Difference between revisions of "GIMP/C2/How-To-Fix-An-Underexposed-Image/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:23 | '''Meet The GIMP''' इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम्...")
 
 
Line 70: Line 70:
 
| 02:24
 
| 02:24
 
| चित्रस्य इमं भागं प्रकाशयितुं, भवतः पृष्ठतः लघु अणु-प्रस्फोटसदृशं (nuclear bomb) यत्किञ्चित् अपेक्षते इति चिन्तये ।  
 
| चित्रस्य इमं भागं प्रकाशयितुं, भवतः पृष्ठतः लघु अणु-प्रस्फोटसदृशं (nuclear bomb) यत्किञ्चित् अपेक्षते इति चिन्तये ।  
 
  
 
|-
 
|-

Latest revision as of 19:38, 21 November 2019

Time Narration
00:23 Meet The GIMP इति पाठेऽस्मिन् सर्वेभ्यः स्वागतम् ।
00:25 Rolf Steinort महाभागः इदं Northern Germany इति देशे Bremen इति स्थाने ध्वन्यङ्कनं कृतवानस्ति ।
00:32 मह्यं चित्रमिदं, Norman महाभागात् ई-पत्रद्वारा प्राप्तमस्ति ।
00:35 सः इदं रक्षितुम् अवदत् ।
00:39 चित्रमिदं सः RAW convertor इत्यस्य उपयोगानन्तरं प्राप्तवान् । अपि च अत्र, इदं मूलचित्रम् आसीत् ।
00:48 चित्राणां तुलनोत्तरं Norman महाभागेन कृतं स्पष्टमासीत् ।
00:53 प्रथमं सः चित्रं प्रतिभ्रमणं कृत्वा अनन्तरं foreground इत्यत्र योग्यं वर्णम् अपि च प्रकाशं प्राप्तुं curves इति साधनेन सम्पादितवान् । मेघान् गाढमकर्तुं प्रयतितवान् ।
01:09 यदा भवान्, अत्रेदं चित्रं पश्यति तदा मेघाः बहु सुन्दराः दृश्यन्ते ।
01:14 अहं तान् बहु इच्छामि । अपि च चित्रमिदम् अत्र प्रदर्शयितुम् अहमनुमतिं पृष्टवान् । अहं तस्य कार्यमत्र पुनः कर्तुं प्रयतिष्ये । अपि च अनन्तरं, तस्य चित्रे उत्तम-मेघान् प्राप्तुम् इतोऽपि प्रयत्नं करोमि ।
01:33 किन्तु, कः दोषः जातः इति प्राप्यमाणं सङ्केतं (clues), EXIF इति सूच्यांशे अस्य चित्रस्य विषये अस्मभ्यं किं प्राप्यते इति प्रथमं वयं पश्यामः ।
01:43 इदं Panasonic इति चित्रकं सत् अत्यन्तं लघु sensor इत्यनेन युक्तमस्तीति भवान् द्रष्टुं शक्नोति ।
01:51 भवान् चित्रकमिदं, भवतः युतकस्य कोशे स्थापयितुं शक्नोति ।
01:57 अपि च अत्र वयं प्रकाशितदत्ताशं प्राप्तवन्तः ।
02:02 Exposure Time इतीदम्, एकस्य क्षणस्य सहस्रभागानाम् एकभागः अस्ति । अपि च Aperture इतीदं 5.6 इत्यस्ति ।
02:09 flash इतीदं सक्रियम् आसीत् अपि च चित्रे flash इत्यस्य परिणामः चित्रकेण गणयितमस्ति ।
02:16 अपि च एतादृशलघुचित्रकस्य flash इतीदम्, एतादृशदृश्यैः सह कार्यं न करोति ।
02:24 चित्रस्य इमं भागं प्रकाशयितुं, भवतः पृष्ठतः लघु अणु-प्रस्फोटसदृशं (nuclear bomb) यत्किञ्चित् अपेक्षते इति चिन्तये ।
