Koha-Library-Management-System/C2/OPAC/Sanskrit

From Script | Spoken-Tutorial
Revision as of 12:22, 18 November 2019 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 How to use OPAC इति अनुशिक्षणे भवद्भ्यः स्वागतम् ।
00:06 अस्मिन् अनुशिक्षणे वयं : Search उपयुज्य, किञ्चन item कथम् अन्वेष्टव्यम्?
00:13 तथाAdvance Search उपयुज्य item कथम् अन्वेष्टव्यम् इति पठामः ।
00:18 एतत् अनुशिक्षणं रेकार्ड् कर्तुमहं :

Ubuntu Linux OS 16.04 तथा Koha आवृत्तिः 16.05 एतानि उपयुञ्जे ।

00:32 एतत् अनुशिक्षणम् अनुसर्तुं भवद्भिः ग्रन्थालयविज्ञानम् अधीतं स्यात् ।
00:38 एतदनुशिक्षणम् अभ्यस्तुं भवद्भिः Koha भवतां यन्त्रे इन्स्टाल् करणीयम् ।
00:44 तथा Koha मध्ये Admin अभिगमः (access) प्राप्तव्यः ।
00:49 अन्यथा अस्मिन् जालपुटे Koha spoken tutorial सरणिं पश्यन्तु ।
00:56 आदौ अहम् इतोऽपि द्वयं Microbiology पुस्तकं योजयामि ।
01:02 एतेषु एकस्य पुस्तकस्य लेखकः Powar and Daginawala तथा अन्यत् Heritage इत्येतेषाम् ।
01:12 इदानीं मम ग्रन्थलये आहत्य ३ पुस्तकानि सन्ति ।
01:17 अग्रे गमनात् प्राक्, प्राचीनानुशिक्षणे यथा विवृतं, कृपया भवद्भिः इष्टं पुस्तकद्वयं भवतां ग्रन्थालये योजयन्तु ।
01:27 भवतां 'वेब् ब्रौसर्' उद्घाटयन्तु तथा एवं टङ्कनं कुर्वन्तु : 127.0.1.1/8000
01:39 एतत् 'URL' इन्स्टलेषन् काले दत्तं 'पोर्ट् नम्बर्' तथा 'डोमैन्' नाम आधारीकृत्य वर्तते ।
01:47 कृपया भवन्तः आदौ यथा उक्तं तद्वत् टङ्कनं कुर्वन्तु । इदानीं Enter नुदन्तु ।
01:54 होम् पेज् Welcome to Spoken Tutorial Library उद्घाटयति ।
02:00 उपरि वामभागे Library catalog ड्राप्-डौन् तः, वयं अधोनिर्दिष्ट-आप्षन्-द्वारा अन्वेष्टुं शक्नुमः :
02:09 Title, Author , Subject, ISBN , Series तथा Call number.
02:22 अत्र, दक्षिणभागे अहं Microbiology इति टङ्कनं करोमि तथा स्थलस्य दक्षिणभागे Go इत्यस्य उपरि क्लिक् करोमि ।
02:33 Microbiology इति पदान्वितानि ग्रन्थालयस्य सर्वाणि वस्तूनि फलितांशे पट्टिकारूपेण स्थापितानि ।
02:40 एतैः अन्वेष्टव्यपदैः सह कृतपट्टिकानाम् 'ऐटम्' इत्येतेषाम् उपयोक्तॄणां चयनानुगुणं पुनः विभक्तुं शक्यते ।
02:47 तथा कर्तुं, पट्टिकायाः वामपार्श्वं गत्वा Relevance इति टेब् उपरि क्लिक् कुर्वन्तु ।
02:54 ड्राप्-डौन्-तः, अहं Author (A-Z) चिनोमि ।
03:00 भवतां आवश्यकतानुसारम्, अन्यत् यत्किमपि option चेतुं शक्यते ।
03:06 Author (A-Z) चयनानन्तरं, Authors इत्येतेषां पट्टिका वर्णमालाक्रमेण दृश्यते ।
03:14 कृतपट्टिकानाम् ऐटम्स् इत्येतेषां विषयाणां शीर्षकायाः अधोभागे पश्यन्तु। अत्र सर्वेषु ग्रन्थालयेषु निर्दिष्ट-item लभ्यते वा इति द्रष्टुं शक्नुमः ।
03:26 अत्र उत्तमफलितांशाय अस्माकम् अन्वेषणं कथं परिवर्तयितुं शक्यते?
03:31 वामभागे विद्यमान ‘Refine Your Search' इति टेब् क्लिक्-करणद्वारा एवं कर्तुं शक्यते ।
03:39 तदनन्तरं, Availability, Authors, Item Types तथा Topics विभागानाम् अधः, विविध-ट्याब्स् प्राप्नुवन्तु ।
03:52 इदानीं सामान्यतया अन्वेषणसमये अस्माभिः अपेक्षितं न लभ्यते चेत् किं करणीयमिति पश्यामः ।
04:01 Search Catalog पृष्ठे Advanced Search इति पर्चन्याः उपरि क्लिक् कुर्वन्तु ।
04:07 Search for इति शीर्षकेण सह नूतनपृष्ठम् उद्घाट्यते ।
04:13 बहूनि ड्राप्-डौन्-आप्षन्स् उपयुज्य आवश्यकवस्तूनाम् अन्वेषणानि अस्माभिः परिष्कर्तुं शक्यते ।
04:21 वामभागे प्रथमड्राप्-डौन् तः :

Keyword, Subject , Title , Author , Publisher, Publisher Location, ISBN तथा Barcode इव युक्तम् आप्षन् चिन्वन्तु ।

04:40 अहं Subject चिनोमि । तथा दक्षिणभागे, वामभागस्य ड्राप्-डौन् तः चितेभ्यः आप्षन्स्-विवरणानां टङ्कनं करोमि ।
04:51 अत्र Microbiology इति टङ्कनं करोमि ।
04:55 द्वितीयड्राप्-डौन् आप्षन् उपयुज्य , Author Patel इति चिनोमि ।
05:03 तृतीयड्राप्-डौन् आप्षन् उपयुज्य, Publisher Pearson इति चिनोमि ।
05:11 अस्मिन्नेव पृष्ठे, Item Type इति विभागस्य अधः विद्यमानानि अन्यानि आप्षन्स् पश्यतु ।
05:18 Book, Reference Serial च ।
05:23 तदनन्तरं - Publication date range, Language Sorting च आप्षन्स् वर्तन्ते ।
05:34 Item Type विभागस्य अधः, Books निमित्तं वर्तमान-रेडियो-बटन् क्लिक् कुर्वन्तु ।
05:41 Publication date range अहं रिक्तं त्यजामि ।
05:46 Language निमित्तं ड्राप्-डौन् तः English चिन्वन्तु ।
05:52 Sorting विभागस्य अधः Sort by: निमित्तं Author (A-Z) चिनोमि ।
06:00 सर्वाणि विवरणानि पूरयित्वा पृष्ठस्य अधः Search उपरि क्लिक् कुर्वन्तु ।
06:07 एतत् पृष्ठम्

Subject Microbiology इति ।

06:16 Author Patel Arvind H. इति ।
06:20 Publisher इत्येतत् Pearson इति युक्त-सर्व-ऐटम्-लिस्ट्-सहितं भवति ।
06:23 इदानीं, वयं Advanced Search पृष्ठं प्रत्यागत्य, Search for विभागस्य अधः More Options बटन् उपरि क्लिक् कुर्मः ।
06:36 एवं क्रियते चेत् , Advanced search पृष्ठस्य विन्यासः परिवर्त्यते ।
06:42 पुनः, प्रथम-ड्राप्-डौन्-मध्ये अहं Subject चिनोमि ।
06:48 अनन्तरं Microbiology इति टङ्कनं करोमि ।
06:52 इदानीम् आप्षन्स्-द्वितीय-पङ्क्तिं प्रति आगच्छन्तु ।
06:56 प्रथम-ड्राप्-डौन् मध्ये, अहं “and” इति आप्षन् एवमेव त्यजामि ।
07:03 तथा दक्षिणभागे विद्यमान-ड्राप्-डौन् मध्ये “Author” चिनोमि ।
07:08 तदनन्तम् अस्य दक्षिणभागे, “Patel” इति टङ्कनं करोमि ।
07:13 अनन्तरम् आप्षन्-तृतीयपङ्क्तिं प्रति आगच्छतु ।

प्रथम-ड्राप्-डौन् मध्ये, “or” इति आप्षन् चिन्वन्तु ।

07:22 तथा, दक्षिणभागे ड्राप्-डौन् मध्ये, अहं “Author” चिनोमि ।
07:28 तदनन्तरम् ,अस्य दक्षिणभागे, “Heritage” इति टङ्कनं करोमि ।
07:33 अवश्यकता अस्ति चेत् , Item type विभागस्य अधः search आप्षन् उपयुज्य अथवा अवशिष्ट-आप्षन् उपयुज्य भवन्तः अन्वेषणं कर्तुं शक्नुवन्ति ।
07:45 सर्वाणि विवरणानि पूरयित्वा विभागस्य अधः विद्यमान-Search बटन् उपरि क्लिक् कुर्वन्तु ।
07:52 OPAC उपयुज्य, ग्रन्थालयस्य Item निमित्तं वयम् एवम् अन्वेषणं कर्तुं शक्नुमः ।
07:58 अस्मिन् अनुशिक्षणे, उपयोक्तृभिः ग्रन्थालयस्य Item कथं सरलतया अन्वेष्टव्यम् इति भवन्तः पठितवन्तः ।
08:05 अनेन सह वयम् अस्य अनुशिक्षणस्य अन्ते स्मः ।
08:08 सङ्क्षेपेण -

अस्मिन् अनुशिक्षणे वयं , Search उपयुज्य

08:17 तथा Advance Search उपयुज्य किञ्चन ऐटं कथम् अन्वेष्टव्यम् इति पठितवन्तः ।
08:22 गृहकार्य-निमित्तम् -

Biology कीवर्ड् उपयुज्य, OPAC मध्ये जर्नल्-पट्टिकाम् अन्विषन्तु ।

08:30 अस्यां पर्च्यन्यां यदस्ति चलच्चित्रं तत्तु स्पोकन् ट्युटोरियल् सारांशः । कृपया डौन्-लोड्-कृत्वा पश्यन्तु ।
08:37 स्पोकन् ट्युटोरियल् प्राजेक्ट् गणः कार्यशालाः सञ्चालयति तथा आन्लैन् परीक्षाः अपि चालयति । उत्तीर्णेभ्यः प्रमाणपत्रं च यच्छति । अधिकविवरणार्थम् अस्माकं सम्पर्कं कुर्वन्तु ।
08:47 भवतां प्रश्नान् निमेष-सेकेण्ड्-सहितम् अत्र फोरं-मध्ये पोस्ट् कुर्वन्तु ।
08:51 स्पोकन् ट्युटोरियल् प्रोजेक्ट्-निमित्तं NMEICT, MHRD, भारतसर्वकारस्य धनसहायं प्राप्तम् । अस्याः योजनायाः विषये अधिकं विवरणम् अत्र पर्चन्याम् उपलभ्यते ।
09:03 अस्य अनुशिक्षणस्य अनुवादकः डा. उदयन हेगडे, प्रवाचकश्च नवीनभट्टः, उप्पिनपट्नम् ।

धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14, Udayana