Difference between revisions of "GIMP/C2/Colours-And-Dialogs/Sanskrit"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:23 | '''Meet the GIMP''' इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम...")
 
 
Line 9: Line 9:
 
|-
 
|-
 
| 00:32
 
| 00:32
| अत्र '''Foreground अपि च Background Colour''' इति संवादपेटिका विद्यते । 6 विभिन्नविधानेषु भवान् वर्णान् चेतुं शक्नोति ।  
+
| अत्र '''Foreground''' अपि च '''Background Colour''' इति संवादपेटिका विद्यते । 6 विभिन्नविधानेषु भवान् वर्णान् चेतुं शक्नोति ।  
  
 
|-
 
|-
 
| 00:47
 
| 00:47
| प्रथमविधाने, H, S, V, R, G, B इत्येताः अवसर्पिण्यः भवान् द्रष्टुं शक्नोति । अपि च ताः क्रमशः '''Hue, Saturation, Value, Red, Green, Blue''' इत्येवम् अवतिष्ठन्ति |  
+
| प्रथमविधाने, '''H, S, V, R, G, B''' इत्येताः अवसर्पिण्यः भवान् द्रष्टुं शक्नोति । अपि च ताः क्रमशः '''Hue, Saturation, Value, Red, Green, Blue''' इत्येवम् अवतिष्ठन्ति |  
  
 
|-
 
|-
Line 173: Line 173:
 
|-
 
|-
 
| 10:35
 
| 10:35
| चतुर्थी अवसर्पिणी K इतीयं कृष्णवर्णस्य प्रातिनिध्यम् आवहति ।  
+
| चतुर्थी अवसर्पिणी '''K''' इतीयं कृष्णवर्णस्य प्रातिनिध्यम् आवहति ।  
  
 
|-
 
|-
Line 193: Line 193:
 
|-
 
|-
 
| 11:20
 
| 11:20
| Y इति अवसर्पिणीं 40 प्रति, M इतीदं 80 प्रति अपि च C इतीदं 20 प्रति अवनयन्तु ।  
+
| '''Y''' इति अवसर्पिणीं '''40''' प्रति, '''M''' इतीदं '''80''' प्रति अपि च '''C''' इतीदं '''20''' प्रति अवनयन्तु ।  
  
 
|-
 
|-
 
| 11:29
 
| 11:29
| इदानीं, यदा अहं वर्णं चिनोमि तदा भवान् M इति अवसर्पिण्यां 75, Y इत्यत्र 26 अपि च K इत्यत्र 20 इति सङ्ख्याः प्राप्नोति ।  
+
| इदानीं, यदा अहं वर्णं चिनोमि तदा भवान् '''M''' इति अवसर्पिण्यां '''75, Y''' इत्यत्र '''26''' अपि च '''K''' इत्यत्र '''20''' इति सङ्ख्याः प्राप्नोति ।  
  