02:36 चित्रमिदं JPEG इत्यस्मिन् रक्षितमस्ति । अपि च सा अन्यां समस्यां जनयति ।
02:42 चित्रेऽस्मिन् यथार्थतया कुतूहलकरः अयं प्रदेशः JPEG compression इत्यनेन अत्यन्तं गाढमस्ति ।
02:53 अपि च यदा अहं दिगन्ते (horizon) सर्पणं करोमि, तदा यथार्थतया व्याख्यातः एकः विषयः द्रष्टुं शक्यः । किन्तु, किञ्चिदधिकं तीक्ष्णीकृतम् अस्ति । तथैव दिगन्ते एका नौका अपि अस्ति ।
03:08 मेघाः अत्यन्तं सविस्तराः सन्ति । किन्तु, यदा वयं गाढतमप्रदेशं गच्छामः तदा भवन्तः अत्र वृक्षमेकं पश्यन्ति । किन्तु, किमपि स्पष्टं न दृग्गोचरम् ।
03:19 यतोहि JPEG इतीदं, चित्रस्य कांश्चन प्रदेशान् परित्यजति । भवान् कदाचित् तान् पश्यतीति चित्रकस्थः सङ्गणकविधिः न भावयति ।
03:32 किन्तु, मह्यमत्र इदं द्रष्टव्यमस्ति । अहं JPEG compression इत्यनेन सह लग्नः अस्मि । यतोहि अत्र नष्टानि विवरणानि पुनः न कदाचित् दृग्गोचरं यान्ति ।
03:45 अपि च यदा भवान् इदं raw इति रूपेण चित्रीकरोति तदा एतादृशसमस्याः परिहरति । अग्रिमे पाठेऽहं भवद्भ्यः UF raw converter इतीदम् अपि च इदं gimp इत्यनेन सह उपयोगविषये प्रदर्शयामि । सः अग्रिमपाठार्थं योग्यविषयः इत्यहं भावये ।
04:06 अहं, चित्रमत्र, संवादपेटिकायाः उपरि नूनं कर्षणेन, तत् GIMP इत्यत्र पूरयामि तथैव गवाक्षं बृहत् करोमि ।
04:17 इदानीं मम प्रथमसोपानं, चित्रस्य अस्य किञ्चित् आकारकरणम् । यतोहि चित्रमिदं कीयत् बृहदस्ति इत्युक्ते अस्य फलितरूपिणी ‘XCF’ इति सञ्चिका 40 प्रयुताष्टकानि (mega bytes) अपेक्षया बृहत् भवति ।
04:29 साधनशलाकायां Image इतीदं नुत्वा Scale Image इतीदं चित्वा आकारकरणं कर्तुं शक्यते । अपि च अहं Width इतीदं 1000 चित्रकणेभ्यः परिवर्तयामि । यदा अहं Tab इतीदं नुदामि तदा मह्यं 750 चित्रकणयुक्तं Height इतीदं लभ्यते । अत्युत्तमं Interpolation इतीदं चितमस्ति अतः अहं Scale इतीदं नुदामि ।
05:01 अत्र अस्मिन् खण्डे सम्पूर्णचित्रं प्राप्तुं shift + Ctrl+ E इतीदं नुदतु । इदानीमहं चित्रमिदं सम्पादयितुं व्यवस्थितः अस्मि ।
05:11 प्रथमसोपानं परिभ्रमणम् इति ।
05:14 पूर्वतनपाठेषु, चित्रं परिभ्रामयितुम् अहं मार्गद्वयं प्रदर्शितवान् आसम् । अद्य तृतीयमार्गस्य समयः ।
05:23 अतः, चित्रे यत्र अनुप्रस्थरेखा (horizontal line) दृश्यते तत्र सर्पणं कर्तुं तदेव सोपानम् अहम् अनुसरामि । अपि च सा दिगन्तस्य उपरि विद्यते, यतोहि दिगन्तः परिभाषया (definition) अनुप्रस्थः अस्ति ।
05:39 अनन्तरमहं, साधनपेटिकायाः measurement tool इतीदं चिनोमि । अपि च अहं info. Window इतीदम् अपचिनोमि । यतोहि, तत् चित्रखण्डस्य मध्ये उद्भवति (pops up) । किन्तु मह्यमत्र, अधः स्थितिशलाकायां (status bar) सर्वसूच्यांशाः प्राप्तुं शक्याः ।
