Difference between revisions of "LaTeX/C2/LaTeX-on-Windows-using-TeXworks/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 9: Line 9:
 
|-
 
|-
 
|00:06
 
|00:06
|पाठेऽस्मिन् वयं कथं MikTeX इत्येतत् अवचित्य कथं इन्स्टाल् करणीयम्  इति अवगच्छामः।
+
|पाठेऽस्मिन् वयं कथं '''MikTeX''' इत्येतत् अवचित्य कथं इन्स्टाल् करणीयम्  इति अवगच्छामः।
  
 
|-
 
|-
 
|00:12
 
|00:12
|TeXworks इति उपयुज्य कथं प्राथमिकः '''LaTeX''' लेखः (document) लेखनीयः।
+
|'''TeXworks''' इति उपयुज्य कथं प्राथमिकः '''LaTeX''' लेखः (document) लेखनीयः।
  
 
|-
 
|-
 
|00:15
 
|00:15
|MikTeX इत्येतत् उपयुज्य अनुपलब्धसम्पुटान् (missing packages) अवचेतुं कथं Configure इति करणीयम्।
+
|'''MikTeX''' इत्येतत् उपयुज्य अनुपलब्धसम्पुटान् (missing packages) अवचेतुं कथं Configure इति करणीयम्।
  
 
|-
 
|-
 
|00:19
 
|00:19
|पाठममुं सज्जीकर्तुमहं '''Windows7 ''' अपि च MikTeX 2.9 इति संविधे उपयुज्यमानः अस्मि।
+
|पाठममुं सज्जीकर्तुमहं '''Windows7 ''' अपि च '''MikTeX 2.9''' इति संविधे उपयुज्यमानः अस्मि।
  
 
|-
 
|-
Line 125: Line 125:
 
|-
 
|-
 
|02:22
 
|02:22
|अहं '''File''' इतीदं नुदामि, पश्चात् '''Open''' इति नुत्वा directory इतीदं चिनोमि। पश्चादहं '''hello.tex''' इति सञ्चिकाम् उद्घाटयामि।
+
|अहं '''File''' इतीदं नुदामि, पश्चात् '''Open''' इति नुत्वा '''directory''' इतीदं चिनोमि। पश्चादहं '''hello.tex''' इति सञ्चिकाम् उद्घाटयामि।
  
 
|-
 
|-
Line 333: Line 333:
 
|-
 
|-
 
|07:13
 
|07:13
|अहं '''proxy''' इत्यस्य port सङ्ख्यां निवेशयामि।
+
|अहं '''proxy''' इत्यस्य '''port''' सङ्ख्यां निवेशयामि।
  
 
|-
 
|-
Line 405: Line 405:
 
|-
 
|-
 
|08:44
 
|08:44
|Windows इत्यस्य '''start''' इति कीलकं नुदन्तु।
+
|'''Windows''' इत्यस्य '''start''' इति कीलकं नुदन्तु।
  
 
|-
 
|-
Line 533: Line 533:
 
|-
 
|-
 
|11:12
 
|11:12
|इदं Spoken Tutorial Project इत्यस्य सारांशं ददाति। यदि भवतां सविधे समीचीनं bandwidth इति नास्ति तर्हि इदमवचित्य द्रष्टुं शक्नुवन्ति।
+
|इदं '''Spoken Tutorial Project''' इत्यस्य सारांशं ददाति। यदि भवतां सविधे समीचीनं bandwidth इति नास्ति तर्हि इदमवचित्य द्रष्टुं शक्नुवन्ति।
  
 
|-
 
|-
Line 541: Line 541:
 
|-
 
|-
 
|11:28
 
|11:28
|अधिकविचाराय contact@spoken-tutorial.org इत्यत्र अस्मान् सम्पर्कयन्तु।
+
|अधिकविचाराय '''contact@spoken-tutorial.org''' इत्यत्र अस्मान् सम्पर्कयन्तु।
  
