Difference between revisions of "Java/C3/Exception-Handling/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 11: Line 11:
 
| 00:06
 
| 00:06
 
| अस्मिन् पाठे वयं :  ''' exception ''',  
 
| अस्मिन् पाठे वयं :  ''' exception ''',  
'''Checked ''' अपि च '''unchecked exceptions ''' इत्येतेषां विषयं, तथा  
+
'''Checked ''' अपि च '''unchecked exceptions ''' इत्येतेषां विषयं, तथा  
 +
 
 
'''exceptions''' इत्यस्य निर्वहणं,  
 
'''exceptions''' इत्यस्य निर्वहणं,  
 +
 
'''try-catch block ''' अपि च  '''finally block ''' इत्यस्योपयोगञ्च ज्ञास्यामः ।
 
'''try-catch block ''' अपि च  '''finally block ''' इत्यस्योपयोगञ्च ज्ञास्यामः ।
  

Revision as of 17:45, 12 December 2019

Time
Narration
00:01 Exception Handling इति विषयकस्य स्पोकन् ट्युटोरियल् प्रति स्वागतम् ।
00:06 अस्मिन् पाठे वयं : exception ,

Checked अपि च unchecked exceptions इत्येतेषां विषयं, तथा

exceptions इत्यस्य निर्वहणं,

try-catch block अपि च finally block इत्यस्योपयोगञ्च ज्ञास्यामः ।

00:20 वयमत्र Ubuntu Linux 16.04 OS

JDK 1 .8 तथा

Eclipse 4.3.1 च उपयुञ्ज्महे ।

00:32 पाठस्यास्य अभ्यासाय Java अपि च Eclipse IDE अनयोः प्राथमिक-ज्ञानमावश्यकम् ।
00:39 न चेत् तत्सम्बद्धपाठार्थं लिङ्क्-मध्यस्थानि जावा ट्युटोरियल्स् पश्यन्तु ।
00:45 एकम् exception इतीदम्, प्रोग्राम् एक्सिक्यूशन् काले आगमिष्यमाणम्, अनिरीक्षितम् इवेण्ट् वर्तते ।
00:52 इदं प्रोग्राम् इत्यस्य सामान्यगतिम् उच्छिनत्ति तथा असामान्य अन्त्यं प्राप्नोति ।
01:00 तेषां स्वभावानुसारं exceptions इतीमानि, unchecked exceptions तथा checked exceptions इति द्विधा विभाजितानि ।
01:08 वयमधुना एक्लिप्स् उद्घाट्य ExceptionDemo नाम्नः नूतनं प्रोजेक्ट् रचयाम ।
01:16 अस्मिन् प्रकल्पे एक्सेप्शन् हेण्ड्लिङ्ग् इतीदं दर्शयितुं, आवश्यकानि क्लासस् रचयाम ।
01:24 वयं नूतनं class Marks इतीदं रचयाम ।
01:28 Marks class इतीदं रेप्रेसेण्ट् कर्तुम् अधस्तन कोड् टङ्कयन्तु ।
01:34 इदं प्रोग्राम् marks अरे मध्यस्थानां 5(पञ्चानां) विद्यार्थिनां अङ्कानि मुद्रापयति ।
01:41 अधुना फलितस्य परीक्षणाय प्रोग्राम् इतीदं रन् कुर्मः ।
01:45 अरे मध्यस्थानि मूल्यानि मुद्रापितानि दृश्यन्ते ।
01:50 यदि वयं न विद्यमानम् अरे एलिमेण्ट् इतीदम् एक्सेस् कर्तुं प्रयत्नं कुर्मः तर्हि, किं भविष्यतीति पश्यामः ।
01:57 अधुना अधस्तन कोड् लिखन्तु ।
02:00 अस्माकम् अरे मध्ये 5 एलिमेण्ट्स् सन्तीति वयं ज्ञातवन्तः ।
