GIMP/C2/Setting-Up-GIMP/Sanskrit

From Script | Spoken-Tutorial
Revision as of 22:11, 19 June 2019 by NaveenBhat (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:21 मीट् द गिम्प् इत्यत्र Setting up the Gimp इति पाठेऽस्मिन् भवतां स्वागतम्।
00:25 यदा भवन्तः प्रथमवारं GIMP इत्यस्य प्रयोगं कुर्वन्ति, तदा कथं व्यवस्थापनीयम् इति अद्य पठामः।
00:30 गिम्प इतीदं, Windows अपि च Macintosh प्रोग्राम इव, अनेकान् लघून् लघून् गवाक्षान् (window) उपयुञ्जते।
00:39 अयम्, Unix जगतः इतिहासः अस्ति, अपि च Unix उपयोक्तारः पटले गवाक्षान् प्रसार्य एकस्मिन्नेव काले अनेकानि प्रोग्राम् इत्येतानि चालयितुम् इच्छन्ति।
00:49 यदि भवन्तः एतादृशैः विभिन्नगवाक्षैः सह कार्यं कर्तुं न शक्नुवन्ति तर्हि भवद्भिः GIMP shop इतीदं दृष्टव्यम्।
00:57 इदं, GIMP इत्यस्य उपयोगाय अपि च फोटोशाप् इत्यनेन तोलयितुं च किञ्चन नूतनमाध्यमेन (interface) सहितं प्रोग्राम् अस्ति।
01:05 अहं गिम्प उपयोक्तुम् इच्छामि यतोहि तत्र सर्वाणि नवीनानि उत्तमानि च उपकरणानि सन्ति।
01:12 इयं काचित् दैनिकसूचना अस्ति यत्र भवन्तः उपयुक्तसूचनां प्राप्नुवन्ति।
01:17 अद्यतनीनम्, Undo इति विकल्पविषये अस्ति। वदति च यत्, भवन्तः कतिचन परिवर्तनानि कृत्वा अनन्तरं पुनः विकल्पमिमं नुत्त्वा यथापूर्वं कर्तुं शक्नुवन्ति।
01:26 अयम् अधिकांशतया कार्यं करोति।
01:28 बहुविभिन्नकार्यकरणात् प्राक् पूर्वतनकार्यं रक्षयन्ति चेत् उत्तमम्।
01:33 अधुना, वयम् अन्यान्युपकरणानि पश्यामः।
01:36 अत्र, Command Central इति गिम्प इत्यस्य मुख्यगवाक्षः अस्ति।
01:41 अपि च उपरि उपकरणपेटिका अस्ति।
01:45 अनन्तरं वर्णान् चेतुं Color box अस्ति अपि च अधः बहूनि उपकरणविकल्पाः सन्ति।
01:53 पेटिकामिमां किञ्चित् विस्तारयामः।
01:56 अत्र Layers, Channels, Color Channels, Path अपि च Undo History, इत्येतेषां कृते संवादपेटिकाः सन्ति।
02:09 अस्य अधः विद्यमाने Colour Selection इति संवादे विविधवर्णान् वेतुं शक्नुमः।
02:15 अत्र Brushes, Patterns, Gradient इत्यादयः अनेके संवादाः सन्ति।
02:21 एषु केचन संवादाः मया उपकरणपेटिकायां योजनीयाः। योजनं च बहु सुलभम्।
02:28 संवादशीर्षके, Layers इत्यत्र नुत्त्वा तत् अत्र उपकरणपेटिकायाः अधः विद्यमानस्य Color Picker इत्यस्य उपरि कर्षयित्वा आनयन्तु।
02:39 एवं च अहं अत्र ट्याब्-समेतं संवादं प्राप्नोमि।
02:43 एनामेव प्रक्रियाम् अहं Channels इत्यनेन समं करोमि।
02:46 Paths इत्यनेन समं करोमि।
02:52 अपि च Undo History इत्यनेन सममपि करोमि।
02:54 Brushes इत्यस्य उपकरणस्य आवश्यकता मह्यं नास्ति इति भावयामि, यतोहि, यदि उपकरणे एतस्य विकल्पः अस्ति तर्हि तदत्र दृश्यते अपि च वयं तत् चेतुं शक्नुमः।
03:09 परन्तु मह्यं Colours इतीदम् अपेक्षते इत्यतः अहं तस्योपरि नुत्त्वा Undo History इत्यस्य पार्श्वे कर्षयामि।
03:16 अधुना गवाक्षस्यास्य पिधानं करोमि।
03:23 अहं सर्वाः अपि संवादपेटिकाः File >> Dialogs इत्यस्मात् प्रवेष्टुं शक्नोमि।
03:30 अस्मदीयायाम् उपकरणपेटिकायां न विद्यमानाः कतिचन संवादाः अत्र दृश्यन्ते। तेषु Tools इत्यस्य अपेक्षा अस्मभ्यम् अस्ति।
03:38 मदीयायाम् उपकरणपेटिकायाम् अनुपयुक्तानि टूल्स कतिचन सन्ति। तेषां स्थाने उपयुक्तानि टूल्स तत्र योजयितुमिच्छामि।
03:48 मदुपयुक्तैः टूल्स्-इत्येभिः समम् आरभामहे।
