LibreOffice-Suite-Draw/C2/Create-simple-drawings/Sanskrit

From Script | Spoken-Tutorial
Revision as of 13:40, 21 March 2020 by Udayana (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 लिबेर्-आफिस्-ड्रा मध्ये Create Simple Drawings इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:08 अस्मिन् अनुशि़क्षणे भवन्तः रेखा, बाणः तथा आयतवत् मूलाः आकाराः ; ज्यामितीयाः आकाराः, चिह्नानि, नक्षत्राणि, ब्यानर्स् इत्येतानि उपयुज्य सरलचित्राणां लेखनं पठिष्यन्ति ।
00:22 भवन्तः वस्तूनां चयनं, स्थलपरिवर्तनं, निष्कासनं, ‘रूलर्’ उपयुज्य सीमायाः ज्ञानं तथा ‘’अलैन्"टूल्-बार् उपयुज्य वस्तूनां स्थानपरिवर्तनम् इत्यादीनि पठिष्यन्ति ।
00:33 वयम् उबुण्टु लिनक्स् १०.०४ अपि लिबर्-आफीस् ३.३.४ अपि उपयुञ्ज्महे ।
00:42 ‘आब्जेक्ट्’ अथवा वस्तुनः विवरणं कुर्मः ।
00:44 ‘ड्रा’ मध्ये रेखाः चतुरस्राणि, बाणाः, गति-मानचित्रम् इत्याद्याकाराः अथवा आकाराणां समूहः ‘आब्जेक्ट्’ इति कथ्यते।
00:55 अस्मिन् स्लैड् मध्ये प्रदर्शिताः सर्वेऽपि आकाराः ‘आब्जेक्ट्’ सन्ति ।
00:59 Desktop उपरि विद्यमानं ”WaterCycle” इति सञ्चिकाम् उद्घाटयामः।
01:04 आब्जेक्ट् कथं चयनं करणीयम् इति पश्यामः ।
01:08 मेघस्य चयनं कर्तव्यम् चेत् तस्य उपरि क्लिक् कुर्वन्तु ।
01:13 क्लिक्-करणानन्तरम् अष्ट ‘ह्याण्डल्स्’ दृश्यन्ते ।
01:16 चितवस्तुनः अथवा आब्जेक्ट् पार्श्वे स्थितानां लघु नील-हरितवर्णयुक्तं चतुरस्रं ह्याण्डल् इति कथ्यते ।
01:22 ह्याण्डल्स् तथा तेषाम् उपयोगस्य विषये अधिकां सूचनां अग्रिमेषु अनुशिक्षणेषु पश्यामः ।
01:27 अस्माकं चित्रे इतोऽपि वस्तूनि योजयामः ।
01:30 भूमेः प्रतिनिधित्वेन आयतमेकम् योजयामः ।
01:34 ‘ड्रायिङ्ग् टूल्-बार्’ मध्ये ‘basic shapes’ उपरि क्लिक् कृत्वा, तदनन्तरं ‘rectangle’ उपरि क्लिक् कुर्वन्तु।
01:39 अधुना कर्सर् “page” उपरि नयन्तु । भवन्तः सङ्कलनस्य चिह्नम् किञ्चन बृहत् ‘I’ अक्षरेण सह द्रक्ष्यन्ति ।
01:45 मौस् वामबटन् नोदयित्वा आयताकारस्य आगमनार्थम् आकर्षन्तु ।
01:50 अधुना मौस् बटन् त्यजन्तु ।
01:52 इतः परं वयं भूमेः मेघं प्रति जलस्य बाष्पीभवनक्रियां सूचयितुं केषाञ्चन बाणानां चित्रणं कुर्मः ।
02:00 रेखाम् आक्रष्टुं “drawing toolbar” मध्ये “line” इति नुदन्तु ।
02:04 कर्सर् “page” उपरि नयन्तु ।
02:06 भवन्तः सङ्कलनचिह्नेन साकम् काञ्चित् वक्रां संयोजकरेखां पश्यन्ति ।
02:10 मौस् वामबटन् नोदयित्वा उपरिष्टात् अधःपर्यन्तम् आकर्षन्तु ।
02:15 भवन्तः काञ्चित् समरेखाम् आकर्षन्तु ।
02:17 एका रेखा ह्याण्डल्-द्वययुक्ता भवति ।
02:20 अधुना वयं बाणस्य अग्रं रेखया सह योजयामः ।
02:23 रेखायाः चयनं कुर्मः ।
02:25 मौस् बटन् नोदयित्वा काण्टेक्स्ट् मेनु प्रति गत्वा “line” नुदन्तु ।
02:30 “line” इत्याख्यं डयलाग् बाक्स् भवन्तः पश्यन्ति । अधुना “arrow styles” इति विकल्पस्य उपरि क्लिक् कृत्वा “Arrow Style” इत्यस्य ड्राप्-डौन् उपरि क्लिक् कुर्वन्तु ।
