LibreOffice-Suite-Calc/C2/Working-with-data/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:27, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording

Working With Data


VISUAL CUE NARRATION
00:00 LibreOffice Calc – सामग्र्या सह कार्यम् इत्यस्मिन् Spoken tutorial मध्ये स्वागतम् |
00:06 अस्मिन् पाठे वयं पठिष्याम: -
00:09 selection lists, Fill tools च उपयुज्य गति - वर्धनम् |
00:13 sheets - इत्येतेषु विषय - विभाजनम् |
00:16 सामग्री - निष्कासनं , सामग्री -परिवर्तनं , सामग्री - भाग - परिवर्तनम् |
00:23 वयमत्र operating system - त्वेन Ubuntu Linux 10.04 , LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
00:32 spreadsheet - मध्ये सामग्री - निवेशनं बहु श्रम - परकं किन्तु , इदं पर्याप्त - रूपेण सुकरं कर्तुं Calc - विविध - tools प्रददाति |
00:42 अतीव - मूलभूत - क्षमता नाम मूषकेण एकस्मात् अन्य - कक्षे सामग्रे: कर्षण- मोचनम् |
00:49 किन्तु , Calc , स्वयञ्चालित - निवेशार्थं इतोऽपि अन्य - विविध - tools समाविशति विशेषत: आम्रेडित (repetitive) - सामग्रे: कृते |
00:57 ते नामत: “Fill tool”, “Selection lists” च |
01:01 एते समान - प्रलेखस्य अनेकेषु sheets-- इत्येषु सूच्यांशं निवेशयितुं शक्नुत: |
01:06 अनयो: प्रत्येकं वयं एकैकश: पठिष्याम: |
01:09 अस्माकं “Personal-Finance-Tracker.ods” - सञ्चिकाम् उद्घाटयाम: |
01:14 sheet - मध्ये सामग्रे: प्रतिलिपिं कर्तुं Fill tool इति उपयुक्त - पद्धति: अस्ति |
01:19 अस्माकं “Personal-Finance-Tracker.ods” - सञ्चिकायां , चिन्तयन्तु वयं “Cost” - शीर्षकस्थां सामग्रीं समीपस्थ - कक्षेषु अनुकर्तुं ( copy ) इच्छाम: |
01:30 प्रथमं “6000” - निवेशं समाविशन्तं कक्षं नुदित्वा अनुकर्तव्यां समग्रां सामग्रीं चिनोतु |
01:38 अधुना मूषकस्य वाम-पिञ्जं नुदन्नेव मूल्य - निवेश: “2000” इति समाविशत: कक्षस्य अन्त - पर्यन्तं मूषकं कर्षतु |
01:46 यत्र वयं सामग्रीम् अनुकर्तुम् इच्छाम: तान् कक्षान् अपि चिनोतु |
01:51 अधुना मूषकस्य वाम-पिञ्जं त्यजतु |
01:53 menu bar - मध्ये “Edit” - पर्यायं नुदतु तत: च “Fill” - पर्यायं नुदतु |
01:59 pop up मेनु - मध्ये “Right” - पर्यायं नुदतु |
02:03 भवान् पश्यति यत् “Cost” - शीर्षकस्था सामग्री समीपस्थ - कक्षेषु आगता |
02:09 परिवर्तनानि अपाकुर्म: |
02:12 Fill tool इत्यस्य बहु - जटिल - उपयोग: नाम कतिपय - मालिकानां सामग्रीत्वेन sheets- मध्ये पूरणम् |
02:20 Calc सप्ताहस्य पूर्णानां संक्षिप्तानां च दिनानां कृते वर्षस्य मासानां कृते च उत्सर्ग - आवली: प्रददाति |
02:27 अस्मिन् उपयोक्ता स्व - आवली: अपि निर्मातुं शक्नोति |
02:34 अधुना अस्माकं sheet - मध्ये “Days” - नाम्ना नूतनं शीर्षकं योजयाम: |
02:38 अस्मिन् वयं स्वयङ्कारितया सप्ताहस्य सप्त - दिनानि दर्शयाम: |
02:43 “Days” - शीर्षकस्य अध: प्रथम - सप्त - कक्षान् चिनोतु |
02:48 अधुना menu bar - मध्ये “Edit” - पर्यायं नुदतु , “Fill” - पर्यायं प्रति गच्छतु च |
02:53 मेनु - मध्ये “Series”- पर्यायं नुदतु |
02:57 भवान् पश्यति यत् “Fill Series” - शीर्षकेण सह संवाद - पिटक: आविर्भवति |
03:02 अधुना “Series type” - शीर्षकस्य अध: “AutoFill” - पर्यायं नुदतु |
03:07 “Start value” - क्षेत्रे वयम् अस्माकं सप्ताहस्य प्रथम - दिनं टङ्कयाम: नाम रविवासर: इति |
03:13 आदावेव “1” इति वृद्धि: विन्यस्ता अस्ति |