 
|-
 
|-

Latest revision as of 10:06, 30 September 2019

Time Narration
00:23 Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । Rolf steinort महाभागः इदं Bremen इति Northern Germany देशे ध्वन्यङ्कनं कृतवानस्ति ।
00:32 अत्र Foreground अपि च Background Colour इति संवादपेटिका विद्यते । 6 विभिन्नविधानेषु भवान् वर्णान् चेतुं शक्नोति ।
00:47
01:04 अत्र अहं Foreground colour रूपेण कृष्णं चिनोमि । अपि च Hue, Saturation, Value, Red, Green, Blue इत्येतेषां सर्वेषां मूल्यं शून्यम् अस्ति इति द्रष्टुं शक्यते ।
01:20 अपि च Hue इत्यस्य मूल्यं यदा अहं वर्धयामि तदा किमपि न परिवर्त्यते ।
01:28 कृष्णः कृष्णे एव अवशिष्यते, यतोहि मूल्यं शून्यम् अस्ति । अपि च यदा अहं मूल्यं वर्धयामि तदा धूसरस्य विभिन्नछायाः प्राप्नोमि ।
01:41 यदा मूल्यं शून्यं भवति तदा अहं Saturation इतीदं वर्धयितुं शक्नोमि । अपि च किमपि न परिवर्त्यते ।
01:50 किन्तु, यदा अहं Saturation इतीदं वर्धयामि तदा अन्यासु अवसर्पिणीषु वर्णः किञ्चित् परिवर्त्यते इति भवान् द्रष्टुं शक्नोति ।
01:59 यदि अहं Hue इतीदं कर्षयामि तर्हि किमपि न भवति । किन्तु, यदा अहं Saturation इतीदं कर्षयामि तदा Value इत्यस्य वर्णः नीलवर्णरूपेण परिवर्तते ।
02:12 यदि भवान् 'HSV' इति व्यवस्थया वर्णं चेतुम् इच्छति तर्हि Saturation अपि च Value इत्येतयोः अवसर्पिणीम् उपरि कर्षयतु । अपि च Hue इति अवसर्पिण्याम् इन्द्रधनुषः भिन्नवर्णाः प्राप्यन्ते । भवान् एभ्यः वर्णेभ्यः चेतुं शक्नोति ।
02:48 अत्र Red, Green अपि च Blue इति अवसर्पिणीषु 'HSV' इति अवसर्पिणीनाम् अनुसारेण वर्णाः परिवर्त्यन्ते इति भवान् द्रष्टुं शक्नोति । अपि च अनेन वर्णचयनं सुलभं भवति ।
03:03 यदि भवान् पेलववर्णम् इच्छति तर्हि Saturation इति अवसर्पिणीं व्यवस्थापयतु । यदि गाढतरवर्णानां सम्यक् मिश्रणम् इच्छति तर्हि तदनुसारम् Value इति अवसर्पिणीम् अवनयतु । अपि च Red, Green अथवा Blue इति अवसर्पिणीषु मात्रां चिनोतु ।
03:23 अतः Hue, Saturation अपि च Value इतीदम् अवगन्तुं सुलभं नास्ति । किन्तु, वर्णान् चेतुम् अयम् उत्तमः मार्गः ।
03:44 यदा अहं निर्दिष्टवर्णं व्यवस्थापयितुम् इच्छामि तदा एव अहम् इमां संवादपेटिकाम् उपयुञ्जे ।
03:51 उदाहरणार्थं, यदि अहं मध्यमधूसरवर्णम् एव इच्छामि तर्हि अहं Value इति अवसर्पिणीं 50 पर्यन्तम् अवनयामि । अतः 0% अपि च 100% इति अनयोः मध्ये मूल्यं विभाजितं भवति । 'RGB' इति अवसर्पिणीषु अहं 127 इति सङ्ख्यां प्रति निश्चिनोमि । अपि च भवान् मध्यमधूसरवर्णम् एव प्राप्नोति ।
04:28 इदानीं वयम् अन्यसंवादपेटिकाणाम् उपरि दृष्टिं न्यसामः ।
04:33 इयं संवादपेटिका 'HSV' इति वर्णप्रतिकृतिम् आधारितम् अस्ति । अपि च प्रथमं, भवान् यं वर्णं प्राप्तुम् इच्छति तं वर्तुले चिनोतु ।
04:50 अपि च अनन्तरं त्रिकोणे Value, Saturation इतीदं चिनोतु ।
05:02 अतः Hue इत्यस्य चयने कृते अत्र, त्रिकोणे समान Hue इत्येतस्य Value अपि च Saturation इत्येतयोः कृते भिन्नमूल्यानि प्राप्यन्ते ।
05:22 अग्रिमसंवादपेटिका अनेन सह अत्र साम्यं भजते ।
