LibreOffice-Suite-Calc/C2/Working-with-Sheets/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:28, 29 November 2012 by Sneha (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Working with Sheets

VISUAL CUE NARRATION
00.00 LibreOffice Calc - Sheets , कक्षै: च सह कार्यमित्यस्मिन् मौखिकपाठे स्वागतम् |
00:07 अस्मिन् पाठे वयं पठाम: -
00:09 स्तम्भस्य पङ्क्ते: च निवेशनम् उच्छेदनं च |
00:13 sheets इत्येषां निवेशनम् उच्छेदनं च |

sheets इत्येषां नाम्न: नवीकरणम् |

00:17 वयमत्र operating system - त्वेन Ubuntu Linux 10.04 , LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
00:29 तर्हि spreadsheet मध्ये पङ्क्ति: स्तम्भ: च कथं निवेशनीय: इत्यनेन अस्माकं पाठम् आरभामहे |
00:35 अस्माकं “personal finance tracker.ods” सञ्चिकाम् उद्घाटयाम: |
00:42 पङ्क्तिस्तम्भयो: एकैकश: वर्गश: वा निवेशनं शक्यम् |
00:47 spreadsheet मध्ये एकां पङ्क्तिं , स्तम्भं वा निवेशयितुं , प्रथमं कक्षं ,स्तम्भं , पङ्क्तिं वा चिनोतु , यत्र भवान् निवेशितं नूतनं स्तम्भं, पङ्क्तिं वा इच्छति |
01:00 यथा , अस्मत् - “personal finance tracker.ods” - सञ्चिकायां प्रथम-पङ्क्तौ कुत्रचित् नुदाम: |
01:09 अहं यस्मिन् “Cost” इति लिखितमस्ति तं कक्षं नुदामि |
01:13 अधुना menu bar - मध्ये “Insert” - पर्यायं तत: च “Rows” नुदतु |
01:19 वयं पश्याम: यत् चिताया: पङ्क्ते: उपरि एव नूतना पङ्क्ति: निविष्टा |
01:25 तथैव , नूतन-स्तम्भ-निवेशनाय menu bar - मध्ये “Insert” - पिञ्जं नुदतु , “Columns” नुदतु च |
01:34 भवान् पश्यति यत् चितस्य स्तम्भस्य पूर्वं नूतन: स्तम्भ: निविष्ट: |
01:40 अधुना अस्माभि: कृतं परिवर्तनम् अपाकुर्म: |
01:44 यदि भवता स्तम्भस्य ज्ञापक-वर्णक्रमं नुदित्वा तत्-स्तम्भ: चित: अथवा पङ्क्ते:ज्ञापक-क्रमाङ्कं नुदित्वा तत्-पङ्क्ति: चिता , तर्हि नूतनं स्तम्भं पङ्क्तिं वा योक्तुं दक्षिणेन नुदतु ,अपि च आविर्भवति drop down मेनु - मध्ये "Insert Columns ", "Insert Rows " वा पर्यायं चिनोतु |
02:04 अथवा केवलं कर्सरेण एकं कक्षं नुदित्वा तं चिनोतु | तत: दक्षिणेन नुदतु , "Insert " पर्यायं चिनोतु च | भवान् ईदृशं संवाद-पिटकं द्रक्ष्यति |
02:18 पङ्क्तिं स्तम्भं वा योक्तुं "Entire Row " अथवा ,"Entire Column " पर्यायं चिनोतु |
02:25 युगपदेव अनेकान् स्तम्भान् पङ्क्ती: वा निवेशयितुं अस्माभि: प्रथमं प्रथम-कक्षे मूषकस्य वाम-पिञ्जं धृत्वा तत: च यावन्त: ज्ञापका: कक्षा: आवश्यका: तावत्सु कर्षित्वा यथेष्टं संख्यया पङ्क्तय: स्तम्भा: वा प्रकाशनीया: |
02:43 अत्र अस्माभि: चत्वार: कक्षा: प्रकाशिता: |
02:47 नूतनां पङ्क्तिं स्तम्भं वा योक्तुं चर्चितपद्धतिषु एकाम् अनुसरतु | अहं नूतनां पङ्क्तिं योक्तुम् इच्छामि | अत: अहं selection उपरि दक्षिणेन नुदामि , " Insert " - पर्यायं चिनोमि च |
03:00 अग्रे अहं "Entire Row " - पर्यायं चिनोमि | “OK” - पिञ्जं नुदतु | लक्षयतु यत् , चितानां पङ्क्तीनां प्रथमाया: उपरि नूतना: चतस्र: पङ्क्तय: निविष्टा: |
03:14 अग्रे वयम् एकैकश: वर्गश: वा स्तम्भा: कथम् उच्छेतव्या: इति पठाम: |
03:20 एकं स्तम्भं पङ्क्तिं वा उच्छेत्तुं , प्रथमं यं स्तम्भं पङ्क्तिं वा भवान् उच्छेत्तुम् इच्छति तं चिनोतु |
03:28 यथा, यस्मिन् “Laundry” इति लिखितमस्ति तं स्तम्भं वयम् उच्छेत्तुम् इच्छाम: चेत् प्रथमं तत्-स्तम्भस्थं कक्षं नुदित्वा तं चिनोतु |
03:37 अधुना कक्षं दक्षिणेन नुदतु , “Delete” - पर्यायं नुदतु च |
03:43 “Delete Cells” इति शीर्षकेण सह एक: संवाद-पिटक: आविर्भवति |
03:47 अधुना “Shift cells up” - पर्यायं नुदतु ,तत: च “OK” - पिञ्जं नुदतु |
03:53 भवान् पश्यति यत् कक्ष: उच्छिन्न: , तस्य अधस्था: कक्षा: उपरि सृता: च|