02:39 एतत् लभ्यमानं “Arrow Styles” अथवा बाणानां शैलीं प्रदर्शयति ।
02:43 ”Arrow” इति नामङ्कितस्य प्रथमविकल्पस्य चयनं कुर्वन्तु ।
02:46 ”OK” उपरि क्लिक् कुर्वन्तु ।
02:48 चितस्य एतस्य बाणस्य अग्रं रेखायाः उभयपार्श्वे योजनं करोति ।
02:52 किन्तु अस्मभ्यं रेखायाः एकस्मिन् भागे एव बाणस्य शिरः आवश्यकं भवति ।
02:57 अतः वयम् आदौ Ctrl तथा Z इत्येतौ युगपत् नोदयित्वा कृतं कार्यं निवर्तयामः ।
03:02 काण्टेक्स्ट् मेन्यु - इत्येतत् द्रष्टुं दक्षिणबटन् नुदन्तु ।
03:05 इदानीं “Line” इति विकल्पस्य उपरि क्लिक् कुर्वन्तु ।
03:09 ”Arrow styles” इति विकल्पस्य अधः “Style” इति विकल्पः दृश्यते ।
03:14 भवन्तः रेखायाः उभयाग्रेषु ड्राप् डौन् बाक्स् पश्यन्ति ।
03:19 वामपार्श्वस्य ड्राप् डौन् बाक्स् मध्ये “Arrow” इत्येतत् चिन्वन्तु ।
03:23 दक्षिणपार्श्वस्य ड्राप् डौन् बाक्स् मध्ये “none” इति विकल्पं चिन्वन्तु ।
03:26 ”OK” उपरि क्लिक् कु्र्वन्तु ।
03:28 बाणस्य शिरः रेखायाः एकस्मिन् अग्रे योजितम् इति अवधारयन्तु ।
03:33 वयं बाणं “Lines And Arrows” इति विकल्पात् अपि चित्रयितुं शक्नुमः ।
03:38 इदानीम् अस्य बाणस्य पार्श्वे बाणद्वयं चित्रयामः ।
03:42 ड्रायिंग् टूल्-बार् मध्ये “Lines and Arrows” इत्यस्य उपरि क्लिक् कृत्वा “Line starts with Arrow” इति चिन्वन्तु ।
03:48 कर्सर् “Draw” इति पुटस्य उपरि नयन्तु ।
03:51 मौस् वामबटन् नोदयित्वा उपरिष्टात् अधःपर्यन्तम् आकर्षन्तु ।
03:56 बाणम् एवं रीत्या रचयितुं सरलं खलु?
04:00 एतदृशरीत्या अपरं बाणं रचयामः ।
04:06 एतद् अनुशि़क्षणं स्थगयित्वा अस्य अभ्यासं कुर्वन्तु ।
04:09 ”MyWaterCycle” इति सञ्चिकायां रेखामेकां रचयन्तु ।
04:13 रेखां चित्वा “Line” इति डैलाग्-बाक्स् उद्घाटयन्तु ।
04:16 ”Line Properties” इति विकल्पे, रेखानां “style, color, width तथा “transparency” इत्येतानि परिवर्तयन्तु ।
04:24 ”Arrow Styles” इति विकल्पे बाणस्य शैलीं परिवर्तयन्तु ।
04:28 अग्रे, वयं नक्षत्रमेकं चित्रयामः ।
04:31 ड्रायिङ्ग् टूल्-बार् प्रति गत्वा “Stars” इति लिखितं लघु कृष्णत्रिकोणं चिन्वन्तु ।
04:37 वयं “5 Point Star” इत्येतस्य चयनं कुर्मः ।
04:41 अधुना कर्सर् मेघस्य पार्श्वे स्थापयन्तु ।
04:44 मौस् -इत्यस्य वामबटन् नोदयित्वा दक्षिणपार्श्वे आकर्षयन्तु ।
04:48 भवन्तः नक्षत्रं चित्रितवन्तः ।
04:50 इदानीम् आब्जेक्ट् अथवा वस्तूनां स्थलपरिवर्तनं तथा अपमार्जनम्(Delete) इत्येतयोः विषये पठामः ।
04:54 वस्तुनः स्थलपरिवर्तनं कर्तुं वस्तु चित्वा अपेक्षितस्थलं प्रति आकर्षन्तु ।
04:59 अधुना मौस् बटन् त्यजन्तु ।
05:02 वस्तु चालयितुं कीबोर्ड्-अन्तर्गत- "उपरि", “अधः", “दक्षिण"तथा "वाम"कीलकानि उपयोक्तुं शक्यन्ते ।
05:08 वस्तूनि निर्वोढुं सरलं खलु ।
05:11 वस्तु प्रच्छन्नं कर्तुं तत् चित्वा “Delete” बटन् उपरि क्लिक् कुर्वन्तु ।
05:17 वस्तु मार्जितम् । सरलं वर्तते खलु?