 
|-
 
|-

Latest revision as of 16:57, 20 July 2020

Time Narration
00:01 भो मित्राणि, “LaTeX on Windows using TeXworks” इति नामके Spoken Tutorial इत्यस्मिन् पाठे स्वागतम्।
00:06 पाठेऽस्मिन् वयं कथं MikTeX इत्येतत् अवचित्य कथं इन्स्टाल् करणीयम् इति अवगच्छामः।
00:12 TeXworks इति उपयुज्य कथं प्राथमिकः LaTeX लेखः (document) लेखनीयः।
00:15 MikTeX इत्येतत् उपयुज्य अनुपलब्धसम्पुटान् (missing packages) अवचेतुं कथं Configure इति करणीयम्।
00:19 पाठममुं सज्जीकर्तुमहं Windows7 अपि च MikTeX 2.9 इति संविधे उपयुज्यमानः अस्मि।
00:27 TeXworks इत्यस्य मुख्यलक्षणानि पश्यामः।
00:31 इदं वेदिकास्वतन्त्रं विद्यते।
00:34 अस्मिन् pdf reader (पाठकं) इति निहितसंविधा वर्तते।
00:36 इदं भारतीयभाषालेखनम् उपष्टम्भते।
00:40 TeXworks इत्यस्य आरम्भात् प्राक् अस्माभिः MikTeX इतीदं प्रतिष्ठापनीयम्।
00:45 MikTeX इतीदम् TeX/LaTeX अपि च Windows इति सम्बद्धतन्त्रांशानाम् आधुनिकं परिपालनं विद्यते।
00:52 इदं Windows इत्यस्मिन् LaTeX इत्यस्य प्राथमिकलेखान् सज्जीकर्तुं अपेक्षितसम्पुटैः युक्तं वर्तते। अपि च TeXworks इतीदं MikTeX इत्यस्य उपलभ्यमानपूर्वन्यस्तसम्पादिका वर्तते।
01:04 www.miktex.org इदं जालपुटं गच्छन्तु।
01:10 पूजितं MikTeX इत्यस्य प्रतिष्ठापकं प्राप्तुं download इत्यत्र नुदन्तु। एतेन MikTeX इत्यस्य प्रतिष्ठापकम् अवचीयते।
01:19 इदम् अवचित्य भवतां Desktop इत्यस्मिन् रक्षन्तु।
01:22 इयमेका 154 mega bytes परिमिता बृहत् सञ्चिका वर्तते। अतः अवचेतुं समयः स्वीक्रियते।
01:28 मया एतावता इयं सञ्चिका अवचिता। अत्र वर्तते।
01:32 प्रतिष्ठापनार्थम् अस्याः उपरि द्विवारं नुदन्तु।
01:36 अङ्कनपेटिकाम् अङ्कयन्तु अपि च Next इति नुदन्तु।
01:40 सर्वान् पूर्वन्यस्तविकल्पान् चिन्वन्तु।
01:44 प्रतिष्ठापनं सामान्यतः पञ्चतः दशनिमेषान् स्वीकरोति।
01:47 मया एतावता MikTeX इतीदं मम संविधायां प्रतिष्ठापितम्। अतः पुनः प्रतिष्ठानं न करोमि।
01:55 भवतां संविधायां यशस्वीरूपेण MikTeX इत्यस्य प्रतिष्ठापनानन्तरं,
01:58 TeXworks सम्पादिका या MikTeX इत्यनेन सह आगच्छति सा कथम् उपयोज्या इति पश्यामः।
2:04 Windows start इति कीलकं नुदन्तु।
02:07 All Programs इतीदं नुदन्तु।
02:10 MikTeX2.9 इतीदं नुदन्तु।
02:12 TeXworks इतीदं नुदन्तु।
02:15 TeXworks इति सम्पादिका उद्घटते।
02:18 एतावता विद्यमानं LaTeX लेखम् उद्घाटयामि।
02:22 अहं File इतीदं नुदामि, पश्चात् Open इति नुत्वा directory इतीदं चिनोमि। पश्चादहं hello.tex इति सञ्चिकाम् उद्घाटयामि।
02:33 भवन्तः द्रष्टुं शक्नुवन्ति यत् सञ्चिकायां लिखितः पाठः वर्णयुक्तः अस्ति।
02:38 इदं syntax highlighting इत कथ्यतेि। इदम् उपयोक्त्रे पाठस्य अपि च LaTeX इत्यस्य विध्यादेशस्य च मध्ये अवकलनं कर्तुं सहकुरुते।
