् इदानीम् इतोऽपि वास्तविकम् इव दृश्यते !
10:46 एतत् अनुशिक्षणम् अत्रैव स्थगयित्वा तथा एतत् गृहकार्यं कुर्वन्तु ।
10:50 वस्तूनि रचयन्तु तथा तान् वर्णः, ग्रेडियण्ट्स्, ह्याचिंग्स् तथा बिट्-म्याप्स् इत्येतैः पूरयन्तु ।
10:57 Transparencyट्याब् उपयुज्य वस्तूनाम् उपरि एतस्य परिणामान् पश्यन्तु ।
11:02 अधुना मेघस्य वर्णं पूरयामः । एतत् सरलं वर्तते ।
11:06 वयं सम्पूर्णस्य पुटस्य कृते केवलं पृष्ठभूमिं (ब्याक्ग्रौड्) स्थापयामः ।
11:10 किमपि आब्जेक्ट् न चितं इति द्रढयितुं कर्सर् पुटस्य उपरि क्लिक् कुर्वन्तु ।
11:15 ‘कान्टेक्स्ट् मेन्यू’ निमित्तं रैट्-क्लिक् कुर्वन्तु ।
11:21 Page setup डैलाग्-बाक्स् गोचरं भवति ।
11:25 Background ट्याब् क्लिक् कृत्वा Fill इत्यस्य अधः, Color चिन्वन्तु ।
11:30 वयं स्क्रोल्-डौन् कुर्मः तथा “Blue 8” वर्णं चिनुमः ।
11:34 OK क्लिक् कुर्वन्तु ।
11:36 एतां पृष्ठभूमिं(background) सेट्टिङ्ग् सर्वेषु पुटेषु अपि अन्वितं भवेत् किम् ? इति Draw भवतां सविधे पृच्छति ।
11:41 NO इत्येतत् क्लिक् कुर्वन्तु ।
11:44 अधुना केवलं चितस्य पुटस्य पृष्ठभूमौ वर्णः वर्तते ।
11:48 भवद्भिः आब्जेक्ट्स् कृते वर्णाः अपूरिताः चेदपि चयनं कर्तुं शक्नुवन्ति ।
11:52 वयं पर्वतं चिनुमः ।
11:55 ‘कान्टेक्स्ट् मेन्यू’ निमित्तम् रैट्-क्लिक् कृत्वाArea चिन्वन्तु ।
11:59 Area डैलाग्-बाक्स् मध्ये , Area ट्याब् चिन्वन्तु ।
12:04 Fill इत्यस्य अधः, None इति चिन्वन्तु ।
12:06 'OK' क्लिक् कुर्वन्तु ।
12:08 आब्जेक्ट् कृते कश्चिदपि वर्णः न पूरितः तथा च पृष्ठभूमौ उपरि केवला बाह्यरेखा दृश्यते ।
12:15 एतत् कार्यं undo कर्तुम्, Ctrl+Z' नुदन्तु ।
12:20 एतान् सर्वान् विकल्पान् भवन्तः Format मेनु-तः अपि स्वीकर्तुं शक्नुवन्ति ।
12:25 प्रतिवारं भवन्तः परिवर्तनं कुर्वन्ति चेदपि Ctrl+S युगपत् एव नोदयित्वा भवताम् सञ्चिका सेव् करणीया इति स्मरन्तु ।
12:34 पर्यायरूपेण, Automatic Save विकल्पः सेट् कर्तुं शक्यते । एतेन परिवर्तनानि सहजरूपेण सेव् भवन्ति ।
12:41 अत्र भवद्भ्यः अपरं गृहकार्यं वर्तते ।
12:43 भवन्तः रचितस्य चित्रस्य कृते वर्णं पूरयन्तु ।
12:45 पुटस्य कृते पृष्ठभूमिवर्णं योजयन्तु ।
12:47 केषाञ्चन नूतनवर्णानां निर्माणं कुर्वन्तु ।
12:50 एवंरीत्या, वयं LibreOffice Draw विषयकस्य अस्य अनुशिक्षणस्य अन्तिमसोपानं प्रति आगतवन्तः ।
12:54 अस्मिन् अनुशिक्षणे, वयं * आबेक्ट्स् वर्णाः, ग्रेडियण्ट्स्, ह्याचिंग् तथा च बीट्-म्याप्स् इत्येतैः कथं पूरणीयम्
13:03 * पृष्ठभूमेः (background) सज्जीकरणं तथा
13:05 * नूतनानि स्टैल् रचनाः कथं उपयोक्तव्याः इत्यादीनि पठितवन्तः ।
13:07 अस्यां पर्चन्यां प्राप्यमाणं चलच्चित्रं पश्यन्तु । http://spoken-tutorial.org/
13:10 एतत् ‘स्पोकन् ट्युटोरियल्’ परियोजनायाः सारांशं बोधयति ।
13:13 अकस्मात् भवताम् समीपे समीचीनं ब्याण्ड्-विड्त् नास्ति चेत् , भवन्तः डौन्-लोड् कृत्वा द्रष्टुं शक्नुवन्ति ।
13:18 स्पोकन् ट्युटोरियल् प्राजेक्ट्-गणः :
13:20 स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यागारान् चालयति ।
13:23 आन्-लैन् परीक्षां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रं ददाति ।
13:27 अधिकविवरणार्थं, contact@spoken-tutorial.org प्रति लिखन्तु ।
13:33 ’स्पोकन् ट्युटोरियल्’ परियोजना, ‘टाक् टु ए टीचर्’ परियोजनायाः कश्चन भागः ।
13:38 एतत् भारतसर्वकारस्य MHRD विभागस्य ICT माध्यमद्वारा राष्ट्रियसाक्षरतामिशन्-पक्षतः समर्थितं वर्तते ।
13:45 अस्याः संस्थायाः विषये अधिकाः विचाराः अस्यां पर्चन्याम् उपलभ्यते - http://spoken-tutorial.org/.
13:56 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः

Contributors and Content Editors

NaveenBhat, Udayana