06:01 इदानीं, दिगन्तस्य कोणप्राप्तिः सरला सञ्जाता । नूनं दिगन्तस्य उपरि सारकं संस्थाप्य Mouse इत्यस्य पिञ्जं नुत्वा कर्षयामि ।
06:15 रेखामिमाम् अन्यभागं प्रति कर्षयामि । अपि च दिगन्तस्य समान्तररूपेण एकां रेखां रचयामि तथैव पिञ्जं त्यजामि ।
06:25 angle info इतीदं द्रष्टुं स्थितिशलाकायां पश्यतु । अपि च अत्राहं 1.64° इति कोणं पश्यामि ।
06:38 इदानीमहं Rotate इति साधनं चिनोमि । नुनं चित्रे नुत्वा -1.63°(degree) इति टङ्कयामि । ऋणचिह्नं यतोहि मह्यं 1.63 °(degrees) इति धनात्मकचिह्नस्य विरुद्धं करणीयमस्ति ।
06:58 Rotate इतीदं नुदतु, भवते परिभ्रामितं चित्रं प्राप्यते ।
07:05 नूनं दिगन्तं परीक्षितुं वयं मापकमधः कर्षयामः । सः अनुप्रस्थः अस्ति ।
07:14 अग्रिमसोपानम् अस्ति चित्रस्य crop करणम् । किन्तु इदानीमहं चित्रं crop इतीदं कर्तुं न शक्नोमि । यतोहि चित्रस्य अयं प्रदेशः दृग्गोचरः नास्ति । अतः, मह्यं यथार्थतया इदं विचारयितुम् अशक्यम् ।
07:31 यत्र crop करणीयमिति मह्यं न ज्ञायते । अतः, प्रथममहं चित्रस्य अस्य भागस्य प्रकाशं किञ्चित् वर्धयामि ।
07:43 मया Curves इति साधनेन सह कार्यं कर्तव्यमस्ति । किन्तु, ततः प्राक् अहं layer इत्यस्य प्रतिलेखं कर्तुमिच्छामि ।
07:50 यतोहि, यदा वयं curves इति साधनस्य उपयोगं कुर्मः तदा चित्रस्थः सूच्यांशः नष्टो भवति ।
07:56 अतः, चित्रेण सह यत् पुनः प्राप्तुं न शक्यते तत् भवान् न कदापि करोतु ।
08:01 अस्तु, तदहं परिभ्रामितवान् आसम् । किन्तु, अग्रिमसोपानेषु मूलचित्रस्य उपरि कदापि अहं किमपि न करोमि ।
08:08 प्रथममहं भूमेः भागं सम्पादयामि । अतः अहमिदं Land इति नामकरोमि । field इत्यत्र द्विर्नोदनं (double click) कृत्वा return इतीदं नुदामि ।
08:22 इदानीं layer इतीदं Land इति नामकरणं कृतम् ।
08:25 अहं Curves इति साधनं चित्वा, चित्रे नुदामि । अपि च इदानीमहं चित्रे परीक्षणं करोमि ।
08:34 चित्रस्य अयं प्रदेशः यथार्थतया अतीव गाढतमः अस्ति । इदं कोऽपि सुलभेन ज्ञातुं शक्नोति । किन्तु, अत्र तृणमपि बहु गाढमस्ति ।
08:46 जलमत्र धूसरमापकस्य भागः अस्तीति भासते । अपि च आकाशः निस्संशयम् अयं भागः अस्ति ।
09:01 अतः, चित्रस्था भूमिः प्राकशयुक्ता करणीया । अस्य उपरि करणेन इदमहं करोमि ।
09:15 इदानीम्, अहमिदं कीयत् दूरं कर्षयामि इति मम अग्रिमप्रश्नः । यतोहि बहुदूरमहं गच्छामि चेत् तत् कृतकवत् दृश्यते ।
09:28 वक्रेषु बृहद्भेदैः मह्यं भूमि-आकाशयोः संयोजनं कर्तव्यं चेत्, तत् नैजचित्रवत् न दृश्यते ।