02:47 यदि LaTeX इत्यस्मिन् विध्यादेशः (syntax) नोद्वर्णितः तर्हि इदं कुर्वन्तु।
02:52 TeXworks इति सम्पादिकायां Format इति कीलकं नुदन्तु यत् Menu bar इत्यत्र उपलभ्यते।
02:59 Syntax Colouring इति चिन्वन्तु, पश्चात् LaTeX इति नुदन्तु।
03:03 यदि TeXworks इतीदं सर्वदा LaTeX लेखेषु syntax highlighting इति कुर्यात् तर्हि इदं कुर्वन्तु।
03:11 Menu bar इत्यस्मिन् Edit इति नुदन्तु अपि च पश्चात् Preferences इत्यत्र नुदन्तु।
03:16 Editor इत्यस्मिन् पतत्सूचीस्थकीलकं नुदन्तु यत् Syntax Colouring इति विकल्पं ददाति।
03:22 LaTeX इति चित्वा Ok इत्यत्र नुदन्तु।
03:27 एवं रूपेण, syntax highlighting इतीदं भविष्ये निर्मीयमानेषु सर्वेषु लेखेषु प्रयुक्तं भवति।
03:33 वयमिदानीम् अस्माकं LaTeX लेखं सङ्कलयितुं सिद्धाः।
03:37 सङ्कलनम् आरब्धुं Ctrl अपि च t इति पिञ्जौ सहैव नुदन्तु।
03:43 लेखस्य दोषरहितसङ्कलनानन्तरं pdf फलितं उद्घटते।
03:49 अवधेयताम् यत् अयं pdf पाठकः (reader) TeXworks इत्यनेन सह आगच्छति।
03:53 सङ्कलितान् pdf लेखान् प्रदर्शितुम् अयं पूर्वन्यस्तः pdf पाठकः वर्तते यः TeXworks इत्यनेन उपयुज्यते।
04:00 अस्माभिः LaTeX इत्यस्य प्राथमिकप्रतिष्ठापनं समापितम्।
04:04 इदम् अधिकांशतः प्रारूपणापेक्षाः पूरयति।
04:07 भवन्तः पाठममुं त्यक्तुं शक्नुवन्ति। LaTeX इत्यस्मिन् अवशिष्टपाठान् अभ्यसितुं शक्नुवन्ति।
04:14 अग्रिमपाठानाम् अभ्यासकाले कदाचित् दोषसूचनाः आगच्छेयुः - “The required file ABC is missing. It is a part of the following package: XYZ” इत्येवम्।
04:25 अत्र ABC इति सञ्चिका XYZ इत्यस्मिन् सम्पुटे वर्तते।
04:29 ABC अपि च XYZ भवतां सन्दर्भे विशिष्टं भवेत्।
04:33 यदा एवं दोषसूचना आगच्छति अस्य पाठस्य अग्रिमभागं पश्यन्तु।
04:38 द्विधा सा समस्या परिहर्तुं शक्या यत् अस्मिन् अवशिष्टे पाठे निरूपितम्। तत्र अन्यतरं समाधानं ददाति।
04:46 पुनर्मिलामः।
04:48 भवन्तः ईदृशसमस्याः कथं परिहार्याः इति ज्ञातुमिच्छन्ति वा? तर्हि अवशिष्टपाठं दृष्ट्वा मया सह अभ्यसन्तु।
04:56 इदानीं Beamer इति लेखं सङ्कलयामः।
04:59 Beamer इति सम्पुटः MikTeX इत्यस्मिन् न पूर्वन्यस्तः, अर्थात् अस्माभिः न प्रतिष्ठापितम्।
05:05 अस्यार्थः, अस्माभिः इदमेकस्मात् मूलात् अवचित्य वर्तमानकालीने MikTeX distribution इत्यस्मिन् योजनीयम् इति।
05:12 तत्र अस्ति मार्गद्वयम् अनुपलब्धसम्पुटस्य प्रतिष्ठापनार्थम्।
05:16 एकः मार्गः - LaTeX लेखस्य सङ्कलनकाले एव प्रतिष्ठापनम्।
05:21 अयं LaTeX लेखः सामान्यतः एकं सम्पुटम् अपेक्षते यः MikTeX distribution इत्यत्र नोपलभ्यते।
05:28 अपरः मार्गः - MikTeX इत्यस्य Package Manager इतीदमुपयुज्य स्वहस्ततः सम्पुटस्य चयनं प्रतिष्ठापनं च।
05:35 प्रथममार्गं पश्यामः।
05:37 वयमेकं LaTeX लेखमुद्घाट्य सङ्कलयामः, यः MikTeX इदीदम् अन्तर्जालात् सम्पुटं प्रतिष्ठापयितुं वदति।
