Difference between revisions of "KTurtle/C2/Introduction-to-KTurtle/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border =1 |'''Time''' |'''Narration''' |- |00:01 ||सर्वेभ्यः नमस्कारः। '''Introduction to KTurtle''' इति विषयकेऽस...")
 
 
Line 367: Line 367:
 
|-
 
|-
 
||09:27
 
||09:27
|| '''Save As''' संवादपेटिका (Dialogue box) उद्घटते।
+
|| '''Save As''' संवादपेटिका (Dialog box) उद्घटते।
 
|-
 
|-
 
||09:30
 
||09:30

Latest revision as of 16:02, 28 October 2020

Time Narration
00:01 सर्वेभ्यः नमस्कारः। Introduction to KTurtle इति विषयकेऽस्मिन् प्रशिक्षणे भवद्भ्यः स्वागतम्।
00:07 प्रशिक्षणेऽस्मिन् अहं भवद्भ्यः KTurtle आरब्धुम् अपेक्षितान् प्राथमिकांशान् परिचाययामि।
00:14 अस्मिन् प्रशिक्षणे वयम्,
00:17 * KTurtle window
00:19 * Editor
00:20 * Canvas
00:21 * Menu Bar
00:22 * अपि च Toolbar इतीत्यादीन् अंशान् अभ्यसामः।
00:24 वयम्,
00:26 * Turtle इत्यस्य चालनं (moving)
00:28 * रेखाणां चित्रणम् अपि च दिशां परिवर्तनं, तथा च
00:32 * त्रिभुजस्य आरचना इत्यादीनां विषयेऽपि ज्ञास्यामः।
00:34 अमिन् प्रशिक्षणे अहम्,
  • उबण्टु लिनक्स् इत्यस्य 12.04 इति आवृत्तेः,
  • KTurtle इत्यस्य 0.8.1 बीटा इति आवृत्तेः च उपयोगं करोमि।
00:47 किं नाम KTurtle?
00:49 KTurtle इति प्राथमिकस्तरे प्रोग्रामिंग् अध्येतुं विद्यमानं निश्शुल्कं साधनं वर्तते।
00:53 एतत्, सङ्गणकस्य साहाय्येन संवादात्मक-शिक्षणं प्राप्तुं उपयुक्तं अस्ति।
00:59 KTurtle इतीदम् अधोनिर्दिष्टायां शृङ्खलायां अवतारयितुं/अवचयितुं शक्यते - http://edu.kde.org/kturtle/
01:12 'KTurtle' इत्यनेन प्रोग्रामिंग् सरलं सुलभसाध्यं च भवति।
01:18 * छात्रेभ्यः गणितस्य प्राथमिकपाठं पाठयितुं साहाय्यम् आचरति।
01:22 * आदेशान् प्रोग्रामिंग्-कर्तुः भाषायाम् अनुवादयति।
01:27 * आदेशान् दृश्यरूपेण परिवर्तयति।
01.31 वयं Synaptic Package Manager इत्यस्य उपयोगेन KTurtle इतीदं संस्थापयितुं शक्नुमः।
01:36 Synaptic Package Manager इत्यस्य विषये अधिकं ज्ञातुं,
01:40 कृपया अस्माकं जालपत्रे विद्यमानानि Ubuntu Linux प्रशिक्षणानि पश्यन्तु - http://spoken-tutorial.org