02:04 परन्तु अस्मिन् स्टेट्मेण्ट्-मध्ये ईण्डेक्स् 50 मध्ये वयम् एलिमेण्ट् एक्सेस् कर्तुं प्रयत्नं कुर्वन्तः स्मः ।
02:12 प्रोग्राम् इतीदं रन् कुर्मः ।
02:15 वयं पश्यामः यत्, ArrayIndexOutOfBoundsException “at line number 7” इति दोषसन्देशेन सह प्रोग्राम् समाप्यते ।
02:25 दोषसन्देशः एक्सेप्शन् इत्यस्य विवरणानि यथा – एक्सेप्शन् इत्यस्य विधः, तत् कुत्र समभवत् इत्यादीनि कथयति ।
02:35 यतः प्रोग्राम् इतीदं दोषेण सह समाप्यते ततः प्रिण्ट् स्टेट्मेण्ट् एक्सिक्यूट् न जायते ।
02:42 इदम् Unchecked exception इति कथ्यते ।
02:46 अन्चेक्ड् एक्सेप्शन्स् इतीमानि Runtime exceptions इत्यपि कथ्यन्ते यतः इमानि एक्सिक्यूशन्-काले परीक्ष्यन्ते ।
02:54 तानि प्रोग्रामिङ्ग् बग्स् तथा लोजिकल् एरर्स् च निर्वहन्ति । तद्यथा – एकां सङ्ख्यां शून्येन विभाजनम् अपि च न विद्यमानस्य अरे एलिमेण्ट् इत्यस् एक्सेस् करणम् सदृशानि ।
03:07 अधुना वयं try catch block इतीदमुपयुज्य exception इत्यस्य हेण्ड्लिङ्ग् कथमिति ज्ञास्यामः ।
03:13 इदं कोड्-भागः try ब्लोक् इत्यस्यान्तः, exception इतीदं बहुषः रैस् कर्तुं शक्नोति ।
03:19 तत्स्मबद्धं catch ब्लोक् इतीदं, e मध्यस्थं exception डीटेल्स् प्राप्तुं शक्नोति ।
03:26 केच् ब्लोक् इत्यस्यान्तः वयं error messages दर्शयितुं अथवा दोषपरिहारार्थं कोड् लिखितुं शक्नुमः ।
03:34 अधुना वयम् एक्लिप्स् प्रति गमिष्यामः ।
03:37 आदौ कोड् परितः एकं try block संयोजयाम । तत्तु एक्सेप्शन् इतीदम् एवं करोति ।
03:44 अधुना अस्माभिरेकम् तत्सम्बद्धं catch block संजोतितव्यम् ।
03:48 अतोऽधुना कोड् टङ्कयन्तु ।
03:51 वयमत्र “Array Overflow Exception occurred” इत्येकं कस्टम् मेसेज् मुद्रापयामः ।
03:57 रौण्ड् ब्रेकेट् इत्यस्यान्तः वयं ArrayIndexOutOfBoundsException इत्येकम् इस्टेन्स् रचितवन्तः ।
04:05 अतः इदं ब्लोक् ArrayIndexOutOfBoundsException इति प्रकारकाणां एक्सेप्शन्स् गृहीतुं शक्नोति ।
04:11 अधुना प्रोग्राम् इतीदं रन् कुर्मः ।
04:14 वयं पश्यामः यत् दोषसन्देशः मुद्राप्यते ।
04:18 परन्त्वधुना मार्क्स् अरे इत्यस्य मुद्रणमपि एक्सिक्यूट् जातम् ।
04:24 एवं वयम् एक्सेप्शन्स् इत्येतेषां निर्वहणं कुर्मः ।
04:27 अग्रे वयं multiple catch blocks इतीमानि कथमुपयोक्तव्यानीति पश्यामः ।
04:32 यदि ब्लोक्स् द्वारा नानाएक्सेप्शन्स्इतीमानि रैस् जायन्ते तर्हि वयमिदम् उपयोक्तुं शक्नुमः ।
04:38 अतः try ब्लोक् इत्यस्यान्तः अधस्तन कोड् लिखन्तु ।
04:42 इदं कोड्-पङ्क्तिः अरे एलिमेण्ट् इतीदं ज़िरोद्वारा डिवैड् करोति यथा a is zero
04:49 अतः एकम् अरिथ्-मेटिक् एक्सेप्शन् इतीदमादौ रैस् जायते ।