05:27 संवादपेटिकायाम् अस्याम् Hue इतीदं चेतुं प्रच्छेदः (strip) अस्ति । अपि च अस्मिन् चतुष्कोणस्थे त्रिकोणे विद्यमानवर्णसदृशः एव प्राप्यते । अपि च इदानीं भवान् अस्मात् स्थानात् भवतः वर्णं चेतुं शक्नोति अथवा अत्र Hue इतीदं परिवर्तयितुं शक्नोति अपि च भवतः नूतनवर्णं चिनोतु ।
05:58 अत्र भवान् Saturation इतीदं प्रति विपरिवर्तनं (switch) कर्तुमपि शक्नोति ।
06:02 अपि च Value अपि च Hue इत्यनयोः अवसर्पिण्याः अवनयनात् प्राप्तं संयोजनं चिनोतु ।
06:12 भवान् गाढतरवर्णं प्राप्तुम् अत्र Value इतीदं निश्चिनोतु । अपि च तदनुसारेण Saturation अपि च Hue इतीदं परिवर्तयतु ।
06:33 अनेन प्रकारेण इदं Red, Green & Blue इत्येतेषां कृते साहाय्यं करोति ।
06:40 मम इच्छानुसारम् अहं वर्णेषु नीलवर्णस्य मूल्यं परिवर्तयितुं शक्नोमि । अनन्तरं तेन एव क्रमेण रक्तहरितवर्णयोः अपि मूल्यं परिवर्तयितुं शक्यते ।
06:55 इयं संवादपेटिका पूर्वतनापेक्षया न नावीन्ययुक्ता ।
07:01 water colour mixup इतीयम् अग्रिमा संवादपेटिका अस्ति ।
07:10 इयम् अवसर्पिणी अत्र वर्णानां कुण्डिकासु (pots) tipping इत्यस्य तीव्रतां व्यवस्थापयति ।
07:18 अपि च भवान् अस्याः पेटिकायाः वर्णं चेतुं शक्नोति ।
07:32 अपि च अयम् अत्र फलितवर्णः अस्ति ।
07:37 भवान् वर्णमेकं चेतुं शक्नोति, पीतवर्णः चितः अस्ति इति चिन्तयामः । इमं वर्णं प्रति अहं किञ्चित् नीलवर्णं किञ्चित् रक्तवर्णं च योजयामि । अनेन फलितेन पङ्कसदृशवर्णः प्राप्यते ।
07:56 अस्याः संवादपेटिकायाः अहम् असकृत् उपयोगं न करोमि ।
08:02 इयं संवादपेटिका सक्रियं pallet इतीदं दर्शयति । अपि च भवान् अन्यत्र क्वचित् pallet इतीदं व्यवस्थापयितुं शक्नोति ।
08:10 इदं केवलं चित्रणपरिकल्पनायाः (graphic designing) अपि च जालपुटपरिकल्पनायाः कृते उपयोगकरम् अस्ति । अहम् इमां संवादपेटिकाम् उपयुज्य अधिकं कदापि किमपि न कृतवान् ।
08:20 अत्र printer colours इत्येतस्य विवरणम् इतोऽपि अवशिष्टम् अस्ति ।
08:31 इयं संवादपेटिका केवलं वृत्तिमतानां मुद्रकाणां कृते इति मे मतिः । Red, Green अपि च Blue इत्येतस्य अपेक्षया मुद्रकेषु Cyan, Magenta अपि च Yellow इत्येतेषाम् उपयोगः क्रियते । यतोहि इमानि वर्णान् वियोगं (subtract) कुर्वन्ति ।
08:54 Red, Green अपि च Blue इत्येतेषां मिश्रणेन श्वेतवर्णः उत्पद्यते । यदि अहं Cyan, Magenta अपि च Yellow इत्येतान् शून्यं प्रति मुद्रके व्यवस्थापयामि, तर्हि नूनं श्वेतपत्रं मुद्रितं भवति ।
09:11 यदि कृष्णं मुद्रितुम् इच्छामि तर्हि अहं Cyan, Meganta & Yellow इतीदं 100 प्रति व्यवस्थापयितुं शक्नोमि । अपि च मह्यं सम्पूर्णं कृष्णपत्रं प्राप्यते ।
09:37 इमे वर्णाः, इमे रङ्गाः च प्रकाशात् वियोगं प्राप्नुवन्ति, अपि च केवलं Cyan इतीदं प्रतिफलितं भवति ।
09:46 अपि च तेषां मिश्रणेन भवान् अधिकाधिकं प्रकाशात् वियोगं (substract) कर्तुं शक्नोति । मुद्रितुम् इष्टान् सर्वान् वर्णान् प्राप्तुं शक्नोति ।
09:58 दृग्गोचराः केचन वर्णाः मुद्रितुम् अशक्याः, अतः फलितं परिवर्त्यते ।
10:35 चतुर्थी अवसर्पिणी K इतीयं कृष्णवर्णस्य प्रातिनिध्यम् आवहति ।
10:41 नीलवर्णेन सह असमानतां वारयितुं कृष्णवर्णस्य कृते 'K' इति व्यवस्थापितम् अस्ति ।