इदं परिवर्तनम् अपाकुर्म: |

04:01 अधुना युगपत् अनेका: स्तम्भा: पङ्क्तय: वा कथम् उच्छेत्तव्या: इति पठाम:|
04:08 यथा , यस्मिन् “Laundry” इति लिखितमस्ति तां पङ्क्तिं वयम् उच्छेत्तुम् इच्छाम: चेत् प्रथमं तत् - सूचकं षट् - क्रमाङ्कस्थं कक्षं चिनोतु |
04:18 अधुना एतद् - कक्षं मूषकस्य वामपिञ्जेन नुदन् भवतु , सम्पूर्ण-पङ्क्तिपर्यन्तं तं कर्षतु | अथवा , उच्छेत्तुम् इष्टं पङ्क्ति-क्रमाङ्कं नुदतु | संपूर्णा पङ्क्ति: प्रकाशिता भवेत् |
04:33 कक्षं दक्षिणेन नुदतु तत: च “Delete” पर्यायं नुदतु |
04:38 “Delete Cells” इति शीर्षकेण सह संवाद-पिटक: आविर्भवति |
04:43 अधुना “Shift cells up” - पर्यायं नुदतु तत: च “OK” - पिञ्जं नुदतु |
04:48 भवान् पश्यति यत् सम्पूर्णा पङ्क्ति: उच्छिन्ना तस्या: अधस्था पङ्क्ति: च उपरि सृता |
04:55 तथैव वयं पङ्क्तिम् इव स्तम्भान् चित्वा तान् उच्छेत्तुं शक्नुम: |

अस्माभि: कृतं परिवर्तनम् अपाकुर्म: |

05:04 sheet मध्ये अनेका: पङ्क्तय: स्तम्भा: च कथं निवेशनीया: उच्छेत्तव्या: च इति पठनानन्तरं , वयम् अधुना Calc - मध्ये sheets कथं निवेशनीयानि उच्छेत्तव्यानि च इति पठिष्याम: |
05:14 Calc - मध्ये नूतनं sheet निवेशयितुं नैका: मार्गा: सन्ति |

वयं तेषु प्रत्येकम् एकैकश: पठिष्याम: |

05:23 सर्वासां पद्धतीनां प्रथमं सोपानं नाम , यस्य पार्श्वे नूतनं sheet अपेक्षितं तद् sheet - चयनम् |
05:30 अधुना menu bar - मध्ये “Insert”- पर्यायं नुदतु , तत: “Sheet” नुदतु |
05:36 “Insert Sheet” - शीर्षकेण सह संवाद-पिटक: उद्घटति |


05:41 अधुना विद्यमानस्य sheet इत्यस्य पार्श्वे नूतनं sheet निवेशयितुं “After current sheet” - विकल्पिकां (radio button) चिनुम: |
05:49 “Name” - क्षेत्रे, अस्माकं नूतनस्य sheet इत्यस्य नाम “Sheet 4” इति आविर्भवति | तद् प्रणाली-निर्मितं नाम अस्ति | भवान् इच्छति चेत् तन्नाम नवीकर्तुं शक्नोति |
06:01 अधुना “OK” - पिञ्जं नुदतु |