04:53 वयमधुना एकमधिकंcatch block संयोजयाम येन ArithmeticException इतीदं निरुह्यते ।
04:58 अतः विद्यमानस्य केच् ब्लोक् इत्यस्यान्तः अधस्तन कोड् लिखन्तु ।
05:03 पुनः प्रोग्राम् इतीदं रन् कुर्मः ।
05:06 अस्मिन् सन्दर्भे "Arithmetic Exception occurred" इति दोषः आदौ मुद्राप्यते यतः प्रथमं तत् गृहीतम् ।
05:13 ट्रै केच् ब्लोक् इत्यस्य बहिः विद्यमानं कोड् एक्सिक्यूट् जायते ।
05:19 पश्चाद्वयं checked exceptions इत्यस्य विषयं जानाम ।
05:23 चेक्ड् एक्सेप्शन्स् इतीमानि कम्पैल् टैम् मध्ये परीक्ष्यन्ते ।
05:27 प्रोग्राम् इत्यस्य रन्निङ्ग् इत्यस्मात् प्रागेव तानि हेण्डल्ड् भवेत् ।
05:31 उदाहरणार्थम् : एकस्य न विद्यमानस्य file इत्यस्य एक्सेसिङ्ग् अथवा नेट्वर्क् न विद्यमाने सति network system इत्यस्य अक्सेसिङ्ग्-करणम् ।
05:41 अधुना नूतनं class MarksFile रचयितुं एक्लिप्स् प्रति गच्छाम ।
05:47 main मेथड् इतीदं संयोजयाम ।
05:50 अधुना वयं सङ्गणकस्थाम् एकां सञ्चिकां पठितुमिच्छामः ।
05:54 अधस्तन कोड् टङ्कयन्तु ।
05:57 अत्र FileReader ओब्जेक्ट्fr इतीदं null इति इनिशियलैस् कृतम् ।
06:03 FileReader ओब्जेक्ट् इतीदम् एकां सञ्चिकां एक्सेस् कर्तुं पठितुञ्च उपयुज्यते ।
06:08 एक्लिप्स् दोषं दर्श्ययति ।
06:11 दोषपरिहाराय तस्योपरि नुत्वा import FileReader java dot io इत्यस्योपरि डबल्-क्लिक् कुर्वन्तु ।
06:19 FileReader क्लास् इतीदं java dot io package इत्यस्मात् इम्पोर्ट् जातम् ।
06:25 वयं पेकेज् इत्यस्य विषयं तस्य विनियोगञ्च आगामि-पाठेषु पठिष्यामः ।
06:31 frइतीदं , होम् फोल्डर् मध्ये Marksइति सञ्चिकां एक्सेस् कर्तुम्, अधस्तन कोड् टङ्कयन्तु ।
06:40 अत्र दर्शितं पात् भवतां व्यवस्थायां विद्यमानेन होम् फोल्डर् इत्यनेन परिवर्तितः भवेत् ।
06:46 अधुना दोषः आयातः । अयम्, इयं कोड्-पङ्क्तिः FileNotFoundException रचयितुं शक्नोति इति वदति ।
06:55 दोषस्योपरि नुत्वा Surround with try/catch इत्यस्योपरि डबल्-क्लिक् कुर्वन्तु ।
07:00 वयं पश्यामः यत् एक्लिप्स् दोषं निवारयितुं स्वयमेव try catch block इतीदं स्थापयति ।
07:08 इदमेकं checked exception इति वयं ज्ञातुं शक्नुमः ।
07:12 अधुना वयं फ़ैनली ब्लोक् कथमुपयोक्तव्यमिति जानाम ।
07:16 अधस्तन कोड् टङ्कयन्तु ।
07:18 finally block इतीदं सामान्यतया ट्रै केच् ब्लोक् इतीदमनुवर्तते ।
07:22 एक्सेप्शन् सम्भवति वा न वा, ब्लोक् इत्यस्यान्तः कोड् एक्सिक्यूट् जायते । इदमेकं print स्टेट्मेण्ट् प्राप्तवदस्ति ।
07:32 अधुना finally block इत्यस्यान्तः, फ़ैल् रेफ़रेन्स् इतीदं क्लोस् कुर्मः ।
07:37 अतः fr dot close इति टङ्कयन्तु ।