अधुना “OK” - पिञ्जं नुदतु |

03:18 भवान् पश्यति यत् कक्षेषु दिनानि स्वयङ्कारितया(automatically) निविष्टानि |
03:23 भवान् समान - पद्धत्या केवलं सप्ताह - दिनानि, मासं वर्षं वा निवेशयितुं शक्नोति यतो हि तानि Calc - मध्ये पूर्व-परिभाषितानि सन्ति |
03:32 अनुक्रमिक - सामग्रे: स्वयं - पूरणार्थं अन्या - पद्धति: इत्थमस्ति -
03:37 कक्षे “Sunday” इति टङ्कयतु , "Enter " नुदतु च | एतद् स्तम्भस्य अग्रिम-कक्षं प्रति ध्यानं नेष्यति |
03:46 यत्र “Sunday” इति टङ्कितं तत्र गच्छतु | अधुना भवान् कक्षस्य अधस्तन-दक्षिण-कोणे लघु - कृष्ण -पिटकं द्रक्ष्यति |
03:55 मूषकेण एतं पिटकं नुदतु |
03:57 एतम् अधस्तात् तावत् कर्षतु यावत् दक्षिणे भवान् आविर्भवति पिटके saturday न पश्यति |
04:04 मूषकस्य पिञ्जं त्यजतु |
04:06 कक्षा: स्वत: एव दिनै: पूर्णा: |
04:10 एषा युक्ति: सर्व-अनुक्रमिक (sequential)-सामग्रे: कृते उपकरोति |

परिवर्तनानि अपाकुर्म: |

04:17 भवान् start, end , वृद्धि-मूल्यं च निवेश्य संख्यानां कृते सकृत्- उपादेया:(one-time fill) पूरण-मालिका: अपि निर्मातुं शक्नोति |
04:24 एतद् प्रमाणयितुं वयं प्रथमं “A1” त: “ A7” कक्षेषु आदौ निवेशितान् क्रमाङ्कान् उच्छेत्स्याम: |
04:33 क्रमाङ्क -उच्छेदनानन्तरं पुन: “A2” त: “A7” - पर्यन्तं सङ्केतितान् कक्षान् चिनोतु |
04:40 अधुना menu bar- मध्ये “Edit” तत: “Fill” तथा च “Series” पर्यायं नुदतु |
04:46 अस्मत्-पुरत: संवाद-पिटक: आविर्भवति |

अधुना “Series type” - शीर्षकस्य अध: “Linear” - पर्यायं नुदतु , स: उत्सर्गेण चित: नास्ति चेत् |


04:57 “Start value” - क्षेत्रे वयं प्रथमं क्रमाङ्कं टङ्कयाम: नाम एकम् |
05:03 “End value” - क्षेत्रे वयं निवेशनीयम् अन्तिमं मूल्यं षडिति टङ्कयाम: |
05:08 अधुना वयं “Increment” - मूल्यं एकं स्थापयाम: अन्ते च “OK” - पिञ्जं नुदाम: |
05:14 वयं पश्याम: यत् कक्षा: स्वत: एव आनुक्रमिक-संख्याभि: पूरिता: |
05:21 आसु सर्वासु स्थितिषु, Fill tool कक्षेषु केवलं क्षणिकं संबन्धं निर्माति | तेषु पूरितेषु , कक्षाणाम् परस्पराभ्यां सह कोऽपि संबन्ध: अग्रे न भवति |
05:32 Fill tool विहाय , “Selection lists” इति उच्यमानम् इतोऽपि एकं गति-वर्धकं tool अस्ति यत् केवलं लेख्यनिमित्तमेव अस्ति |
05:40 वयं इदम् एतद् - मालिकाया: उत्तर -पाठेषु चर्चयिष्याम: |
05:45 “Fill tools” , “Selection lists” चेत्यनयो: पठनानन्तरं वयमधुना कक्षेषु सामग्री कथं विभाज्या इति पठिष्याम: |
05:52 अनेकेषु sheets इत्येषु समान-कक्षे समानं सूच्यांशं निवेशयितुं Calc उपयोक्तारं समर्थीकरोति |
05:58 इत्युक्ते व्यक्तिश: प्रत्येकं sheet उपरि समान -आवले: निवेशनापेक्षया भवान् तां सर्वेषु sheet - इत्येषु युगपत् निवेशयितुं शक्नोति |


06:07 “Personal-Finance-Tracker.ods” - सञ्चिकायां अस्माकं सम्पूर्णा सामग्री “Sheet 1” उपरि अस्ति |
06:14 अधुना वयं “Sheet 1” - स्थां सामग्रीं “Sheet 2” तथा च “Sheet 3”मध्ये दर्शयितुम् इच्छाम: |
06:21 अथ वयं menu bar मध्ये “Edit” - पर्यायं नुदाम: तत: च “Sheet” - पर्यायं नुदाम: |
06:27 अधुना “Select” इत्यत्र नुदतु |
06:30 अधुना आविर्भवति संवाद - पिटके "shift " - कीलम् उपयुज्य वयं “Sheet 1”, “Sheet 2”, , “Sheet 3” चेति पर्यायान् चिनुम: |
06:40 तत: च “OK” - पिञ्जं नुदतु |
06:42 एतद् अस्मान् “Sheet 1” प्रति नयेत् |
06:45 अधुना काञ्चित् सामग्रीं “Sheet 1” मध्ये निवेशयेम |
06:49 यथा, “F12” - त्वेन सङ्केतिते कक्षे वयं “This will be displayed on multiple sheets” इति टङ्कयाम: |
06:57 अधुना एकस्मात् अनन्तरं एकं “Sheet 2” तथा च “Sheet 3” tab नुदतु |
07:02 वयं पश्याम: यत् एषु प्रत्येकं sheet - मध्ये , “F12” -त्वेन सङ्केतित: कक्ष: समान - सामग्रीं समाविशति |
07:09 परिवर्तनानि अपाकुर्म: |
07:12 अग्रे वयं भिन्न - मार्गान् पठिष्याम: यै: वयं कक्षेषु सामग्रीं संपादयितुम् उच्छेत्तुं च शक्नुम: |
07:18 कक्षस्य किमपि प्रारूपणं न निष्कास्य सामग्रीम् उच्छेत्तुं , केवलं कक्षं चिनोतु |
07:25 भवान् पश्यति यत् कक्षस्थ - सामग्री “Input line” -क्षेत्रे आविर्भवति |
07:30 अधुना कील - फलके “Backspace”- पिञ्जं नुदतु |
07:35 भवान् पश्यति यत् सामग्री उच्छिन्ना |
07:37 परिवर्तनानि अपाकुर्म: |
07:39 कक्षस्थ - सामग्रीं परिवर्तयितुं ,कक्षं चिनोतु , पुरातन - सामग्रे: उपरि टङ्कयतु च |
07:46 नूतना सामग्री मूल- प्रारूपणं निधास्यति |

परिवर्तनानि अपाकुर्म: |

07:52 कक्षे सामग्रे: कञ्चित् भागं परिवर्तयितुं ,सर्व - सामग्रे: निष्कासनेन विना कक्षं केवलं द्विवारं नुदतु |
08:01 अधुना cursor - संचारणेन भवान् आवश्यकतानुसारं कक्षं सम्पादयितुं शक्नोति |
08:07 परिवर्तनानि अपाकुर्म: |
08:09 अत्र LibreOffice Calc - विषयकं Spoken Tutorial समाप्यते |
08:15 अस्माभि: पठितं संक्षेपेण -
08:17 चयन - आवलिं , Fill tools च उपयुज्य गति - वर्धनम् |
08:20 sheets - इत्येतेषु विषय - विभाजनम् |
08:23 सामग्री - निष्कासनं , सामग्री - परिवर्तनं , सामग्री - भाग - परिवर्तनम् |
08:29 *अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
08:32 *इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
08:35 *यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |


08:40 spoken tutorial गण:
08:43 *spoken tutorials उपयुज्य कार्यशाला: आयोजयति |


08:46 *online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |


08:49 *कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |


08:55 *Spoken Tutorial इति Talk to a Teacher - प्रकल्पभाग:


09:00 *असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
09:07 *अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org
09:11 *slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |


09:18 *एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
09:23 *संपर्कार्थं धन्यवादा:|


Contributors and Content Editors

PoojaMoolya, Sneha