10:51 यदा मम पृष्ठभूमिवर्णं श्वेतवर्णम् अहं नुदामि तदा किमपि न परिवर्त्यते इति भवान् द्रष्टुं शक्नोति ।
11:08 वर्णाः समानाः एव सन्ति किन्तु, Cyan इतीयम् अवसर्पिणी अधः गता । अपि च K इतीयम् अवसर्पिणी उपरि गता ।
11:18 वयं तस्य पुनरावर्तनं कुर्मः ।
11:20 Y इति अवसर्पिणीं 40 प्रति, M इतीदं 80 प्रति अपि च C इतीदं 20 प्रति अवनयन्तु ।
11:29 इदानीं, यदा अहं वर्णं चिनोमि तदा भवान् M इति अवसर्पिण्यां 75, Y इत्यत्र 26 अपि च K इत्यत्र 20 इति सङ्ख्याः प्राप्नोति ।
11:41 अतः, वर्णः न परिवर्तितः इति भवान् द्रष्टुं शक्नोति । किन्तु, चित्रे एतावता एव cyan, magenta, पीतवर्णः इत्येतेषां मिश्रणम्, इदानीं magenta, पीतवर्णः कृष्णवर्णः इत्येतेषां मिश्रणरूपेण परिवर्त्यते ।
11:59 कृष्णमशी किञ्चित् न्यूनमूल्येन लभ्यते । अतः अत्र स्थिरबिन्दुं प्रति macky cyan इत्यस्य मिश्रणं, magenta अपि च पीतवर्णस्य अपेक्षया Magenta, पीतवर्णः कृष्णवर्णः च इत्येतेषां मिश्रणम् उपयुक्तम् अस्ति ।
12:22 अतः, इदानीं वयं वर्णचयनम् इत्यस्य षट् संवादपेटिकाः समापितवन्तः ।
12:28 किन्तु, colour swaps इति इमे द्वे अवशिष्टे ।
12:32 पुरोवर्तिवर्णः मम foreground इति वर्णः अपि च अन्यः background इति वर्णः अस्ति । यदा तस्य उपरि अहं नुदामि तदा भवान् अत्र व्यवस्थापयितुं शक्नोति ।
12:46 यदि भवान् इमान् वर्णान् चित्रे अथवा चयने इच्छति, तर्हि तत्स्थानस्य उपरि इमान् वर्णान् कर्षयतु अपि च इदं तेन वर्णेन पूरितं भवति ।
13:02 भवान् colour swaps इतीदं साधनपेटिकायां प्राप्तुं शक्नोति ।
13:14 नूनं File, Preferences इत्यत्र गत्वा अनन्तरं Toolbox इत्यत्र गच्छतु । अपि च अत्र भवान् foreground background colour brush active image इतीदं पश्यति ।
13:37 अहम् इदम् अनन्तरम् पिदधामि यतोहि मम साधनपेटिकायाम् इदं बहु स्थानं गृह्णाति ।
13:46 foreground अपि च background colour इत्यस्य विनिमयं कर्तुं colour swaps इतीदं दक्षिणभागे कोणे उपरि लघु चित्रकम् (icon) अस्ति ।
13:56 'X' इति कीलकनोदनेन अपि इदं कर्तुं शक्यते ।
14:03 अधः वामभागे कोणे विद्यमानं चित्रकं पुरोदेश-पृष्ठदेशवर्णान् कृष्ण-श्वेतवर्णौ प्रति व्यवस्थापयितुम् उपयुज्यते ।
14:14 इदम् उत्तमं लक्षणमस्ति । colour picker इतीदं भवतः इच्छानुसारं पटलात् (screen) यं कञ्चित् वर्णम् अथवा जालपुटात् अपि चेतुम् अस्ति ।
14:31 अपि चान्ते, Hex code इतीदं वर्णान् निरूपयितुं क्षेत्रमेकम् अस्ति इति भवान् द्रष्टुं शक्नोति ।
14:45 अपि च यदा अहं वर्णं परिवर्तयामि तदा भवान् कोड् कथं परिवर्त्यते इति भवान् द्रष्टुं शक्नोति । अपि च अहं Hex code इत्यत्र टङ्कयितुमपि शक्नोमि । अपि च वर्णं प्राप्तुम् अथवा वर्णयुक्तं नामापि भवान् लिखितुं शक्नोति ।
15:06 उदाहरणार्थम् अहं 'L' इति टङ्कयामि अपि च भवान् सर्ववर्णान् lawn हरिते प्राप्नोति । इदं च lawn हरितमस्ति । अतः इदम् आसीत् सविस्तृतः वर्णसंवादः ।
15:19 अहं मार्गविषयकं बहु भाषितवान् इति चिन्तये ।
15:23 Spoken Tutorial प्रकल्पाय अनुवादकः वासुदेवः प्रवाचकश्च श्रीनवीनभट्टः उप्पिनपट्टणम् । धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14