09:40 अतः, अहमिदं किञ्चित् अधः कर्षयामि ।
09:44 अहमिदं प्रयतिष्ये ।
09:49 इदमत्र सम्यक् दृश्यते ।
09:52 अयं समुद्रः अतीव प्रकाशमानः नास्ति । अपि च chapel इतीदमपि दृग्गोचरमस्ति ।
10:00 अतः, अहं OK इतीदं नुदामि ।
10:06 भूमिभागस्य सम्पादनानन्तरम् अहम् आकाशस्य भागं प्रति गच्छामि ।
10:12 अतः, पुनः मूलं layer इतीदं प्रतिलेखं कृत्वा, नूनं तत् उपरि योजयामि । अपि च Sky इति नामकरणं करोमि ।
10:21 layer इत्यस्य उपरि द्विर्नोदनं कृत्वा Sky इति नाम टङ्कयतु । निवर्तनेन (return) अस्मभ्यं Sky इतीदं प्राप्यते ।
10:28 अन्यस्तराणां घातनेन विना Sky layer इतीदं केवलं मया सम्पादनीयम् अस्ति । तत्कर्तुमहं layer mask इत्यनया सह कार्यं करोमि ।
10:37 Sky layer इत्यस्य उपरि दक्षिणनोदनं कृत्वा Add Layer Mask इतीदं चिनोमि । अपि च White इति स्तरवर्णिकां चिनोतु । यतोहि full opacity इत्यस्य अयमर्थः यत् अयं स्तरः सम्पूर्णतया दृश्यते अपि च श्वेतः अस्तीति ।
10:54 मह्यं land इति स्तरः गोपनीयः अस्ति । अपि च समुद्राकाशयोः मध्ये मह्यं तीक्ष्णः प्रान्तः न अपेक्षते । तदर्थमहं gradient tool इतीदम् उपयुञ्जे ।
11:07 gradient इतीदं कृष्णश्वेतयोः मध्ये विद्यमाना एका व्यवस्था ।
11:13 scrap layer इत्येकस्मिन् अहमत्र भवते दर्शयामि ।
11:34 अहं Gradient tool इतीदं चितवान् । यदा भवान् साधनचित्रकस्य (tool icon) उपरि द्विर्नोदनं करोति तदा साधनानि स्वयमेव चीयन्ते । इदमकस्मात् मया इदानीमन्विष्टः नूतनविषयः अस्ति ।
11:50 इदं भवते नूतनं न स्यात् किन्तु, इदं मह्यं नूतनमस्ति ।
11:56 ज्ञातुम् उत्तमविषयः ।
11:59 Gradient tool इत्यत्र प्रतिगच्छतु । अहं Mouse इत्यस्य वामनोदनं कृत्वा अपि च त्यागे कृते अस्याः रेखायाः अत्र चित्रणे,
12:09 आरम्भिकबिन्दोः वामतः विद्यामनप्रदेशः कृष्णेन तथैव gradient इत्यस्य अपरप्रदेशभूतः, अन्तिमबिन्दोः दक्षिणतः विद्यमानप्रदेशः श्वेतेन पूरितः अस्ति ।
12:26 श्वेतकृष्णयोः मध्यस्थप्रदेशः बहुविध-धूसरवर्णनां श्रेणिरस्ति । अपि च इदं gradient इति नाम्ना कथ्यते ।
12:38 अपि च अहं दीर्घम् अथवा अति लघु gradient इतीदं निर्मातुं शक्नोमि ।
12:44 अत्र gradient इत्यस्य विविधसाधनानि सन्ति । अपि च अहमत्र एकवर्णम् (black and white) आश्रये ।
12:56 अत्र वर्तुलं रचयितुम् अपेक्षितं Radial इति सदृशाः बहवः विकल्पाः सन्ति ।
13:04 तत्र भवदुपयुज्यमानाः बहवः विकल्पाः सन्ति ।
13:10 अस्य साधनस्य विकल्पानाम् अन्वेषणम् उचितमस्ति ।
13:15 अतः, अहमत्र shape इतीदं Linear प्रति व्यवस्थापयामि । तथैव अत्रत्यं scrap layer इतीदं निष्कासयामि ।
