Difference between revisions of "LibreOffice-Suite-Calc/C2/Formatting-Data/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 268: Line 268:
 
|-
 
|-
 
||06:49
 
||06:49
||पठाम: तद् कथं कार्यमिति |
+
||पठाम: तद् कथं कार्यमिति |B14. - इत्यनेन सङ्केतिते कक्षे  “This is for the month of January” इति लेख्यं टङ्कयाम: |  
 
+
|-
+
||06:50
+
||B14. - इत्यनेन सङ्केतिते कक्षे  “This is for the month of January” इति लेख्यं टङ्कयाम: |  
+
  
 
|-
 
|-

Revision as of 16:18, 29 March 2017

Resources for recording Formatting Data

Time Narration
00:00 LibreOffice Calc - सामग्री-प्रारूपणम् इत्यस्मिन् Spoken tutorial मध्ये स्वागतम् |
00:06 अस्मिन् पाठे वयं पठिष्याम: - सीमा-प्रारूपणं , पृष्ठभूमिवर्णा: |
00:12 "Automatic Wrapping " उपयुज्य लेख्यस्य अनेक-सीमानां प्रारूपणम् |
00:18 कक्षाणां विलीनीकरणम् | कक्षे विन्यस्तुम् अक्षरस्य सङ्कुचनम् |
00:22 वयमत्र operating system त्वेन Ubuntu Linux -संस्करणं10.04 ,LibreOffice -संपुटसंस्करणं 3.3.4 च उपयुञ्ज्महे |
00:33 प्रथमं LibreOffice Calc -मध्ये सीमा प्रारूपण -विषये पठिष्याम: |
00:39 अस्माकं “personal finance tracker.ods” सञ्चिकाम् उद्घाटयाम: |
00:45 विशिष्टस्य कक्षस्य कृते कक्षाणां संवर्गस्य कृते वा सीमानां प्रारूपणं कर्तुं शक्यम् |
00:50 यथा ,“Serial Number”, “Item”, “Cost”, “Spent”, ”Received”, ”Date” , ”Account” चैतानि शीर्षकाणि दत्वा कक्षान् प्रारूपयाम: |
01:01 तर्हि “SN” इत्यनेन संबद्धं कक्षं नुदाम: |
01:08 अधुना मूषकस्य वामपिञ्जं नुदन्नेव तं शीर्षक-युक्तेषु कक्षेषु कर्षतु |
01:14 शीर्षकाणि समाविशन्त्या: सम्पूर्ण - पङ्क्ते: चयनानन्तरं Formatting toolbar उपरि “Borders”- चित्रकं नुदतु |
01:23 विविध - सीमा -शैलीभि: सह अधस्तारक: ( drop down box) उद्घटति |
01:28 सीमासु अन्वेतुम् एतद्-प्रकारस्थ-इष्टां शैलीं नुदतु |
01:33 अहम् अन्तिमं पर्यायं नुदिष्यामि | वयं पश्याम: यत् अस्मच्चयनप्रकारानुगुणं सीमा: प्रारूपिता: |
01:39 इदम् अपाकुर्म: |
01:45 चिता: कक्षा: अद्यापि प्रकाशिता: सन्ति | चयने दक्षिणेन नुदतु ,“Format Cells” - पर्यायं चिनोतु च |
01:54 अधुना “Borders” tab. नुदतु |
01:56 भवान् “Line arrangement”, “Line”, “Spacing to contents” , “Shadow style” च निमित्तं पर्यायान् द्रक्ष्यति |
02:05 एषु दृश्यमानं प्रत्येकं Calc - इत्यस्य उत्सर्ग-विन्यास: (default-setting) अस्ति |
02:10 किन्तु अस्मत्- आवश्यकतानुसारम् एषु कस्मिन्नपि परिवर्तनं शक्यम् |
02:14 “User-defined” - इत्यस्य अध: भवान् चयनं दर्शयत् पूर्वदर्शनस्य लघु - गवाक्षं द्रष्टुं शक्नोति |
02:22 “Default” इत्यस्य अध: अहं तृतीयं पर्यायं चेष्यामि , भवान् द्रष्टुं शक्नोति यत् तद् पूर्वदर्शनगवाक्षे प्रतिबिम्बितम् |
02:29 अहं “Style”, “Width” , “Color” चापि परिवर्तिष्ये |
02:33 पुन: पूर्वदर्शनगवाक्षे परिवर्तनं लक्षयतु |
02:38 सामग्रे: कृते अवकाश -कल्पनाय “Synchronize” इति पर्याय: सक्रिय: |
