Difference between revisions of "Introduction-to-Computers/C2/Printer-Connection/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 95: Line 95:
 
|-
 
|-
 
| 02:12
 
| 02:12
|अधुना, 'Printing' इति संवादपेटिका (Dialogue Box) उद्घटते।  
+
|अधुना, 'Printing' इति संवादपेटिका (Dialog Box) उद्घटते।  
 
|-
 
|-
 
| 02:16
 
| 02:16

Latest revision as of 15:43, 28 October 2020

Time Narration
00:01 नमस्ते। Printer Connection इति पाठार्थं भवद्भ्यः स्वागतम्।
00:06 अस्मिन् पाठे वयं, मुद्रकं (Printer) सङ्गणकेन सह कथं योजनीयम् इति ज्ञास्यामः।
00:11 पाठेऽस्मिन् अहम्,
00:13 Ubuntu Linux 12.10 OS अपि च
00:17 Cannon printer इत्यस्य उपयोगं कुर्वन् अस्मि।
00:20 अहं सङ्क्षेपेण सङ्गणकस्य विविधघटकानां परिचयं कारयामि।
00:25 एतत् CPU (सि-पि-यु),
00:27 मानिटर,
00:29 कीलफलकम्, मौस
00:32 अपि च मुद्रकम् (Printer)
00:34 वयं CPU इत्येतत् पश्यामः।
00:41 अधिकांशतः CPU मध्ये, कतिचन USB पोर्ट्स अग्रतः,
00:46 पुनश्च कतिचन पृष्टतःभवन्ति।
00:49 अधुना वयं मुद्रकं पश्यामः।
00:53 सामान्यतया, मुद्रकस्य अग्रतः उत उपरि किञ्चन पवर पिञ्जः भवति।
01:00 पुनश्च मुद्रकस्य पृष्टतः किञ्चन पवर स्लाट, एकं USB पोर्ट च भवति।
01:11 किञ्चन मुद्रकं सङ्गणकेन सह संयोजयितुं वयं USB केबल इत्यस्य उपयोगं कुर्मः।
01:16 वयं 'USB केबल' इतीदं ‘मुद्रकेन सह संयोजयामः।
01:22 अधुना, केबल इत्यस्य अपरध्रुवं 'CPU' इत्यस्य 'USB पोर्ट कृते संयोजयामः।
01:30 अधुना, अस्माकं मुद्रकं सङ्गणकेन युक्तं वर्तते।
01:33 मुद्रकस्य उपरि विद्यमानं पवर पिञ्जं नुदन्तु।
01:37 अधुना, वयं सङ्गणकस्य साहाय्येन मुद्रकं विन्यस्यामः (Configure)।
01:43 डेस्कटाप इत्यत्र गच्छामः।
01:46 लांचर बार इत्यस्य उपरि वामभागे विद्यमानस्य 'Dash Home' चित्रकस्य (Icon) उपरि नुदन्तु।
01:53 अन्वेषकपट्टिकायां “Printing” इति टङ्कयन्तु।
01:58 मुद्रकस्य चित्रकम् (Icon) दृश्यते।
02:02 तस्योपरि नुदन्तु।
02:04 Ubuntu इत्यस्य पुरातनेषु आवृत्तिषु क्रमशः एवं नुदन्तु -
02:07 'System' , 'Administration'
02:09 अपि च 'Printing'.
02:12 अधुना, 'Printing' इति संवादपेटिका (Dialog Box) उद्घटते।
02:16 एषा - 'There are no printers configured yet' इति सूचयन्ती अस्ति।
02:21 उपरि वामभागे, हरितवर्णस्य ‘Plus’ चिह्नेन युतः 'Add' नामकः कश्चन पिञ्जः अस्ति। तस्योपरि नुदन्तु।
02:30 एतेन, ‘New Printer’ इति संवादपेटिका उद्घटते ।
02:34 वामभागे, सङ्गणकेन संयुक्तानां मुद्रकसाधनानां सूची दृश्यते।
02:42 अत्र, वयं अस्माकं मुद्रकम्, अर्थात्, 'Cannon Printer' इतीदं चित्वा 'Forward' इत्यस्योपरि नुदामः।
02:51 तदा, तत्स्वयं ड्रैवर निमित्तम् अन्वेष्यति। अहं 'Cancel' इत्यस्योपरि नुदामि।
02:59 अधुना, 'Choose Driver' इति संवादपेटिका दृश्यते।
03:04 बहुषु सन्दर्भेषु 'Default' इतीदं कार्यं करोति।
03:08 मम समीपे 'Canon Printer' अस्तीत्यतः अस्यां सूच्याम् एतत् उत्सर्गतया (Default) इति विकल्पः चितः वर्तते।
03:16 अधुना 'Forward' इत्यस्योपरि नुदन्तु।
03:19 'Model' इति पृष्टे, मदीयमुद्रकस्य प्रतिमानं (Model) स्वयं दृश्यतां याति।
03:26 एतेन सह फक्किकायां 'Recommended' इति अस्ति।
03:31 अपि च, 'Drivers' इति विभागे, इदं मदीयमुद्रकाय योग्यं ड्रैवर दर्शयति।
03:38 अधुना, पुनः 'Forward' इत्यस्योपरि नुदन्तु।
03:42 अधुना, अस्माकं मुद्रकस्य विवरणं यथा, 'printer name' अपि च तस्य 'location', दातुं सूचना अस्ति।
03:49 अहम् एतम् उत्सर्गरूपेण संस्थाप्य 'Apply' इत्यस्योपरि नुदामि।
03:53 अधुना अस्माकं मुद्रकं, यशस्विरूपेण सङ्गणकेन सह युक्तं वर्तते।
04:00 “Would you like to print a test page?” इति कश्चन सन्देशः दृश्यते।
04:04 'Print Test Page ' इति विकल्पयोपरि नुदामः।
04:08 तदा, पाप-अप मध्ये अधो विद्यमानः सन्देशः दृश्यते -
04:12 “Submitted – Test Page submitted as job ...” अपि च तस्य सङ्ख्या।
04:18 'OK' इत्यस्योपरि नुदन्तु।
04:20 'Printer Properties' इति संवादपेटिकायां, पुनः 'OK' इत्यस्योपरि नुदन्तु।
04:24 एतत्, अस्मद्मुद्रकात् प्राप्तं परीक्षकमुद्रणं (Test Print) वर्तते।
04:29 अस्माकं मुद्रकम् अधुना सञ्चिकाः मुद्रितुं सज्जं वर्तते।
04:34 वयं, 'Printer' इति संवादपेतिकां पिदध्मः।
04:37 अहमधुना काचित् सञ्चिका कथं मुद्रणीया इति दर्शयामि।
04:42 वयं काञ्चित् सञ्चिकाम् उद्घाटयामः।
04:45 अनन्तरं, 'Ctrl' अपि च 'P' कीले समानकाले नुदन्तु।
04:49 'Print ' इयि संवादपेटिका दृश्यते।
04:53 संयुक्तं मुद्रकं, उत्सर्गतया चितं वतते इति पश्यन्तु।
04:58 अस्यां संवादपेटिकायां अस्मत्पुरतः बहवः विकल्पाः सन्ति।
05:03 'Range' इति विकल्पः, मुद्रापणीयानां पृष्टानां श्रेणीं (Range) चेतुं साहाय्यं करोति।
05:08 'Range' इत्यस्य अधः कतिचन विकल्पाः सन्ति -
05:12 'All pages' इति विकल्पः सञ्चिकायाः सर्वाणि पृष्टानि मुद्रापयति।
05:16 'Current page' इति विकल्पः तत्काले चितम् एव पृष्टं मुद्रापयति।
05:22 'Pages' इति विकल्पः अस्मद्सूचनानुसारं पृष्टानि मुद्रापयति।

उदाहरणार्थम् - 3-4.

05:31 अनन्तरम्, 'Copies' इत्यस्याधः उपलभ्यमानविकल्पानां विषये पश्यामः।
05:36 'Copies' इति विकल्पे वयं कियत्यः प्रतयः मुद्रापणीयाः इति चेत्तुं शक्नुमः।
05:42 यदि, 'Copies' इतीदं '2' इति परिवर्तयामः तर्हि, चितानां पृष्टानां प्रतिद्वयं मुद्रितं भवति।
05:49 अधुना, 'Print' इति पिञ्जस्योपरि नुदन्तु।
05:52 भवन्तः यदि भवतां मुद्रकस्य विन्यासं सम्यक्तया कृतवन्तः तर्हि सञ्चिका मुद्रिता भवति।
05:58 अनेन वयं पाठस्यास्य अन्तमागताः। पाठेऽस्मिन् -
06:05 मुद्रकं सङ्गणकेन सह संयोजयितुम्,
06:07 मुद्रकस्य व्यवस्थाः विन्यस्तुम् अपि च,
06:10 सञ्चिकाः मुद्रापयितुं वयं ज्ञातवन्तः स्मः।
06:12 एतैः सह मुद्रकस्य विविधविकल्पानां विषये वयं ज्ञातवन्तः स्मः।
06:17 एते विषयाः भवद्भ्यः उपयोगकारिणः आसन् इति अहं भावयामि।
06:20 अधो निर्दिष्टे लिंक मध्ये उपलभ्यमानं वीडियो पश्यन्तु।
06:24 इदं स्पोकन ट्युटोरियल प्रकल्पस्य सारांशं वदति।
06:27 यदि भवतां समीपे उत्तमं bandwidth नास्ति तर्हि एतत् अवचित्य पश्यतु।
06:32 spoken tutorial team पाठमिममुपयुज्य कार्यशालां चालयति।

ये online परीक्षायाम् उत्तीर्णतां यान्ति तेभ्यः प्रमाणपत्रमपि ददाति। अधिकविवरणार्थम् अधो विद्यमाने अणुसङ्केते सम्पृच्यताम्। (contact @spoken-tutorial.org)

06:49 स्पोकन ट्युटोरियल प्रोजेक्ट Talk to a Teacher इति परियोजनायाः भागः अस्ति।

इमं प्रकल्पं राष्ट्रियसाक्षरतामिषन् इति संस्था ICT, MHRD भारतसर्वकारः इत्यस्य माध्यमेन समर्थितवती अस्ति। अधिकविवरणार्थं अधो विद्यमानं लिंक् पश्यन्तु - spoken hyphen tutorial dot org slash NMEICT hyphen Intro.

07:12 पाठस्यास्य लेखकः प्रवीणः,
07:16 अनुवादकः ऐ ऐ टी बांबेतः वासुदेवः प्रवाचकस्तु विद्वान् नवीनभट्टः उप्पिनपत्तनम्, धन्यवादः।

Contributors and Content Editors

NaveenBhat, PoojaMoolya