07:40 अधुना एक्लिप्स् सूचयति यत्, इदं IOException इतीदं रैस् करोति ।
07:45 अतः दोषस्योपरि नुत्वा Surround with try/catch इत्यस्योपरि डबल् क्लिक् कुर्वन्तु ।
07:51 अधुना प्रोग्राम् इतीदं रन् कुर्मः ।
07:54 पश्यामः यत् FileNotFoundException सन्देशः मुद्राप्यते ।
07:59 किमर्थमित्युच्यते वयं अस्माकं होम् फ़ोल्डर् मध्ये Marks इति सञ्चिकां न प्राप्तवन्तः ।
08:04 वयं NullPointerException अपि पश्यामः यतः fr अधुनापि नल् मूल्याय रेफ़र् जायते ।
08:12 पश्यामः यत् inside finally block इति प्रिण्ट् स्टेट्मेण्ट् एक्सिक्यूट् जायते ।
08:18 अधुना अस्माकं होम् फोल्डर्-मध्ये Marks इति टेक्ट्-फ़ैल् रचयाम ।
08:23 यदि भवन्तः विण्डोव्स् उपयोक्तारः सन्ति तर्हि भवतां लोकल् ड्रैव् मध्ये टेक्श्ट्-फ़ैल् रचयित्वा पात् सूचयन्तु ।
08:29 तद्यथा D:\\Marks.txt
08:37 अधुना पुनः वयं प्रोग्राम् इतीदं रन् कुर्मः ।
08:40 यदा मार्क्स् इति सञ्चिका रचिता तदा एक्सेप्शन्स् न दृश्यन्ते ।
08:46 अपि च “Inside finally block” इतीदं मुद्राप्यते ।
08:50 क्लीन् अप् ओपरेशन् अर्थात् फ़ैल् रीडर् ओब्जेक्ट् fr इत्यस्य पिधानमपि सफलतया सह एक्सिक्यूट् जातम् ।
08:58 अनेन सह वयं पाठस्यान्तम् आगतवन्तः ।
09:02 सारं पश्यामः ।
09:04 अस्मिन् पाठे वयम् : Exception' Checked अपि च Unchecked Exceptions इत्येतेषामर्थम्, Exceptions इत्यस्य निर्वहणम्, try-catch block तथा finally block अनयोः विनियोगञ्च ज्ञातवन्तः ।
09:17 पाठनियोजनरूपेण , अन्यंNullPointerException नाम्नः Runtime Exception इतीदं जानन्तु ।
09:24 अस्मिन् ट्युटोरियल् मध्ये, Assignment लिङ्क्-मध्ये विद्यमानं, Demo.java प्रोग्राम् इत्यस्य परामर्शनं करोतु ।
09:31 इदं कोड् रन् जायते चेत् एकं exception रन् जायते ।
09:35 exception इत्यस्य कारणभूतं कोड् अभिजानन्तु ।
09:40 try-catch block उपयुज्य इदं परिहरन्तु ।
09:43 स्पोकन् ट्युटोरियल् विषये अधिकविवरणं प्राप्तुं लिङ्क् मध्यस्थं चलच्चित्रं पश्यन्तु । अवचित्यापि दृष्टुं शक्यते तत् ।
09:52 स्पोकन् ट्युटोरियल् प्रकल्पगणः कार्यशालां चालयति अपि च , अन्तर्जालीयपरीक्षायाम् उत्तीर्णेभ्यः प्रमाणपत्रं यच्छति । अधिकविवरणं प्राप्तुं अधस्तन पर्चन्यै लिखन्तु ।
10:04 स्पोकन् ट्युटोरियल् प्रकल्पः, राष्ट्रिय साक्षरता मिशन्, ICT, MHRD द्वारा भारतसर्वकारस्य अनुदानं प्राप्तवानस्ति । अधिकविवरणार्थम् अधस्तन लिङ्क् पश्यन्तु ।
10:15 पाठस्य योगदानम् Dept. of Information Technology, Amal Jyothi College of Engineering द्वारा जातम् ।
10:23 अनुवादकः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14