01:46 अधुना किञ्चन नूतनं KTurtle अनुप्रयोगं (Application) उद्घाटयामः।
01:50 Dash home इत्यस्य उपरि नुदन्तु।
01:52 अन्वेषकपट्टिकायां, "KTurtle" इति टङ्कयन्तु,
01:55 अपि च KTurtle इत्यस्य चित्रकस्य (Icon) उपरि नुदन्तु।
01:59 किञ्चन चिशिष्टं KTurtle window एवं दृश्यते।
02:02 इदं Menu-bar अस्ति।
02:04 मेन्यु बार इत्यस्य उपरिभागे,
02:06 अधोनिर्दिष्टाः अंशाः दृश्यन्ते -
02:08 File, Edit, Canvas, Run, Tools, Settings अपि च Help
02:17 टूलबार मध्ये भवन्तः बहुधा उपयुज्यमानान् विषयान् प्राप्नुवन्ति।
02:23 Editor वामपार्श्वे अस्ति। अत्र भवन्तः TurtleScript इत्यस्य अदेशान् टङ्कयितुं शक्नुवन्ति।
02:30 एडिटर् इत्यस्य बहवः अंशाः File अपि च Edit मेन्युमध्ये दृश्यन्ते।
02:37 एडिटर् मध्ये आदेशान् उल्लिखितुं बहवः मार्गाः सन्ति।
02:42 बहु सरलः मार्गः अस्ति उदाहरणानाम् उपयोगः।
02:46 File इत्यत्र गत्वा > Examples इतीदं चिन्वन्तु।
02:50 अत्राहं flower इतीदं चिनोमि।
02:53 चितः उदाहरणस्य आदेशः एडिटर् मध्ये उद्घटते।
02:58 आदेशं चालयितुं Menu bar अथवा Tool bar मध्यस्थं Run पिञ्जं नुदन्तु।
03:04 अपरः मार्गः अस्ति, साक्षात् एडिटर् मध्ये भवताम् एव आदेशानां लेखनम् इति।
03:10 अथवा, कस्याश्चित् अन्याश्चित् KTurtle सञ्चिकायाः
03:13 कमपि आदेशं एडिटर् मध्ये copy/paste करणम्।
03:18 क्यान्वास दक्षिणभागे अस्ति। अत्र Turtle भवतां चित्राणि चित्रयति।
03:24 Turtle, एडिटर् मध्ये प्राप्तान् आदेशान् अनुसृत्य क्यान्वास् मध्ये रचनाम् आरचयति।
03:32 टूल बार् मध्यस्थः Run पिञ्जः एडिटर् मध्यस्थानाम् आदेशानां क्रियान्वयनम् आरभते।
03:39 एतत्, क्रियान्वयवेगानां कांश्चित् पट्टिकां प्रदर्शयति।
03:43 Full speed (No highlighting and inspector),
03:46 Full speed,
03:48 Slow,
03:49 Slower,
03:51 Slowest अपि च
03:52 Step-by-Step.
03:55 Abort अपि च Pause इत्येतौ अंशौ क्रमशः क्रियान्वयनं व्यापादयितुं (Abort) स्थगयितुं (Pause) अनुमिनुतः।
04:03 अधुना, आदेशमिमं चालयामः।
04:06 क्यानवास् मध्ये Turtle किञ्चन पुष्पं चित्रयति।
04:11 भवन्तः नूतनं KTurtle अनुप्रयोगं (Application) यदा उद्घाटयन्ति तदा,