03:51 मह्यं Curves, Levels, Threshold. Brightness अपि च Contrast, एतानि अपेक्षितानि।
03:58 Perspective Clone, Ink अथवा Airbrush, इत्यस्य च अपेक्षा मह्यं नास्ति।
04:05 अवशिष्टानि अपेक्षितानि।
04:08 कियत् स्थानम् अवशिष्टम् अस्ति इति ज्ञात्वा अहम् अत्र पुनः पश्यामि।
04:16 अधुना अहं File इत्यस्मिन् Preferences इत्यत्र गच्छामि।
04:26 अहं Environment अपि च Interface इत्येतद्द्वयं यथावत् स्थापयामि।
04:32 Theme इत्यत्र Small इतीदं चिनोमि।
04:35 अपि च, यदा गवाक्षमिदं अपसारयामः तदा भवन्तः दृष्टुं शक्नुवन्ति यत् सर्वाणि चित्रकानि (icons) लघ्वीभूतानि सन्तीति। एतेन टूल्स-इत्येतेषां विवरणार्थम् अधिकं स्थानं प्राप्यते।
04:45 Tool options इत्यत्र गत्वा Default Interpolation इतीदं SINC प्रति परिवर्तयन्तु। यदा आकारपरिवर्तनं भ्रमणम् इत्यादिकं कुर्मः तदा पिक्सेल-इतीमानि गणयितुम् अत्युत्तमम् इंटरपोलेशन् अस्ति।
05:00 अन्यविकल्पान् यथावत् स्तापयन्तु।
05:03 Toolbox इत्यत्र गत्वा तत्रत्यविकल्पान् यदि अपेक्षते तर्हि चिन्वन्तु यदि न अपेक्षते तर्हि अचितं कुर्वन्तु।
05:12 अग्रभागस्य पृष्ठभागस्य च वर्णान् आशु परिवर्तयितुं Colors इतीदं स्थापयन्तु।
05:19 भवन्तः Brush अपि च Gradient इतीमानि उपकरणानि प्राप्तुं शक्नुवन्ति। अत्र प्रस्तुतचित्रस्य किञ्चन चित्रम् लघुचित्रं (थम्ब्नैल) वा दृष्टुं शक्नुवन्ति।
05:29 अहम् इमानि नेच्छामि इत्यतः अहम् एतानि अचितानि (de-select) करोमि। भवद्भ्यः किम् अपेक्षितं किं न इत्यत्र भवन्तः स्वतन्त्राः।
05:36 Default image, Default grid अपि च Default image window, इतीमानि यथावत् स्थापयितुं शक्नुवन्ति।
05:42 अहं सर्वाणि Preferences इतीमानि समापितवान्।
05:45 अपि च
05:47 अहं Path इतीदं न परिवर्तितवान्, अतः अहम् इदम् उपयोक्तुं शक्नोमि।
05:52 अत्राधुना अधिकं स्थानं प्राप्तुं एकमेव उपकरणं निष्कासनीयम् अस्ति। परं, ततः प्राक् अहं पेटिकामिमां किञ्चित् विस्तारयामि।
06:01 उपकरणपेटिकायाः संवादाः सङ्कुचिताः दृश्यन्ते।
06:06 तां किञ्चित् कर्षयित्वा विस्तारयन्तु।
06:08 पश्यन्तु, अत्र नवपङ्क्तिम् अप्राप्य एव इतोऽपि त्रीणि उपकरणानि योजयितुं शक्नुमः।
06:19 अतः Brightness, Hue-Saturation (ह्यु-स्याचुरेशन) अपि च Color Balance, इतीमानि अहं योजयामि।
06:24 अत्र न दर्शितानि सर्वाणि उपकरणानि File अपि च Dialogs इत्यत्र नुत्त्वा प्राप्तुं शक्नुमः।
06:39 एवं च वयम् अधुना कार्यमारब्धुं सज्जाः स्मः।
06:42 यदा भवन्तः गिम्प-इत्यस्य पिधानं कुर्वन्ति तदा सर्वाः विकल्पा स्वयं रक्षिताः भवन्ति अपि च यदा पुनः उद्घाटयन्ति तदा पूपिधानसमये यथा आसीत् तद्वदेव आरभन्ते।
06:52 एवं तु अहं GIMP 2.3.18 इत्यस्य उपयोगं कुर्वन् अस्मि यच्च विकस्यमाना अस्थिरा च आवृत्तिः अस्ति।
07:02 2.3.19 इत्यस्य प्रकाशनम् अधुनैव दृष्टवान् अहम्।
07:07 यद्यपि एषा आवृत्तिः अस्थिरा तथापि वर्षेऽस्मिन् विपण्यां विद्यामानाः अन्यतन्त्रांशाः यवत् स्थिराः सन्ति तवत् तु स्थिरा एषा अस्त्येव। GIMP 2.4 इत्यस्मात् अग्रे प्रकाश्यमानाः आवृत्तयः स्थिराः भवन्ति।
07:22 पाठोऽयं GIMP इत्यस्त व्यवस्थापनम् अधिकृत्य आसीत्।
07:25 स्पोकन ट्युटोरियल प्रकल्पाय अनुवादकः ऐ ऐ टी मुम्बैतः वासुदेवः प्रवाचकः, श्री.नवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat