LibreOffice-Suite-Draw/C2/Common-editing-and-print-functions/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:48, 4 August 2020 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 LibreOffice Draw इत्यत्र Common Editing and Printing Functions इत्याख्ये अनुशिक्षणे भवतां स्वागतम् ।
00:08 अस्मिन् अनुशिक्षणे, भवन्तः :
00:10 * 'Draw' पत्रे मार्जिन सेट् करणम्
00:13 * पत्रसङ्ख्या, दिनाङ्कः तथा समयान् योजयितुम्
00:16 * कार्याणां 'Undo' तथा 'Redo' करणम्
00:18 * 'page' (पुटस्य) rename-करणं तथा
00:20 * पत्रस्य मुद्रणं पठिष्यन्ति ।
00:22 अत्र वयम् : उबण्टु लिनक्स् OS इत्यस्य 10.04 तमाम् आवृत्तिं तथा LibreOffice Suite इत्येतस्य 3.3.4 तमाम् आवृत्तिम् उपयुञ्ज्महे ।
00:33 WaterCycle सञ्चिकाम् उद्घाटयामः तथा WaterCycle रेखाचित्रान्तर्गतस्य पत्रस्य चयनं कुर्मः ।
00:40 एतस्य चित्रस्य वयं Page Margins सेट् कुर्मः ।
00:44 Page Margins इत्येते किमर्थम् आवश्यकाः भवन्ति?
00:46 Page Margins इत्येते पत्रे आब्जेक्ट्स्स्थापयितुम् अपेक्षितस्थलस्य निश्चयं कुर्वन्ति ।
00:53 उदाहरणार्थम्, अस्माभिः चित्रस्य मुद्रणं कृत्वा सञ्चिका कर्तव्या स्यात् ।
00:57 पत्रस्य पार्श्वेषु पर्याप्तरूपेण स्थलं वर्तते इति मार्जिन् निर्णयं करोति ।
01:01 एतेन वयं एतस्य मुद्रणं यदा कुर्मः तदा, चित्रस्य एकस्य भागस्य छेदनं वा अदृष्टत्वं वा न भवति ।
01:07 वयं Page Margins सेट् कुर्मः तथा अनन्तरं WaterCycle चित्रस्य मुद्रणं कुर्मः ।
01:11 एतत् चित्रं मुद्रयितुं अस्माभिः उपयुज्यमानस्य कागदस्य गात्रं स्ट्याण्डर्ड् गात्रं नास्ति इति भावयामः ।
01:18 एतत् 20 cms विस्तृतं तथा 20 cms दैर्घ्येण युक्तं वर्तते ।
01:23 एतस्य कृते 1.5 cms 'Bottom' मार्जिन् इत्यस्य आवश्यकता अस्ति ।
01:29 एतानि परिमाणानि सेट् कर्तुम् , Main विकल्पसूचीतः, Format चित्वा तथा Page इत्येतं क्लिक् कुर्वन्तु ।
01:35 Page Setup इति डैलाग्-बाक्स् दृश्यते ।
01:38 Page इति ट्याब् चिन्वन्तु ।
01:41 Width फील्ड् मध्ये मूल्यं “20” तथा Height फील्ड् मध्ये “20” इति प्रयच्छन्तु ।
01:47 Margins इत्यस्य अधः, Bottom इति फील्ड् मध्ये 1.5 इति निवेशयन्तु ।
01:54 दक्षिणभागे, भवन्तः Draw page इत्यस्य preview पश्यन्ति ।
01:58 अस्मिन् प्रीव्यू ‘ड्रा पेज्’ मध्ये कृतपरिवर्तनानि दर्शयन्ति ।
02:02 OK' इति क्लिक् कुर्वन्तु ।
02;04 चित्रं कथं दृश्यते ?
02:06 एतत् पत्रात् बहिः प्रसरितम् वा !