13:25 इदानीमहं Sky layer इत्यस्य उपरि कार्यं कुर्वन् अस्मि । चित्रस्य पारदर्शककरणेन, तस्य प्रकटनपर्यन्तं gradient इतीदं कृष्णात् श्वेतं प्रति व्यवस्थापितम् अस्ति । अहं layer इत्यस्य संवादपेटिकां प्रति गच्छामि अपि च स्तरमहं सक्रियं कृतवान् इति परिशीलयामि । यतोहि अहं मूलचित्रे रङ्गसेचनं कर्तुं न इच्छामि ।
13:54 अहं layer mask इत्यस्य रङ्गसेचनं कर्तुमिच्छामि ।
13:59 अपि च चित्रे सर्पणं कर्तुमहं Zoom इति साधनं चिनोमि ।
14:04 अस्य किञ्चित् अभ्यासस्य अवश्यकता विद्यते ।
14:14 अहमस्मिन् बिन्दौ आरभे अपि च अत्र समापयामि ।
14:20 अहं gradient इतीदम् ऋजु इच्छामि । यतोहि, एतत्प्रकारकं gradient इतीदम् एतादृशचित्रे परिणमते । तदहं नेच्छामि ।
14:32 इदं सोपानं undo इति कर्तुं ctrl + z इतीदं नुदतु ।
14:37 अतः, अहं control इति कीलकं नुदामि । इदानीमत्र अवसर्पिण्याः चलनं 5 मात्राभ्यः (degrees) परिमितमस्ति ।
14:49 अतः, अहमिदम् इतः एतद्बिन्दोः पर्यन्तं कर्तुम् आरभे ।
14:58 सम्पूर्णचित्रं प्रति यदा गच्छति तदा इदं मम gradient अस्तीति भवान् द्रष्टुं शक्नोति ।
15:06 यदाहम् अन्यस्तरान् पिदधामि, तदा उपरितन स्तरे चित्रस्य उपरितनभागः केवलं दृश्यते । अपि च अन्ये पृष्ठदेशे भवन्ति ।
15:23 किन्तु, इदं प्रत्यायनयोग्यम् (convincing) इति मे न भाति ।
15:27 इदं किञ्चित् कृतकमिति भाति । अतः, मया आकाशस्य प्रकाशः इदानीं वर्धनीयः अस्ति ।
15:34 तत्कर्तुं, प्रथममहं layer mask इतीदं निष्क्रियं करोमि । तथैव layer इत्यस्य उपरि कार्यं कर्तुं तदेव सक्रियं करोमि । अन्यथा स्तरवर्णिकायाः उपरि कार्यं कर्तुं curves इति साधनस्य उपयोगः शक्यः आसीत् ।
15:48 भवान् सर्वदा स्तरस्य सक्रियं भागं तत् परितः विद्यमानश्वेतखण्डेन अभिज्ञातुं (identify) शक्नोति ।
15:56 अतः, इदमत्र प्रयतामहे ।
15:59 इदानीम् अस्माभिः आकाशस्य प्रकाशः वर्धनीयः अस्ति । अतः इदमहम् उपरि कर्षयामि ।
16:12 इदमत्यन्तं प्रत्यायनयोग्यम् अस्ति । यतोहि आकाशः प्रकाशयुक्तः अस्ति । अपि च समुद्राकाशयोः मध्यस्थः कृतकः प्रान्तः नष्टो अस्ति ।
16:29 इदमत्र कार्यं करोतीति मे चिन्तनम् ।
16.32 अतः, sky layer इतीदम् अपि च तस्य अधस्तनस्तरान् पिधाय चित्रं वयं तोलयामः ।
16:42 भवान् भेदं द्रष्टुं शक्नोति ।
16:46 इदं मूलचित्रम् अस्ति ।
16:50 अयं स्तरः, नूतनाकाशः अपि च अधस्तना नूतना भूमिरस्ति ।
16:57 भूमेः व्यतिरेकस्य उपयोगः कर्तुं शक्यतेस्म । किन्तु, मह्यं निश्चितता नास्ति । अतः मया इदं यतनीयमस्ति ।