05:44 प्रतमं TeXworks सम्पादिकां पिदध्मः।
05:48 इदमनिवार्यं यत् अस्माभिः tex सञ्चिका व्यवस्थापकाधिकारेण उद्घाटनीया।
05:53 Start कीलकं नुदन्तु। पश्चात् All programs इत्यत्र नुदन्तु। MikTeX2.9 इत्यत्र नुदन्तु।
06:02 TeXworks इत्यत्र दक्षिणनोदनं कृत्वा Run as Administrator इति चिन्वन्तु।
06:08 अनेन TeXworks सम्पादिका व्यवस्थपकाधिकारेण सह उद्घटते।
06:13 इदानीं File इत्यत्र नुदन्तु। पश्चात् Open इत्यत्र नुदन्तु। beamer.tex इति सञ्चिकां चिन्वन्तु।
06:21 सङ्कलनमारब्धुं Ctrl अपि च t इति सहैव नुदन्तु।
06:26 Package Installation इति संवादपेटिका उद्घटते।
06:30 beamer.cls इति अनुपस्थितसम्पुटं प्रतिष्ठापयितुं पृच्छति।
06:35 संवादपेटिकायां Change इति कीलकं नुदन्तु।
06:40 Change Package Repository इति संवादपेटिका उद्घटते।
06:44 Packages shall be installed from the internet इति विकल्पं चिन्वन्तु।
06:49 Connection Settings इत्यत्र नुदन्तु।
06:52 proxy settings परिवर्तयितुमिदं सूचयति।
06:56 यदि भवन्तः proxy network इत्यस्य उपयोगं न कुर्वन्तः सन्ति तर्हि Use proxy server checkbox अचितमेव त्यजन्तु।
07:03 यतः अहं proxy network इत्यस्मिन्नस्मि, अहमिमं विलल्पं चिनोमि।
07:09 अहं proxy सङ्केतं निवेशयामि।
07:13 अहं proxy इत्यस्य port सङ्ख्यां निवेशयामि।
07:16 तत्संवाद्यङ्कपेटिकाचयनपूर्वकम् अहं Authentication required इति विकल्पं चिनोमि ।
07:23 Ok इत्यत्र नुत्वा Next इति नुदन्तु।
07:27 proxy username अपि च password पृछ्येते।
07:31 अहं सूच्यांशं निवेश्य OK इति नुदामि।
07:36 विविधसम्पुटकोशानाम् आवलिः उद्घट्यते।
07:41 आवल्यामेकं चित्वा Finish इति नुदन्तु।
07:45 Install इति नुदन्तु।
07:48 beamer.cls इति सम्पुटः प्रतिष्ठाप्यते।
07:52 पुनरपि Package Installation इति संवादपेटिका उद्घटते।
07:57 अनुपस्थितसम्पुटं pgfcore.sty इति प्रतिष्ठापयितुं सूचयति।
08:03 भवन्तः Always show this dialog before installing packages इति विकल्पं न चेतुमपि शक्नुवन्ति।
08:09 यदि एवं क्रियते तर्हि MikTeX इतीदं अनुपस्थितसम्पुटे विद्यमाने सति पुनः सूचनां न ददाति।
08:16 Install इत्यत्र नुदन्तु।
08:18 यदि तत्र अनुपस्थितसम्पुटाः सन्ति तर्हि भवताम् अनुमतिं विना स्वयमेव प्रतिष्ठापनं करोति।
08:28 प्रतिष्ठापनानन्तरं सङ्कलनं करोति अपि च pdf फलितम् उद्घाटयति।
08:35 वयं द्रष्टुं शक्नुमः यत् वयं यशस्वीरूपेण Beamer लेखं सङ्कलितवन्तः।
08:39 अनुपस्थितसम्पुटानां प्रतिष्ठापनार्थम् इदानीं द्वितीयं मार्गं पश्यामः।
08:44 Windows इत्यस्य start इति कीलकं नुदन्तु।
08:47 All Programs इति नुदन्तु।
08:49 MikTeX2.9 इति नुदन्तु।
08:52 Maintenance (Admin) इति नुदन्तु।
08:55 Package Manager (Admin) इतीदं नुदन्तु।
09:00 विविधाः उपलभ्यमानसम्पुटाः दृश्यन्ते।