02:08 एतस्य अर्थः कः इत्युक्ते मुद्रणानन्तरं चित्रस्य कश्चन भागः अदृश्यः भवति ।
02:14 भवन्तः एतान् अधः स्थितान् दृढं कर्वन्तु ।
02:15 * चित्राणि सर्वदा मार्जिन् अन्तः भवन्ति ।
02:18 * भवन्तः चित्रस्य रचनात्परं, चित्रस्य कश्चिदपि भागः मार्जिन्-तः बहिः न गच्छति ।
02:23 अतः, भवन्तः चित्रस्य रचनात्पूर्वं पत्रस्य मार्जिन् - इत्येतेषां सेट् करणम् उत्तमः अभ्यासः ।
02:29 Main विकल्पसूचीतः पुनः Format इत्याख्यस्य चयनं कृत्वा तथा Page इत्यस्मिन् क्लिक् कुर्वन्तु ।
02:35 'Page Setup' डैलाग्-बाक्स् परिदृश्यते ।
02:38 'Page' ट्याब् उपरि नुदन्तु ।
02:40 'Format' ड्राप्-डौन् पट्टिकां क्लिक् कृत्वा तथा 'A4' इत्येतत् चिन्वन्तु ।
02:45 एतत् अस्माभिः सेट्-कृतं मूल-मार्जिन् वर्तते ।
02:48 'OK' क्लिक् कुर्वन्तु ।
02:52 चित्रम् अधुना मार्जिन् अन्तः स्थापितं वर्तते ।
02:55 'Page setup' इति डैलाग्-बाक्स् 'Draw page' तः भवन्तः अपि प्रवेष्टुं शक्नुवन्ति।
03:00 तत्, पत्रस्य उपरि रैट्-क्लिक् नुत्त्वा ‘कान्टेक्स्ट् मेनु’ इत्येतस्य उपयोगेन साध्यं भवति ।
03:05 'Cancel' इत्येतत् नुदामः तथा डैलाग्-बाक्स् तः बहिः आगच्छामः ।
03:09 अधुना, वयं पत्रसङ्ख्या दिनाङ्कः, समयः तथा लेखकस्य नामानि योजयामः ।
03:15 'WaterCycle' रेखाचित्रान्तर्गतं पत्रं चिनुमः तथा पत्रसङ्ख्यां योजयामः ।
03:21 'Main' मेनु प्रति तथा 'Insert' इत्येतं चित्वा, 'Fields' इत्याख्यं नुदन्तु ।
03:27 फील्ड् पट्टिका (list) उद्घाटिता भवति ।
03:31 'Draw' तः स्वयम् उत्पन्नानि मूल्यानि (values) अस्मिन् फील्ड् मध्ये भवन्ति ।
03:35 अस्माभिः केवलम् किञ्चन फील्ड् तथा 'Draw' तः उत्पादितं मूल्यं योजनीयम् ।
03:41 'Page number' क्लिक् कुर्वन्तु ।
03:43 'Draw page' इत्यस्य उपरि, सङ्ख्या '1' इत्यन्तर्गतं किञ्चन टेक्स्ट्-बाक्स् योजितं भवति ।
03:48 वयम् एतस्य टेक्स्ट्-बाक्स् गात्रं सम्यक् कुर्मः तथा एतं किञ्चित् लघु कुर्मः ।
03:55 अधुना, बाक्स् कर्षामः तथा एतत् पत्रस्य अधस्थनदक्षिणकोणे स्थापयामः ।
04:01 नम्बर् बाक्स् सरलरूपेण अपसारयितुं, नम्बर् बाक्स् चित्वा 'Shift' key नुदन्तु ।
04:07 अधुना, वयम् एतम् इतोऽपि अधः चालयामः ।
04:11 एतत् 'Draw' सञ्चिकायाः द्वितीयपृष्ठे, अग्रिमा सङ्ख्या योजिता वा इति परिशीलयामः ।
04:17 अत्र पृष्ठसङ्ख्या नास्ति !
04:20 अस्माभिः फील्ड् यत्र योजितं तस्मिन् पृष्ठे एव पृष्ठसङ्ख्या योजिता वर्तते !