17:07 अतः, Land इति स्तरस्योपरि द्विर्नोदनं कृत्वा Overlay इति दशां चिनोतु । इदं भवते किञ्चिदधिकं व्यतिरेकं ददाति । किन्तु, इदं निश्चयेन अधिकम् अस्ति । अतः अहं Opacity इतीदम् अवनयामि ।
17:25 किमिदम् उत्तमं दृश्यते उत न ?? किन्तु, इदमुत्तमम् इति अहं चिन्तये ।
17:33 इदानीमहं चतुरः layers इतीमान् प्राप्तवान् ।
17:36 Background इतीदम् इतः परं यथार्थेन अनपेक्षितं मूलचित्रं Land इति स्तरः, Land copy इति स्तरः अपि च layer mask इत्यनेन सहितः Sky इत्येषः ।
17:50 अपि च चित्रस्य सूच्यांशस्य नाशं विना अहमत्र सर्वमूल्यानि अपि परिवर्तयितुं शक्नोमि ।
17:58 इदं layers इत्यस्य उपयोगेन जायमानः महान् लाभः ।
18:03 इदानीम् अन्तिमभागः "cropping" इति । Norman महाभागः 7:5 इत्यनुपाते crop इतीदं करणीयमिति अवदत् । यतोहि तस्य मुद्रकं 7/5 प्राङ्गुलयुक्तं (inch) पत्रम् उपयुङ्क्ते ।
18:18 अतः, वयं तत् कुर्मः । 7:5, Fixed Aspect Ratio इति ।
18:27 crop इतीदं कुत्र कर्तव्यम् ?? Norman महाभागः crop इतीदं कुत्र अकरोत् इति अहं विस्मृतवान् ।
18:34 अतः, वयमत्र निर्धारयामः ।
18:36 इमं वृक्षम् अपि च शुष्कतृणानि अन्तर्भाव्यानि इत्यहं चिन्तयामि ।
18:43 अतः मया, अत्र दक्षिणकोणात् आरम्भणीयम् अपि च Crop इति साधनम् उपरि कर्षणीयमस्ति ।
18:58 इदं केवलम् अभिरुचिविषयः अपि च pumping इत्यनेन सह कर्तव्यं किमपि नास्ति, यः कोऽपि अध्येतुं शक्नोति ।
19:06 तत्र Rule of Thirds इति भवन्ति ।
19:08 इदमहम् अन्तः स्थापयामि ।
19:13 अत्र, chapel इत्यस्य पुरोभागः, आसक्तिविषयेषु एकः इति भवान् पश्यति ।
19:20 अत्र अतीव कलात्मकं Golden sections इतीदमस्ति अपि च इदं सहायकं स्यात् । किन्तु, भवतः नेत्रम् अतीव उत्तममिति अहं चिन्तयामि ।
19:33 इदमत्र कार्यं करोतीति मे चिन्तनम् ।
19:37 अहं तस्य चित्रं JEPG चित्रम् इति रक्षितुमिच्छामि ।
19:42 ततः प्राक् मया तत् किञ्चित् तीक्ष्णं कर्तव्यमस्ति ।
19:47 मम परिवर्तनानि, मया करणात् प्रागेव दृश्यमान-तीक्ष्णस्य व्युत्पादनानि (traces) लुप्तानि ।
19:55 hallows इतीदं द्रष्टुं श्वेतरेखाः दृश्यमानाः आसन् ।
20:00 अस्मिन् पर्यायेऽपि अहं क्रमशः Filters, Enhance, Sharpen इति दशाः उपयुञ्जे इति भावये ।
20:16 इदं मूलतः unsharped mask इत्यस्ति । पूर्वनिर्धारितैः उत्कृष्टमूल्यैः सह तीक्ष्णकरणम् इति ।
20:24 अहं unsharped mask इत्यस्य विषये, उत्तरपाठेषु विवृणोमि ।
20:30 तदहं न कदापि उपयुक्तवान्, तदर्थं मया स्वयमध्येतव्यम् ।
20:37 अतोऽहं तस्य विषये किमपि विवृणोतुं शक्नोमि ।
20:44 इदमत्र सम्यक् कार्यं करोतीति इति मे भावना ।
20:50 अहं गत्वा चित्रं रक्षितुं शक्नोमि ।