02:42 इत्युक्ते समेषाम् उपान्तानां कृते समान: अवकाश: कल्पित: भवति |
02:47 इदम् असक्रियं कर्तुं शक्यम् आवश्यकतानुसारं च उपान्तं परिवर्तयितुं शक्यम् |
02:53 अहं “Top” तथा च “Bottom” उपान्तं ,1.4pt. इति परिवर्तिष्ये |
03:00 भवान् विविध-छाया शैली: स्व-इच्छानुगुणं विचिनोतु |
03:04 "OK " नुदतु |
03:06 इदं चितानां कक्षाणां कृते चितां शैलीं कल्पयेत् |
03:11 सीमा-प्रारूपणं कथं कर्तव्यमिति पठनानन्तरम् अधुना पठाम: कक्षाणां कृते पृष्ठभूमिवर्ण: कथं दातव्य: इति |
03:18 कक्षाणां कृते पृष्ठभूमिवर्णं दातुं , Calc ,Formatting toolbar -स्थं “Background Color” इति पर्यायं कल्पयति |
03:27 अधुना तद् कथं कर्तव्यमिति पश्याम: |
03:30 यथा , शीर्षकाणि समाविशतां कक्षाणां कृते पृष्ठभूमिवर्णं दद्म: |
03:36 तर्हि प्रथमं तावत् शीर्षक-युतं “SN” - इत्यनेन संबद्धं कक्षं नुदाम: |
03:44 अधुना मूषकस्य वामपिञ्जं नुदन्नेव तं शीर्षक-युत-कक्षेषु कर्षतु |
03:50 शीर्षक-युताया: सम्पूर्ण- पङ्क्ते: चयनानन्तरं, Formatting toolbar - मध्ये “Background Color”- पर्यायं नुदतु |
04:00 pop up मेनु उद्घटति यत्र भवान् पृष्ठभूमिवर्णत्वेन इष्टं वर्णं चेतुं शक्नोति |
04:08 “Grey” - वर्णं नुदाम: |
04:11 भवान् द्रष्टुं शक्नोति यत् शीर्षकाणां कृते कक्ष-पृष्ठभूमिवर्ण: grey अभवत् |
04:17 Calc लेख्यस्य अनेक-सीमानां प्रारूपणार्थं विविध- पर्यायान् कल्पयति |
04:22 प्रथम: “Automatic Wrapping” इत्यस्य उपयोग: |
04:26 एकस्मिन् कक्षे लेख्यस्य अनेक-सीमा: निवेष्टुं "Automatic Wrapping” उपयोक्तारम् अनुमन्यते |
04:33 तद् कथं कार्यमिति पश्याम: |
04:37 अधुना अस्माकं “personal finance tracker.ods” sheet - मध्ये रिक्तं कक्षं नुदाम: |
04:44 यथा , कक्ष-क्रमाङ्कं “B12” इति नुदाम: |
04:49 अधुना कक्षं दक्षिणेन नुदतु तत: च “Format Cells” - पर्यायं नुदतु |
04:54 अधुना संवादपिटके “Alignment” tab नुदतु |
04:58 संवादपिटकस्य अधोभागे “Wrap text automatically” - पर्यायं नुदतु , तस्मात् च “OK” पिञ्जं नुदतु |
05:08 अधुना वयं टङ्कयाम: “THIS IS A PERSONAL FINANCE TRACKER. IT IS VERY USEFUL” |
05:11 भवान् पश्यति यत् एकस्मिन् कक्षे अनेकानि वाक्यानि समाविष्टानि |
05:19 परिवर्तनानि अपाकुर्म: |
05:21 “Automatic Wrapping” - पठनानन्तरं वयम् अधुना पठिष्याम: Calc - मध्ये कक्षा: कथं विलीनीकर्तव्या: इति |
05:29 अस्माकं “personal finance tracker.ods” -सञ्चिकायां यदि वयं “SN” - शीर्षक-संबद्धान् क्रमाङ्कं समाविशतां कक्षान् तद्-संबद्धानि पदानि च विलीनीकर्तुम् इच्छाम: तर्हि प्रथमं “SN” - इत्यस्य अध: data entry '1' इत्यत्र नुदतु |
05:46 अधुना कीलफ़लकस्थं “Shift”- कीलं नुदन्नेव “Salary” इति पदसंबद्धं कक्षं नुदतु |
05:55 एतद् विलीनीकर्तव्यं कक्षद्वयं प्रकाशयति |
05:59 अग्रे menu bar मध्ये “Format”- पर्यायं तस्मात् च “Merge Cells” पर्यायं नुदतु |
06:07 उद्भवति sidebar -मध्ये “Merge Cells” - पर्यायं नुदतु |