04:26 अधुना वयं पृष्ठसङ्ख्यायाः फारम्याट् कथं परिवर्तनीयम् इति पठामः ।
04:30 'Main' विकल्पसूचिका तः , 'Format' नुदन्तु तथा 'Page' इति चिन्वन्तु ।
04:36 'Page Setup' इति डैलाग्-बाक्स् दृश्यते ।
04:39 'Page' इति ट्याब् नुदन्तु ।
04:41 'Layout settings' अधः , 'Format' इत्यस्य चयनं कुर्वन्तु ।
04:45 ड्राप्-डोन् पट्टिकातः, 'a, b, c' चिन्वन्तु ।
04:49 'OK' क्लिक् कुर्वन्तु ।
04:52 पृष्ठसङ्ख्या 1, 2, 3 तः a, b, c इति परिवर्तिता ।
04:58 एवमेव, भवन्तः एतत् किञ्चन अपि फार्म्याट् प्रति परिवर्तयितुं शक्नुवन्ति ।
05:01 अधुना वयं 'Date' तथा 'Time' फील्ड्स् योजयितुं पठामः ।
05:05 भवतां 'Draw' पृष्ठस्य उपरि 'Date' तथा 'Time' स्टाम्प् इत्येते अपि योजयितुं शक्यन्ते ।
05:10 एतं भवन्तः 'Insert ' तथा 'Fields' उपरि नोदनद्वारा साधयितुम् अर्हन्ति ।
05:14 प्रथमं तावत् , 'Date(fixed)' तथा 'Time(fixed)'
05:18 अपरश्च, 'Date(variable)' तथा 'Time(variable)'
05:23 'Date(fixed)' तथा 'Time(fixed)' विकल्पाः इदानीन्तनं दिनाङ्कं तथा समयं योजयन्ति ।
05:29 एतस्य दिनाङ्कस्य तथा समयस्य मौल्यानाम् अप्-डेट् न भवति ।
05:33 अन्यस्मिन् स्थले 'Date (variable)' तथा 'Time (variable)' विकल्पाः
05:37 भवद्भिः सञ्चिका यदा उद्घाट्यते तदा स्वयम् अप्-डेट् भवन्ति ।
05:42 वयम् अत्र 'Time (variable)' योजयामः ।
05:46 अधुना, वयं बाक्स् आकृष्य अधः दक्षिणे कोणे पृष्ठसङ्ख्यायाः उपरि स्थापयामः ।
05:56 प्रतिवारं भवतां 'Draw' पत्रस्य उद्घाटनात्परं , योजनस्य समयः, तत्कालीनसमयः भूत्वा अप्-डेट् भविष्यति ।
06:03 अधुना वयम् एतस्यां सञ्चिकायां लेखकस्य नाम उल्लिखामः ।
06:08 अत्र, वयं प्रथमे पत्रे लेखकस्य नाम “Teacher. A. B.” इति सेट् कुर्मः ।
06:17 अतः, वयं 'Page one' प्रति गच्छामः ।
06:19 'Main' विकल्पसूचिकां गत्वा, 'Tools' चित्वा 'Options' उपरि क्लिक् कुर्वन्तु ।
06:24 'Options' इति डैलाग्-बाक्स् उद्घाटितं भवति ।
06:27 'Options' डैलाग्-बाक्स् मध्ये, 'LibreOffice' इत्यस्य उपरि क्लिक् कृत्वा 'User Data' इत्यस्य उपरि क्लिक् कुर्वन्तु ।
06:34 डैलाग्-बाक्स् दक्षिणपार्श्वे, भवन्तः यूसर् दत्तांशस्य सूच्यांशं लेखितुं शक्नुवन्ति ।
06:40 अत्र वयं भवताम् आवश्यकतानुसारं विवरणानि लेखितुं शक्नुमः ।
06:44 "First/Last Name/Initials" इत्यत्र, अनुक्रमेण "Teacher", 'A', तथा 'B' इति पठ्यम् एण्टर् कुर्वन्तु ।
06:53 'OK' क्लिक् कुर्वन्तु ।
06:55 अधुना, 'Main' विकल्पसूच्याम्, 'Insert' नुदन्तु । 'Fields' चयनं कुर्वन्तु तथा 'Author' इत्येतत् क्लिक् कुर्वन्तु।
07:02 'Teacher A B ' इति किञ्चन नाम टेक्स्ट्-बाक्स् मध्ये अन्तर्भूतम् ।
07:07 वयम् एतत् बाक्स् आकृष्य 'Draw' पत्रस्य अधः दक्षिणकोणे, 'Time' फील्ड् इत्यस्य किञ्चित् उपरि स्थापयामः ।
07:15 अधुना, वयं 'Draw' पत्रे योजितानि फील्ड्स् निष्कासयितुम् इच्छामः चेत्,
07:21 केवलं टेक्स्ट्-बाक्स् चित्वा तथा 'Delete' key क्लिक् कुर्वन्तु ।
07:25 'Author Name' फील्ड् वयं निष्कासयामः ।
07:28 तथा एतस्य कार्यस्य 'undo' करणम् कथम् ?