21:02 अहमद्य विलक्षणविषयस्य टङ्कणं कुर्वन् अस्मि ।
21:10 अस्तु । JPEG इतीदम् अनेकस्तरयुक्तचित्रस्य निर्वहणं कर्तुं न शक्नोति इति अहं जानामि । अतः इदानीं चित्रं निर्यापितम् (exported) अस्ति । अपि च स्तरसम्बद्धाः सर्वे सूच्यांशाः नष्टाः सञ्जाताः ।
21:22 अपि च gimp इतीदं नूनं पूर्वसूचनां ददाति ।
21:26 अपि च 85% गुणवत्तता उत्तमा इति मे चिन्तनम् ।
21:31 सञ्चिका-आकारः अपि च चित्रस्य गुणवत्तता इत्युभयोः परिपूर्णसमायोजनम् ।
21:39 मम चित्रस्य तीक्ष्णकरणम् अपि च पुनराकारकरणेन, show notes इत्यर्थं मम जालवृत्तौ स्थापयितुं शक्नोमि । कथञ्चित् इदानीमहं प्रतिगन्तुं शक्नोमि ।
21:55 Image >> Scale Image इत्यत्र गच्छतु । अपि च मह्यं Width इतीदं 600 चित्रकणयुक्तम् अपेक्षते ।
22:08 केवलमिदं Scale इति करोतु ।
22:11 इदानीं तदहं पुनः तीक्ष्णं करोमि । भवतः चित्रस्य सम्पादनविषयाणां सरणौ तीक्ष्णकरणम् इति अन्तिमं भवेत् ।
22:23 इदं यथार्थतया अन्तिमं सोपानम् अस्ति ।
22:33 अनन्तरं यदि भवान् न किमपि परिवर्तयति तर्हि केवलं विधिकल्पः सम्यक् कार्यं करोति ।
22:39 पुनराकारकरणमपि नास्ति ।
22:41 वयमिदं पश्यामः ।
22:47 अहं किञ्चित् अधिकं प्राप्नोमि इति मे भाति ।
22:52 मूलतः तत्प्रमाणस्य उपरि एव समाप्तिः ।
22:57 इदानीमिदं चित्रं मह्यम् अस्तु । अहमिदं ".(dot)600" इति रक्षितुमिच्छामि । अनेन, अनन्तरं किं चित्रं जालवृत्तौ स्थापयितुं शक्यते इति मह्यं ज्ञातुं साध्यमस्ति ।
23:20 चित्रद्वयं वयं तोलयामः ।
23:23 इदं Norman महाभागेन कृतम् अपि च इदं मया कृतम् अस्ति ।
23:30 निश्चयेन मम आकाशः उत्तमोऽअस्ति । Norman महाभागः समुद्रः अपि च chapel इत्यनेन सम्यक् कार्यं कृतवानिति चिन्तयामि ।
23:40 अपि च एतयोः संयोजनं तु यथार्थतया अद्भुतं चित्रं भवति ।
23:47 अत्र, अहं किञ्चित् अधिकं प्रकाशं कृतवानिति चिन्तयामि ।
23:54 अस्तु, sea layer इतीदं सुलभेन समीकर्तुम् अहमत्र पुनरागतः ।
24:00 Background इति स्तरस्य उपरि अहं मूलस्य एकं प्रतिलेखं करोमि ।
24:06 इमं स्तरमहं Sea नामकरणं करोमि ।
24:10 इदानीम्, अहं Land इति प्रतिलेखस्य उपरि अपि च Sky इत्यस्य अधः कर्षयामि ।
24:16 अनेन Sky इति स्तरः क्षुब्धः नाभवत्, केवला भूमिः क्षुब्धा इति भवान् इदानीं द्रष्टुं शक्नोति ।
24:25 किन्तु, अहं तस्य कृते वर्णिकां करोमि ।
24:27 तत्कर्तुमहं layer mask इतीदं योजयामि ।
24:31 दक्षिणनोदनं कृत्वा, Add Layer Mask अपि च इदानीमहं Grayscale copy of layer इतीदं स्वीकरोमि ।
24:40 इदानीमत्र भूमिं पश्यतु, इयं प्रकाशयुक्ता अस्ति ।