वयं पश्याम: यत् विद्यमानस्य sheet इत्यस्मात् अनन्तरं नूतनं sheet निविष्टम् |

06:09 Calc - गवाक्षस्य अधस्तनवामभागस्थं विद्यमानं sheet tab दक्षिणेन नुदित्वा “Insert Sheet” - पर्यायस्य नोदनेन नूतन- sheet - निवेशनम् इति अन्या पद्धति: |
06:19 भवान् स्थितिं (position), sheets इत्येषां क्रमाङ्कं, नाम चेतुं तत: च “OK” - पिञ्जं नुदितुं शक्नोति | इदं तदनुगुणं sheet निवेशयेत् |
06:31 विद्यमानस्य sheet इत्यस्मात् अनन्तरं sheet निवेशयितुम् अन्य: सरल: मार्ग: नाम ,sheet tab इत्यस्य पार्श्वस्थं अधिक-चिह्नेन अङ्कितस्य “Add Sheet” - पिञ्जस्य नोदनम् |
06:43 एतद् - नोदनेन आवल्यां अन्तिमात् sheet इत्यस्मात् अनन्तरं नूतनं sheet स्वत: एव निविष्टम् |
06:51 नूतनं sheet निवेशयितुम् अन्तिमा पद्धति: नाम अधोभागे sheet tab मध्ये “Add Sheet” इति अधिक-चिह्नस्य पार्श्वस्थे रिक्तस्थाने नोदनेन “Insert Sheet” - संवाद-पिटकस्य आनयनम् |
07:06 रिक्तस्थाने नोदनेन वयं पश्याम: यत् “Insert Sheet” - संवाद-पिटक: आविर्भवति |
07:13 भवान् संवादपिटके sheet - विवरणं लेखितुं शक्नोति तत: “OK” पिञ्जं नुदितुं शक्नोति |
07:20 sheet इत्यस्य निवेशनं कथमिति पठनानन्तरं वयमधुना पठाम: Calc - मध्ये sheet कथं उच्छेत्तव्यमिति |
07:27 sheets एकैकश: वर्गश: वा उच्छेत्तुं शक्यानि |
07:31 तद् एकैकश: उच्छेत्तुं यत् sheet भवान् उच्छेत्तुम् इच्छति तस्य tab दक्षिणेन नुदतु तस्मात् च pop up मेनु - मध्ये “Delete Sheet”- पर्यायं नुदतु तस्मात् च “Yes”- पर्यायं नुदतु |
07:45 भवान् पश्यति यत् "sheet" उच्छिन्नम् |
07:48 menu bar - मध्ये “Edit” - पर्यायमुपयुज्य विशिष्टस्य 'sheet' - इत्यस्य उच्छेदनम् इति अन्यमार्ग: |
07:55 यथा , यदि वयम् आवलीत: “Sheet 3” उच्छेत्तुम् इच्छाम: ,तर्हि menu bar - मध्ये “Edit”- पर्यायं नुदाम: तत: च “Sheet” नुदाम: |
08:05 अधुना pop up मेनु - मध्ये “Delete” पर्यायं नुदतु तत: च “Yes”- पर्यायं नुदतु |
08:12 भवान् पश्यति यत् ' sheet ' उच्छिन्नम् |

अधुना प्रलेखे कृतानि परिवर्तनानि अपाकुर्म: |

08:19 अनेकानि 'sheets ' उच्छेत्तुं , यथा यदि वयं “Sheet 2” “Sheet 3” च उच्छेत्तुम् इच्छाम: तर्हि प्रथमं “Sheet 2” tab नुदतु तत: च कीलफ़लकस्थं “Shift” -पिञ्जं नुदन्नेव “Sheet 3” tab नुदतु |
08:36 अधुना tabs इत्येतयो: एकं दक्षिणेन नुदतु , pop-up - मेनुत: “Delete Sheet”- पर्यायं नुदतु च |