07:31 एतत् सरलम् !.. भवन्तः 'Ctrl' तथा 'Z' कीलकानि युगपत् एव नुत्त्वा, किमपि कार्यं 'undo' कर्तुं शक्नुवन्ति ।
07:38 अन्तिमवारं कृतं कार्यं नाम, 'Author' फील्ड् इत्येतत् यत् डिलिट् कृतम् तत् 'undo' जातम् ।
07:45 फील्ड् पुनः परिदृश्यते ।
07:48 वयं 'Main' विकल्पसूचीतः अपि 'undo' अथवा 'redo' कर्तुं शक्नुमः ।
07:53 'Main' विकल्पसूचीतः, 'Edit' चित्वा तथा 'Redo' इत्येतत् नुदन्तु ।
07:57 लेखकानां नाम अधुना न दृश्यते !
08:00 'Ctrl+Z' कीलकं नुत्त्वा, अस्माभिः कृतं सर्वेषां फील्ड्स् अन्तर्भावम् अपि 'undo' कुर्मः ।
08:06 'undo' तथा 'redo' निर्देशानां कृते भवन्तः कीबोर्ड्-तः शार्ट्-कट् keys अपि उपयोक्तुं शक्नुवन्ति ।
08:13 किमपि कार्यं 'undo' कर्तुम् , 'Ctrl' तथा 'Z' keys युगपत् एव नुदन्तु ।
08:18 किमपि कार्यं 'redo' कर्तुम् 'Ctrl' तथा 'Y ' keys युगपत् एव नुदन्तु ।
08:23 एतत् अनुशिक्षणम् एकवारं स्थगयित्वा एतत् गृहकार्यं कुर्वन्तु ।
08:26 लेखकानां नाम परिवर्त्य तद् save कुर्वन्तु ।
08:29 अधुना, 'page' कृते इतोऽपि ‘आरो’द्वयं योजयन्तु ।
08:33 द्वितीयपत्रे पत्रसङ्ख्यां दिनाङ्कं च योजयन्तु ।
08:38 अधुना, अन्तिमानि पञ्च कार्याणि 'undo' तथा 'redo' कुर्वन्तु ।
08:42 'undo' तथा 'redo' विकल्पाः सर्वाणि कार्याणि 'undo' कर्तुं शक्नुवन्ति अथवा कानिचन कार्याणि 'undo' कर्तुं शक्नुवन्ति वा इति परिशीलयन्तु ।
08:51 एतत् पुटं “WaterCycleSlide” इति नामकरणं कुर्मः ।
08:54 'Pages' पेन् अन्तर्गतं स्लैड् चित्वा, रैट्-क्लिक् कृत्वा 'Rename Page' इत्येतत् चिन्वन्तु ।
09:00 'Rename Slide' डैलाग्-बाक्स् परिदृश्यते ।
09:03 'Name' फील्ड् मध्ये, वयं "WaterCycleSlide" इति नाम एण्टर् कुर्मः ।
09:08 'OK' क्लिक् कुर्वन्तु ।
09:10 अधुना, वयम् अस्य पुटस्य उपरि कर्सर् स्थापयामः ।
09:14 “WaterCycleSlide” इति नाम अत्र प्रदर्शिम् इति भवन्तः द्रष्टं शक्नुवन्ति वा ?
09:18 पुटस्य कृते अनुरूपस्य नाम्नः दानं समीचीनः अभ्यासः ।
09:23 'WaterCycle' रेखाचित्रस्य कृते अधुना वयं प्रिण्टिङ्ग् विकल्पान् सेट् कुर्मः ।
09:28 'Main ' विकल्पसूच्यां, 'File ' क्लिक् कृत्वा पश्चात् 'Print' क्लिक् कुर्वन्तु ।
09:33 'Print' इति डैलाग्-बाक्स् उद्घाटितं भवति ।
09:36 'General' तथा 'Options' ट्याब् मध्यस्थानि सेट्टिङ्ग्स् (संयोजनानि) अवगन्तुं,
09:41 LibreOffice Writer सरणेः Viewing and printing Documents इति अनुशिक्षणं कृपया पश्यन्तु।
09:48 वामभागे, भवन्तः ‘पेज् प्रीव्यू’ एरिया पश्यन्ति ।
09:53 'Print' इति डैलाग्-बाक्स् दक्षिणभागः एतत् चत्वारि ट्याब्स्-युक्तमस्ति ।
09:58 'General, LibreOffice Draw, Page Layout, Options'.