05:20 इदानीं वयं “Ruler” तथा “Align” इति केचन मूलभूतविकल्पानां विषये पठिष्यामः ।
05:26 ”Ruler” इत्येतत् पत्रस्य पार्श्वभागं समीकर्तुं तथा परिमाणस्य प्रमाणम् अथवा unit परिवर्तयितुम् उपयुञ्ज्मः ।
05:31 ”Align” टूल्-बार् इति वस्तूनि स्थापयितुं उपयुज्यते ।
05:35 ”Ruler” इति Draw इत्यस्य कार्यक्षेत्रस्य उपरिभागे तथा वामभागे दृश्यते ।
05:40 परिमाणस्य प्रमाणं विनिर्दिष्टुम् “Ruler” इत्यस्य उपरि मौस् दक्षिणबटन् नुदन्तु ।
05:45 भवन्तः परिमाण-प्रमाणस्य विविधनामानि पश्यन्ति ।
05:48 ”Centimeter” इत्येतत् चिन्वन्तु ।
05:50 उपरिस्थः रूलर् प्रति परिमाणप्रमाणं सेण्टिमीटर् इति चितं वर्तते ।
05:55 तथैव वामभागस्य रूलर् प्रति अपि परिमाण-प्रमाणस्य चयनं कुर्मः ।
06:00 वस्तूनां परिमाणस्य अनुगुणं लिखितं वा इति द्रढीकर्तुम् उभय-रूलर् प्रति एकमेव परिमाण-प्रमाणं चिन्वन्तु ।
06:08 सक्रियं रूलर् श्वेतवर्णे अस्ति इति लक्षयन्तु ।
06:12 रूलर् इत्यस्य अग्रभागः “Page Setup” विकल्पस्य द्वारा विनिर्दिष्टपत्रस्य प्रान्तं सूचयति ।
06:19 रूलर् कथं वस्तुनः परिमाणं सूचयति इति पश्यामः ।
06:23 मेघं चिन्वन्तु ।
06:25 रूलर् इत्यस्य उपरि लघुः आरम्भः तथा अन्तिमं चिह्नं लक्षितवन्तः किम् ?
06:29 एते मेघस्य कोणभागान् सूचयन्ति ।
06:32 भवद्भिः रूलर् मध्ये एतानि चिह्नानि चालितानि चेत् वस्तु अपि परिवर्तितं भवति इति लक्षयन्तु ।
06:38 रूलर् इति “page” इत्यस्य उपरितनवस्तुनः गात्रं दर्शयति ।
06:42 एतत् यत्किमपि वस्तु पुटस्य उपरि स्थापयितं अस्मान् सशक्तं करोति तथा च पत्रस्य सीमाम् अपि दर्शयति ।
06:49 अधुना अग्रिमः सहायकविषयः - “Align” टूल्-बार् इत्यस्य विषये ज्ञास्यामः।
06:53 “Align” टूल्-बार्, चितं वस्तु वाम-दक्षिण-उपरि-अधः नेतुम् उपयोक्तुं शक्यते ।
07:01 “Align” टूल्-बार् इत्येतस्य सक्रियतासम्पादनार्थं “Main Menu” प्रति गत्वा “View” उपरि क्लिक् कुर्वन्तु ।
07:07 ”View” इति चित्वा “Toolbars” इत्यत्र नुदन्तु ।
07:11 विविधाः टूल्-बार्-पट्टिकाः पश्यन्ति ।
07:13 ”Align” नुदन्तु ।
07:15 ”Align” टूल्-बार् प्रदर्शयिष्यति ।
07:18 विविधानि अलैन् विकल्पान् उपयुज्य वस्तूनि कथं योजनीयाः इति पश्यामः ।
07:24 मेघस्य चयनं कुर्मः ।
07:26 ”Align” टूल्-बार् मध्ये “Left” इति चिन्वन्तु ।
07:29 मेघः वामभागे योजितः ।
07:32 अधुना “Centered” तथा “Centre” इति विकल्पानां व्यत्यासं ज्ञास्यामः ।
07:38 वृत्तं “centre” इति विकल्पेन सह संयुज्य तदनन्तरं “Centered” विकल्पेन साकं योजयामः ।
07:43 आदौ वृत्तं दक्षिणभागे योजयामः ।
07:47 अधुना वृत्तं चित्वा “Align” टूल्-बार् मध्ये “Right” इति चिन्वन्तु ।