तत: च “Yes” - पर्यायं नुदतु |

08:47 भवान् पश्यति यत् sheet-द्वयमपि उच्छिन्नम् |

अग्रे पठितुम् , अस्माभि: कृतानि परिवर्तनानि अपाकुर्म: |

08:56 विशिष्टं sheet उच्छेत्तुम् अन्यमार्ग: नाम menu bar मध्ये “Edit” - पर्यायस्य उपयोग: |
09:03 यथा , यदि वयम् आवलीत: “Sheet 6” , “Sheet 7” च उच्छेत्तुम् इच्छाम: तर्हि menu bar -मध्ये “Edit” -पर्यायं तत: च “Sheet”-पर्यायं नुदतु |
09:14 अधुना pop up मेनु - मध्ये “Select” - पर्यायं नुदतु |


09:19 आविर्भवति संवाद-पिटके “Sheet 6”- पर्यायं नुदतु तत: च कीलफ़लकस्थं “Shift”- पिञ्जं नुदन्नेव “Sheet 7” - पर्यायं नुदतु |
09:30 “OK” - पिञ्जं नुदतु |

इदं ते sheets चिनुयात् , ये वयम् उच्छेत्तुम् इच्छाम: |


09:37 अधुना पुन: menu bar- मध्ये “Edit” - पर्यायं नुदतु तत: च “Sheet” - पर्यायं नुदतु |
09:45 अधुना pop up menu- मध्ये “Delete” - पर्यायं नुदतु तत: च “Yes”- पर्यायं नुदतु |
09:51 भवान् पश्यति यत् चितानि sheets उच्छिन्नानि |
09:56 Calc - मध्ये sheets कथम् उच्छेत्तव्यानि इति पठनानन्तरं वयमधुना spreadsheet. - मध्ये sheets इत्येषां नाम कथं नवीकर्तव्यम् इति पठाम: |
10:03 यदि भवान् spreadsheet - मध्ये पश्यति तर्हि भिन्नानां sheets--इत्येषां नामानि उत्सर्गेण “Sheet 1”, “Sheet 2”, “Sheet 3” तथाविधं च भवन्ति |
10:13 एतद् केवलं कतिपयै: sheets इत्येतै: सह लघु-spreadsheet - निमित्तं भवति किन्तु यदा बहूनि sheets.भवन्ति तदा एतद् कष्टकरं भवति |
10:21 Calc अस्मत्- रुचिनुसारं नाम्न: नवीकरणस्य व्यवस्थां कल्पयति |
10:27 अधुना यथा , वयं “Sheet 4” इत्यस्य “Dump” इति नाम कर्तुम् इच्छाम:

भवान् केवलं अधस्तनं “Sheet 4”tab इत्येतस्य द्विवारं नोदनेन एतद् कर्तुं शक्नोति |

10:37 भवान् पश्यति यत् “Rename Sheet” इति शीर्षकेण सह संवाद-पिटक: उद्घटति |

तत्र उत्सर्गेण “Sheet 4” इत्यनेन सह लेखनपिटक: (text box) अस्ति |

10:47 अधुना उत्सर्गनाम उच्छिनत्तु, नूतनं sheet-नाम “Dump”.इति लिखतु च |


10:52 “OK” - पिञ्जं नुदतु , भवान् पश्यति यत् “Sheet 4” tab इत्यस्य “Dump”.इति नाम्ना नवीकरणं जातम् |

Sheets 5 , Dump च उच्छिद्म: |


11:02 अत्र LibreOffice Calc - विषयकं Spoken Tutorial समाप्यते |
11:08 अस्माभि: पठितं संक्षेपेण -

स्तम्भस्य पङ्क्ते: च निवेशनम् उच्छेदनं च |

11:14 sheets इत्येषां निवेशनम् उच्छेदनं च |

sheets इत्येषां नाम्न: नवीकरणम् |

11:19 व्यापक-परीक्षा

“Spreadsheet Practice.ods” - सञ्चिकाम् उद्घाटयतु

11:25 “Serial Number” - शीर्षकस्य पङ्क्तिं चिनोतु उच्छिनत्तु च |

“Department Sheet” नाम्ना sheet नवीकरोतु |

11:32 *अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
11:36 *इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
  • यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि भवान् अवारोप्य द्रष्टुं शक्नोति |
11:44 spoken tutorial -प्रकल्पगण:
  • spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
11:50 *online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
  • कृपया अधिकज्ञानार्थं contact@spoken hyphen tutorial dot org संपर्कं करोतु |
11:59 *Spoken Tutorial -प्रकल्प: Talk to a Teacher - प्रकल्पभाग:
  • असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |


12:12 *अस्य अधिकज्ञानम् spoken hyphen tutorial dot org
  • slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
12:22 *एतद्पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |



  • संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Sneha