09:04 इदानिम् आवलिं पश्यामः।
09:07 तत्र आवल्यां षट् स्तम्भाः सन्ति।
09:10 ते Name, Category, Size, Packaged date, Installed on date इति Title सन्ति।
09:18 Installed on इति स्तम्भः अस्मत् कृते बहु प्रमुखः।
09:22 यस्य सम्पुटस्य स्तम्भः रिक्तः वर्तते तस्यार्थः सः सम्पुटः नैतावता प्रतिष्ठापितः इति।
09:29 पश्यामः कथम् अपेक्षितसम्पुटः प्रतिष्ठापनीयः इति।
09:33 उदाहरणार्थम् abc इति सम्पुटं चिनुमः।
09:38 पश्यन्तु यत् यदा अहं सम्पुटं चिनोमि तदा plus इति कीलकं सशक्तं भवति।
09:45 plus इति कीलकं प्रतिष्ठापनकीलकम्। अतः plus इति कीलकं नुदन्तु।
09:50 एका संवादपेटिका उद्घटये यत्र सम्पुटानामावलिः दृश्यते प्रतिष्ठापनाय अथवा अप्रतिष्ठापनाय च चयनावसरः मिलति।
09:58 Proceed इत्यत्र नुदन्तु।
10:01 यतः मया proxy network उपयुज्यते अतः proxy username अपि च password प्रदातुं सूचयति।
10:08 अहं username अपि च password निवेशयामि।
10:11 Ok इति नुदन्तु।
10:13 एका संवादपेटिका उद्घटये यत्र चितस्य सम्पुटस्य प्रतिष्ठापनप्रगतिः दृश्यते।
10:20 कदाचित् प्रार्थितसम्पुटस्य अवचययनम् असफलं भवेत् remote server connectivity इति समस्याकारणात्।
10:26 तस्मिन् सन्दर्भे, सम्पुटकोशं परिवर्त्य पुनः प्रयतताम्।
10:31 वयं द्रष्टुं शक्नुमः यत् चितसम्पुटस्य प्रतिष्ठापनं समाप्तम्।
10:36 Close इत्यत्र नुदन्तु।
10:38 सम्पुटावलिः नवीकृता भवति।
10:41 पश्यन्तु यत् 11 September 2013 इति दिनाङ्कः abc इति सम्पुटस्य Installed on इति स्तम्भे दृश्यते।
10:49 अनेन अस्य LaTeX on Windows using TeXworks इति पाठस्य समाप्तिः भवति।
10:54 पाठेऽस्मिन् वयमभ्यस्तवन्तः कथं MikTeX इतीदम् अवचित्य प्रतिष्ठापनीयमिति।
10:59 TeXworks इतीदमुपयुज्य LaTeX इत्यस्मिन् प्राथमिकलेखस्य लेखनम्।
11:03 अनुपस्थितसम्पुटान् अवचेतुं MikTeX इत्यस्य विन्यासः मार्गद्वयेन कथं करणीयः इति।
11:08 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial अत्र उपलभ्यमानं चलच्चित्रं पश्यन्तु।
11:12 इदं Spoken Tutorial Project इत्यस्य सारांशं ददाति। यदि भवतां सविधे समीचीनं bandwidth इति नास्ति तर्हि इदमवचित्य द्रष्टुं शक्नुवन्ति।
11:18 Spoken Tutorial Project इत्यस्य गणः Spoken Tutorials इति पाठान् उपयुज्य कार्यशालाः चालयति अपि च प्रमाणपत्राणि ददाति ये साङ्गणिकपरीक्षायाम् उत्तीर्णाः भवन्ति।।
11:28 अधिकविचाराय contact@spoken-tutorial.org इत्यत्र अस्मान् सम्पर्कयन्तु।
11:33 Spoken Tutorial Project इतीदं Talk to a Teacher Project इत्यस्य भागः। इदं National Mission on Education through ICT, MHRD, Government of India इत्यनेन अनुदानितम्।
11:45 अस्य निगमस्य विषये अधिकाः विचारः spoken-tutorial.org /NMEICT-Intro इत्यत्र उपलभ्यते।
11:56 धन्यवादः।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Vasudeva ahitanal