06:12 कक्षद्वयस्य अपि सामग्रीम् एकस्मिन् कक्षे नेतुम् आविर्भवति संवादपिटके “Yes”- पर्यायं नुदतु |
06:21 भवान् पश्यति यत् चितं कक्षद्वयमपि एकस्मिन् विलीनं तथा च सामग्री अपि तस्मिन्नेव |
06:31 अधुना “CTRL+Z” युगपत् नुदित्वा अस्माभि: कृतं विलीनीकरणम् अपाकुर्म: |
06:37 अग्रे वयं कक्षे विन्यस्तुं लेख्यस्य सङ्कुचनं कथं कार्यमिति पठिष्याम:|
06:41 कक्षे विन्यस्तुं कक्षस्थ- सामग्रे: font - आकार: स्वत: एव समीभवति |
06:49 पठाम: तद् कथं कार्यमिति |B14. - इत्यनेन सङ्केतिते कक्षे “This is for the month of January” इति लेख्यं टङ्कयाम: |
07:00 भवान् पश्यति यत् लेख्यं कक्षे न विन्यस्ति |
07:03 लेख्यस्य सङ्कुचनं कर्तुं येन तद् विन्यस्तं भवेत् , प्रथमं B14- इत्यनेन सङ्केतितं कक्षं नुदाम: |
07:11 अधुना menu bar - मध्ये “Format”- पर्यायं तस्मात् च “Cells” इत्यत्र नुदतु |
07:18 अथवा , कक्षं दक्षिणेन नुदतु , “Format Cells” इत्यत्र नुदतु च |
07:24 भवान् पश्यति यत् “Format Cells”- संवादपिटक: उद्घटति |
07:28 संवादपिटके “Alignment” tab नुदतु |
07:31 संवादपिटकस्य अधोभागे “Shrink to fit cell size”- चयनिकां (check-box ) नुदतु तस्मात् च “OK” पिञ्जं नुदतु |
07:41 भवान् पश्यति यत् सम्पूर्णं लेख्यं सङ्कुचति , font - आकारं न्यूनीकृत्य च स्वत: एव समीभवति येन B14 -- सङ्केतिते कक्षे लेख्यं विन्यस्ति |
07:54 परिवर्तनानि अपाकुर्म: |
07:57 अत्र LibreOffice Calc - विषयकं Spoken Tutorial समाप्यते |
08:02 अस्माभि: पठितं संक्षेपेण -Calc - मध्ये सीमा-प्रारूपणं , पृष्ठभूमिवर्णा: |
08:09 "Automatic Wrapping " उपयुज्य लेख्यस्य अनेक-सीमानां प्रारूपणम् |
08:14 कक्षाणां विलीनीकरणम् | कक्षे विन्यस्तुम् अक्षरस्य सङ्कुचनम् |
08:19 व्यापक-परीक्षा |
08:21 “spreadsheet practice.ods” sheet उद्घाटयतु |
08:25 सर्वाणि शीर्षकाणि चिनोतु |
08:27 शीर्षकाणां कृते पृष्ठभूमिवर्णं नीलं करोतु |
08:31 “Automatic Wrapping” - उपयुज्य “This is a Department Spreadsheet” इति टङ्कयतु |
08:37 कक्षे विन्यस्तुं लेख्यमिदं सङ्कुचतु|
08:40 अधस्तनसंधाने उपलब्धं चलच्चित्रं पश्यतु |
08:43 इदं Spoken Tutorial - प्रकल्पं संक्षेपयति |
08:46 यदि भवत्सविधे उत्तमं bandwidth नास्ति तर्हि अवारोप्य तद् द्रष्टुं शक्यम् |
08:51 spoken tutorial गण: spoken tutorials उपयुज्य कार्यशाला: आयोजयति |
08:56 online - परीक्षाम् उत्तीर्णेभ्य: प्रमाणपत्रमपि ददाति |
09:00 कृपया अधिकज्ञानार्थं contact at spoken hyphen tutorial dot org संपर्कं करोतु |
09:06 Spoken Tutorial -प्रकल्प: , Talk to a Teacher - प्रकल्पभाग: |
09:11 असौ National Mission on Education through ICT, MHRD, भारतसर्वकारेण साहाय्यीकृत: |
09:18 अस्य अधिकज्ञानम् spoken hyphen tutorial dot.org slash NMEICT hyphen Intro इत्यत्र उपलभ्यते |
09:29 एतद् - पाठार्थं घाग - नन्दिन्या योगदानं कृतम् |
09:35 संपर्कार्थं धन्यवादा:|

Contributors and Content Editors

PoojaMoolya, Pravin1389, Sneha