07:52 इदानीं “Align” टूल्-बार् मध्ये “Centre” इति चिन्वन्तु ।
07:56 अधुना वृत्तं मध्यभागे संयोजितम् ।
07:59 ”Centre” विकल्पः वस्तु पत्रस्य उपरितनकोणस्य तथा अधस्तनकोणस्य मध्यबिन्दोः कृते स्थापयति ।
08:06 एषः विकल्पः वस्तुनः स्थानं पत्रस्य विस्तारानुगुणं न परिवर्त्यते ।
08:10 इदानीं “Align” टूल्-बार् मध्ये “Centered"चिन्वन्तु ।
08:15 अधुना वृत्तं पत्रस्य मध्यभागे स्थापितम् ।
08:18 ”Centered” विकल्पेन वृत्तं पत्रस्य मध्यभागे समीचीनतया संयोजितम् ।
08:23 एषः विकल्पः वस्तु पत्रस्य उपरितनस्य अधोभागस्य च अन्तिमसीमायाः अनुगुणं पत्रस्य विस्तारानुगुणं स्थापयति ।
08:33 अधुना, वयं वस्तूनि पूर्वमिव तेषां समीचीनं स्थानं प्रति आरोपयामः ।
08:40 सञ्चिकायाः पिधानात् पूर्वं “save” कर्तुं स्मरन्तु ।
08:43 भवते अन्यः अभ्यासः अत्र अस्ति ।
08:46 ”MyWaterCycle” सञ्चिकायाम् अपरं पत्रं स्थापयन्तु ।
08:50 एतत् आकारद्वयं चित्रयन्तु ।
08:53 की-बोर्ड् दिक्सूचक-की द्वारा तेषां चालनं कुर्वन्तु ।
08:55 भवद्भिः रचितं कञ्चिदपि वस्तु चित्वा मार्जयन्तु ।
08:59 रूलर् उपयुज्य केषाञ्चन वस्तूनां मापनं कुर्वन्तु ।
09:04 तदनन्तरं “Align” टूल्-बार् उपयुज्य वस्तूनि पत्रस्य मध्ये योजयन्तु ।
09:11 एतेन वयं लिब्रे-आफीस् ड्रा-इत्यस्य अनुशि़क्षणस्य अन्त्यं प्रति आगतवन्तः ।
09:15 अस्मिन् अनुशि़क्षणे भवन्तः रेखा, बाणः, आयतः तथा च मूलाः आकाराः, ज्यामितीयाकाराः, चिह्नानि, नक्षत्राणि, ब्यानर्स् च इत्येतानि उपयुज्य सरलचित्राणां लेखनकार्यं पठितवन्तः ।
09:29 भवन्तः वस्तूनि चयनं कर्तुं निष्कासयितुं च तथा "रूलर्" “align” टूल्-बार् उपयुज्य वस्तूनि संयोजयितुं पठितवन्तः ।
09:37 अस्यां पर्चन्यं विद्यमानं वीडियो पश्यन्तु : http://spoken-tutorial.org/What_is_a_Spoken_Tutorial
09:41 एतत् स्पोकन् ट्युटोरियल् योजनायाः विवरणं करोति ।
09:44 भवतां समीपे उत्तमं ब्याण्ड्-विड्त् नास्ति चेत् वीडियो डौन्लोड् कृत्वा पश्यन्तु ।
09:48 स्फोकन् ट्युटोरियल् गणः स्पोकन् ट्युटोरियल्स् उपयुज्य कार्याशालाः चालयति ।
09:54 * तथा च आन्लैन् परीक्षायां उत्तीर्णेभ्यः प्रमाणपत्रं ददाति ।
09:58 अधिका सूचनाय कृपया एतत् पर्चनीं प्रति लिखन्तु contact@spoken-tutorial.org
10:04 “स्पोकन् ट्युटोरियल्”प्रकल्पः "टाक् टु ए टीचर्"इति प्रकल्पस्य कश्चन भागः वर्तते ।
10:09 एतत् ICT, MHRD द्वारा भारतसर्वकारस्य राष्ट्रियसाक्षरतामिशन् - एतस्य आधारं प्राप्तवती वर्तते ।
10:17 अस्मिन् मिशन् अधिकृत्य अधिकाः सूचनाः अधोभागे निर्दिष्टः पर्चन्यां लभ्यते ।[1]
10:27 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टनम् । धन्यवादः ।

Contributors and Content Editors

NaveenBhat, Udayana