04:15 उत्सर्गरूपेण Turtle क्यान्वास इत्यस्यस्मिन् भवति
04:19 अधुना वयं Turtle इत्यस्य स्थानं परिवर्तयामः।
04:22 Turtle इतीदं त्रिविधं चालनं करोति।
04:25 एतत्, पुरतः - पृष्टतः चलति।
04:29 एतत्, दक्षिणतः - वामतः चलति।
04:32 एतत्, पटले किञ्चिद् अपि स्थानं प्रति साक्षात् प्लुतिं कर्तुं शक्नोति।
04:38 स्पष्टतया दृष्टुम् अहं प्रोग्राम्-लेखस्य उपसर्पणं (zoom in) करोमि।
04:44 किञ्चन सरलम् उदाहरणं पश्यामः।
04:48 भवताम् एडिटर् मध्ये, एवम् आदेशान् लिखन्तु -
04:52 reset
04:55 forward 100
04:58 turnright 120
05:02 forward 100
05:07 turnright 120
05:11 forward 100
05:15 turnright 120
05:18 अवधार्यन्तां यत्, यथा यथा वयं लिखामः तथा तथा आदेशानां वर्णः परिवर्त्यते इति।
05:23 लक्षणमिमं highlighting इति वदामः।
05:26 विविधविधाः आदेशाः विविधरीत्या उद्वर्णिताः (highlighting) सन्ति।
05:31 एतेन, अदेशानां बृहद्गुच्छं सरलतया पठितुं शक्नुमः।
05:36 अधुना अहम् अदेशान् विवृणोमि।
05:38 reset आदेशः, Turtle इतीदम् उत्सर्गस्थितौ स्थापयति।
05:42 forward 100 इत्ययं Turtle इतीदं 100 पिक्सेल-परिमितम् अग्रे चलितुं आदिशति।
05:49 turnright 120 इत्ययं Turtle इतीदं 120 डिग्री-परिमितम् अप्रदक्षिणपथे भ्रमितुम् आदिशति।
05:56 किञ्चन त्रिभुजम् आरचयितुम् उपर्युक्तौ आदेशौ वारत्रयं पुनरावर्तितौ इति अवधार्यताम्।
06:03 अधुना आदेशस्य कार्यान्वयनं कुर्मः।
06:06 अहं Slow इति विधं चिनोमि। एतेन वयं कः आदेशः क्रियान्विन्वयमानः अस्ति इति ज्ञातुं शक्नुमः।
06:16 अत्र त्रिभुजः आरचितः वर्तते।
06:19 अधुना उदाहरणान्तरं पश्यामः, अस्माकं क्यानवास् इतीदं कथं सुन्दरं कर्तुं शक्नुमः इत्यपि अभ्यसामः।
06:26 वयं repeat आदेशम् उपयुज्य त्रिभुजम् आरचयामः।
06:30 वर्तमानं प्रोग्राम इतीदम् अहं निवारयामि।
06:33 स्पष्टतया दृष्टुम् अहं प्रोग्राम्-लेखस्य उपसर्पणं (zoom in) करोमि।
06:38 भवतां एडिटर् मध्ये आदेशमिमं लिखन्तु -
06:41 reset
06:44 canvassize space 200, 200
06:51 canvascolor space 0, 255, 0
07:00 pencolor space 0, 0, 255
07:08 penwidth space 2
07:12 repeat space 3 पुष्पावरणे {
07:19 forward 100
07:23 turnleft 120