24:45 इदमत्र पूर्ववत् नास्ति किन्तु, भवान् जले महत् परिवर्तनानि द्रष्टुं शक्नोति ।
24:54 अपि च इदानीं स्तरवर्णिकायाः उपरि वयं किञ्चित् कार्यं कुर्मः ।
24:58 Show Layer Mask इत्यस्य उपरि नुदतु ।
25:01 भवान् तदत्र पश्यति । अपि च Sky इतीदं निष्क्रियं करोतु ।
25:05 इदानीमहं Curves इति स्तरं चिनोमि । अपि च यथा भूमिः गाढतमा भवेत् तथा curves इतीदमहं व्यवस्थापयामि ।
25:17 समुद्राकाशौ प्रकाशतमौ सञ्जातौ ।
25:29 इदानीं वयं चित्रं पश्यामः ।
25:33 Show Layer Mask इतीदम् अपनुदतु (Unclick) ।
25:39 इदानीं न्यूनाधिकं भेदं विना तत् भूमेः कृते सम्यक् अस्ति । अपि च समुद्रः उत्तमः इति भवान् पश्यति ।
25:51 इदानीमहं यदि Sea इति स्तरं चिनोमि तर्हि समुद्रः उत्तमः अस्ति इति भवान् द्रष्टुं शक्नोति ।
25:59 इदानीमहं Curves इति साधनमुपयुज्य चित्रस्थमूल्यानि परिवर्तयामि ।
26:09 मम चिन्तनानुसारं,
26:16 समुद्रस्य कृते किञ्चिदधिकं व्यतिरेकं ददामि ।
26:24 अत्र, किञ्चित् एतत्सदृशम् ।
26:31 चित्रे, अत्र निम्नस्य तीव्रता अधिकव्यतिरेकेण युक्तः अस्ति ।
26:37 स्तम्भालेखस्य एषः भागः समुद्रः आसीत् ।
26:41 अतः, अत्र मह्यं यथेच्छं व्यतिरेकः लभ्यते ।
26:49 तस्य किञ्चित् व्यवस्थितिपर्यन्तम् अपि वक्रं परितः पूरयतु ।
26:56 इतः पूर्वमहम् अस्य प्रयत्नं न कृतवान् । अतः अत्र मया प्रयोगः करणीयः ।
27:10 मत्सविधे पूर्वं यदासीत् तदपेक्षया इदं बहु उत्तममस्ति ।
27:17 इदानीं शिलायाः अपि च समुद्रस्य च उभयोः सीमाः वयं पश्यामः ।
27:24 प्रथमं, तत्र मह्यं महती समस्या आसीत् ।
27:28 अतः, अस्मिन् पर्याये मह्यं दृग्गोचराः hallows इतीमे न प्राप्ताः ।
27:34 अपि च यदा अहमस्मिन् सर्पणं करोमि,
27:41 भवान् hallow इतिवत् किमपि द्रष्टुं शक्नोति । किन्तु, केवलमयम् अत्रत्य समुद्रस्य तीरं प्रति आगम्यमानः फेनः अस्ति ।
27:51 hallow इतीदं नास्ति ।
27:56 मम प्रथमप्रयत्नेषु, भूमिः, समुद्रः अपि च आकाशयोः मध्ये भेदं प्राप्तुं प्रयत्नं कृतवान् ।
28:05 अहमेवमेव अधिकं कृतवान् ।
28:08 किन्तु एषः क्रमः, अत्र तत् सम्यक् कार्यं करोतीति मे भावना । अत्र कर्तव्यं किमपि अवशिष्टमस्ति किम् ?
28:18 अधिकविवरणम् अस्मिन् शृङ्खले लभ्यमस्ति http://meetthegimp.org
28:25 यदि भवान् अभिप्रायं प्रेषयितुम् इच्छति तर्हि कृपया info@meetthegimp.org इत्यत्र प्रेषयतु ।
28:35 अग्रिमसमये सर्वान् पश्यामि इति आशासे । पुनर्मिलामः ।
28:41 Spoken Tutorial परियोजनायाम् अनुवादकः वासुदेवः, प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणं, धन्यवादाः।

Contributors and Content Editors

NaveenBhat, Sandhya.np14