10:04 वयं 'LibreOffice Draw' कृते निर्दिष्टान् विकल्पान् पश्यामः ।
10:09 'LibreOffice Draw' ट्याब् उपरि नुदन्तु ।
10:13 वयं 'Page name' तथा 'Date and Time' बाक्स् ‘चेक्’ कुर्मः ।
10:17 एतत्, चित्रस्य साकं पत्रस्य नाम, दिनाङ्कं तथा समयं च मुद्रयति ।
10:23 वयं चित्रं मुद्रयितुम्, 'Original colors' तथा 'Fit to printable page' इत्येतानि चिनुमः ।
10:29 भवतां गणकयन्त्रे 'WaterCycle' चित्रं मुद्रयितुम्, 'Print' इत्यस्य उपरि क्लिक् कुर्वन्तु ।
10:34 भवन्तः भवतां मुद्रणयन्त्रं समीचीनरूपेण कान्फिगर् कृतवन्तः चेत्, भवतां चित्रस्य मुद्रणं तावदैव प्रारभ्यते ।
10:40 एवं रीत्या, वयं LibreOffice Draw विषयकस्य एतस्य अनुशिक्षणस्य अन्तिमसोपानं प्रति आगतवन्तः ।
10:45 अस्मिन् अनुशिक्षणे, भवन्तः :
10:48 * 'Draw' पत्रस्य कृते मार्जिन्स् सेट्-करणं
10:50 * तथा पत्रसङ्ख्या, दिनाङ्कः तथा समयः इत्येते कथं योजनीयाः इति
10:54 * कार्याणां 'Undo' तथा 'Redo' करणम्
10:57 * पत्रस्य नाम परिवर्तयितुं तथा
10:58 * किञ्चन 'page' मुद्रयितुं च पठितवन्तः ।
11:01 अत्र भवद्भ्यः किञ्चन गृहकार्यं वर्तते ।
11:03 इतोऽपि पत्रद्वयं योजयन्तु ।
11:06 पूर्वतने अनुशिक्षणे भवद्भिः रचितं लेबल् तथा आमन्त्रणस्य प्रत्येकं पुटस्य कृते पृथक् पृथक् मार्जिन्स् - मुद्रयन्तु ।
11:14 अस्मिन् प्रत्येकं पुटे 'Page count' इति फील्ड् संयुज्य तथा किं भवति इति पश्यन्तु ।
11:21 अस्यां पर्चन्यां प्राप्यमाणं चलच्चित्रं पश्यन्तु ।
11:24 एतत् ‘स्पोकन् ट्युटोरियल्’ परियोजनायाः सारांशं बोधयति ।
11:28 यदि भवतां सविधे सुष्ठु ब्याण्ड्-विड्त् नास्ति चेत्, भवन्तः डौन्-लोड् कृत्वा द्रष्टुं शक्नुवन्ति ।
11:32 स्पोकन्-ट्युटोरियल्-परियोजना-गणः  :
11:34 * स्पोकन् ट्युटोरियल्स् उपयुज्य कार्यशालाः आयोजयति ।
11:37 * आन्-लैन् परीक्षायां ये उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रं प्रयच्छति ।
11:41 अधिकविवरणार्थम्, contact@spoken-tutorial.org कृते लिखन्तु ।
11:47 ‘स्पोकन् ट्युटोरियल् प्राजेक्ट्’, ‘टाक् टु अ टीचर्’ इति परियोजनायाः कश्चन भागः वर्तते ।
11:52 एतत् भारतसर्वकारस्य MHRD इत्यस्य ICT माध्यमद्वारा राष्ट्रिय-साक्षरता-मिषन्-पक्षतः समर्थितं वर्तते ।
11:59 अस्याः संस्थायाः विषये अधिकविवरणम् अस्यां पर्चन्याम् उप लभ्यते : http://spoken-tutorial.org/NMEICT-Intro.
12:10 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे तथा प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् ।

धन्यवादाः

Contributors and Content Editors

NaveenBhat, Udayana