}

07:27 अधुना अहं भवद्भ्यः आदेशं विवृणोमि।
07:30 reset आदेशः Turtle इतीदं तस्य उत्सर्गस्थितौ स्थापयति।
07:34 canvassize 200, 200 इत्ययं, क्यान्वास इत्यस्य विवैशाल्यम् औन्नत्यं च 200 पिक्सेल्-परिमितौ स्थापयति।
07:42 canvascolor 0, 255, 0 इत्ययं, क्यान्वास् इतीदं हरितवर्णीयं करोति।
07:48 0, 255 ,0 इत्ययं कश्चन RGB इत्यस्य संयोजना वर्तते। अत्र केवलं हरितस्य मूल्यं 255 परिमितम् अपि च अन्येषां 0 इति स्थापितं वर्तते।
08:03 अयं क्यान्वास् इतीदं हरितवर्णीयं करोति।
08:07 pencolor 0, 0, 255 इत्ययं, लेखन्याः वर्णं नीलं करोति।
08:14 RGB संयोजनायां नीलवर्णस्य मौल्यं 255 इति अस्ति।
08:20 penwidth 2 इत्ययं, लेखन्याः वैशाल्यं 2 पिक्सेल्-परिमितं स्थापयति।
08:27 repeat अदेशात् अनन्तरं काचित् सङ्ख्या अपि च पुष्पावरणस्य अन्तः आदेशानां सूची वर्तते।
08:33 अयं, पुष्पावरणे सूचितान् आदेशान् सङ्ख्यया यावद्वारं सूचितं तावद्वारं पुनरावर्तयति।
08:39 अत्र forward 100 अपि च turnleft 120 इत्यादेशौ पुष्पावरणे स्तः।
08:47- repeat आदेशात् अनन्तरं सङ्ख्या 3 अस्ति। यतोहि, एकस्मिन् त्रिकोने भुजत्रयं वर्तते।
08:54 एतान् आदेशान् loop मध्ये वारत्रयं चालयामः।
08:59 एवं त्रिभुकोनस्य भुजत्रयम् आरचितं वर्तते।
09:02 अधुना आदेशं चालयामः।
09:05 अहं प्रोग्राम् कार्यान्वयनं कर्तुं slow स्तरं चिनोमि।
09:09 क्यान्वास् इतीदं हरितवर्णीयं भवति अपि च Turtle इतीदं त्रिभुजम् आरचयति।
09:20 अधुना सञ्चिकां रक्षामः।
09:23 File मेन्यु-मध्ये Save As इतीदं चिन्वन्तु।
09:27 Save As संवादपेटिका (Dialog box) उद्घटते।
09:30 अहं सञ्चिकां रक्षितुं Document सन्धारिकां चिनोमि।
09:34 अहं सञ्चिकायाः नाम "Triangle" इति टङ्कयामि अपि च Save पिञ्जं नुदामि।
09:41 सञ्चिकायाः नाम उपरितने फलके दृश्यते अपि च एषा सर्वाः Turtle-सञ्चिकाः इव dot turtle सञ्चिकारूपेण रक्षिता अस्ति।
09:53 एतेन वयम् अस्य प्रशिक्षणस्य अन्तम् आगताः।
09:57 सङ्क्षेपेण,
09:59 अस्मिन् प्रशिक्षणे वयं -
10:02 * KTurtle इत्यस्य एडिटर्, क्यान्वास्, मेन्युबार् अपि च टूलबार्,
10:07 * Turtle इत्यस्य चालनं (moving)
10:09 * रेखालेखनं, दिक्परिवर्तनम् अपि च
10:13 * त्रिभुजारचनम् अभ्यस्तवन्तः।
10:15 स्वाभ्यास्यार्थं, भवन्तः *forward, backward, turnleft, turnright अपि च repeat इत्येतान् आदेशान् उपयुज्य किञ्चन चतुर्भुजाकृतिं आरचयन्तु।
10:26 * तस्मै भवदभीष्टं background color, penwidth अपि च pencolor इत्यादीनि स्थापयन्तु।
10:32 * RGB संयोजनायाः मौल्यानि अपि परिवर्तयन्तु।
10:37 अस्मिन् URL मध्ये दृश्यमाणं चलच्चित्रं पश्यन्तु। http://spoken-tutorial.org/What_is_a_Spoken-Tutorial
10:40 एतत् स्पोकन् ट्युटोरियल् प्रकल्पस्य सारांशं ज्ञापयति।
10:44 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
10:48 स्पोकन् ट्युटोरियल् प्रकल्पगणः
10:50 * पाठमिममुपयुज्य कार्यशालां चालयति।
10:53 * ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्य प्रमाणपत्रमपि ददाति।
10:56 अधिकविवरणार्थं contact @spoken-tutorial.org इति अणुसङ्केते सम्पृच्यताम्।
11:03 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।
11:08 इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति।
11:15 अधिकविवरणार्थम् अधो विद्यमानं लिंक् पश्यन्तु।
- http://spoken-tutorial.org/NMEICT-Intro ]. 
11:20 अस्य आलेखस्य योगदानं IT for Change Bangaluru इत्येतैः कृतम्।
11:24 अस्य पाठस्य अनुवादकः ऐ ऐ टी बांबेतः वासुदेवः प्रवाचकश्च ऐ ऐ टी बांबेतः वासुदेवः, धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Vasudeva ahitanal