GIMP/C2/Brushes/Sanskrit

From Script | Spoken-Tutorial
Revision as of 21:49, 25 September 2019 by Sandhya.np14 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:23 Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । Rolf steinort इदं Bremen इति Northern Germany देशे ध्वन्यङ्कनं कृतवान् अस्ति ।
00:32 पूर्वस्मिन् पाठे Drawing tools इति विषये अहं कांश्चन विषयान् दर्शितवान् । कथञ्चित् apply jitter इतीदं कीलकं परित्यक्तम् ।
00:43 अहं तत् कृतवान् इति स्मरामि, किन्तु, सम्पादनवेलायां तत् परित्यक्तं भवेत् ।
00:51 यदा अहम् अत्र रेखाः चित्रयामि, तदा इमे मृदुकोणयुक्ताः अपि च लेखन्या कृताः इव भाति इति भवान् पश्यति ।
01:09 इदानीम् अहं Apply jitter इतीदं चित्वा मूल्यम् अर्धं प्रति व्यवस्थापयामि । रङ्गसेचनकूर्चः किञ्चित् विग्नं (jitters) भवति अपि च सीमा पूर्ववत् समं नास्ति इति भवान् पश्यति ।
01:29 वयं मूल्यं वर्धयामः । अपि च इदानीम् अत्र मया रचितरेखाः परितः वितरितबिन्दूनां मेघं भवान् द्रष्टुं शक्नोति ।
01:41 अपि च इदमेव jitter इति कीलकस्य रहस्यम् ।
01:55 अत्र अन्यत् समीकरणीयम् अस्ति ।
02:00 Pen अथवा Brush अपि च Eraser इत्यनयोः साधनयोः मध्ये एकः मुख्यभेदः अस्ति इति Hansen महाभागः मह्यं लिखितवान् ।
02:06 इदं क्रियायां द्रष्टुं, foreground layer इत्यस्य उपरि transparency इत्यस्मिन् अर्थात् Alpha channel इतीदं सक्रियं कृत्वा एवमेव किमपि रङ्गसेचनं करोतु ।
02:15 pen अथवा brush इतीदं चितेन background colour इत्यनेन, तेन वर्णेन रङ्गसेचनं करोतु । किन्तु, Eraser इतीदं वर्णं निष्कास्य, तत् पारदर्शकं करोति ।
02:25 अस्तु, तत् वयं प्रयतामहे ।
02:27 मम पुरोदेशवर्णः कृष्णः, पृष्ठदेशवर्णः नारङ्गः च अस्ति । अपि च स्तरस्य नाम विस्थूले (bold) अस्ति इति भवान् द्रष्टुं शक्नोति, alpha channel इतीदं चित्रे नास्ति इत्यर्थः ।
02:41 अतः, अहं alpha channel इतीदं संयुतनं करोमि (switch on) ।
02:47 अतः, Eraser इतीदं चिनुमः ।
02:54 अत्र, मम पुरोदेश-पृष्ठदेशयोः च वर्णः समानः अस्ति । अतः अहं Ctrl+click इतीदं नुत्वा नारङ्गं पृष्ठदेशवर्णत्वेन चिनोमि ।
03:12 अतः, मूलतः पृष्ठदेशवर्णेन वयं रङ्गसेचनं कुर्वन्तः । अपि च इदानीम् अहं स्तरस्य उपरि दक्षिणनोदनं कृत्वा Add Alpha Channel इतीदं चित्वा alpha channel On इतीदं करोमि । इतः परं नाम कदापि विस्थूले (bold) न भवति इति भवान् द्रष्टुं शक्नोति । अपि च इदानीम् Eraser इतीदं चिनोमि ।
03:32 पुरोदेशः पृष्ठदेशः च वर्णः मार्जितः इति भवान् द्रष्टुं शक्नोति ।
03:41 अहम् इदानीं Paintbrush अपि च रङ्गसेचनं कर्तुं कूर्चाणां चयनम् इति विषये अधिकं वक्तुम् इच्छामि ।
04:01 अतः, Meet The GIMP इत्यस्मिन् पाठे वयं brushes इति विषये चर्चयामः ।
04:07 Pencil इत्यनेन आरभ्य, मम चिन्तनानुसारं Dodge अपि च Burn इति साधनपर्यन्तम् अपि Brushes इतीदं बहुभिः साधनैः उपयुज्यमानम् अस्ति ।
04:17 Ink इतीदं परित्यज्य मध्ये विद्यमानसाधनानि इमानि कूर्चम् उपयुञ्जते ।
04:24 अतः, अहम् इदानीं Paintbrush इतीदम् उदाहरणत्वेन चिनोमि ।
04:30 Brushes इति संवादपेटिकायाः नोदनेन अथवा साधनपेटिकायां Paintbrush इतीदं चित्वा Brush इति विकल्पस्य चयनेन भवान् कूर्चं चेतुं शक्नोति । अपि च कूर्चसमूहं प्राप्तुं शक्नोति ।
04:47 अत्र परितः लघु चिह्नानि सन्ति, यथा कूर्चः अत्र दर्शितः तथा लघु नास्ति इति plus इति चिह्नं सूचयति । अपि च यदा अहं तस्य उपरि नुदामि तदा बृहत् कूर्चं पश्यामि ।
05:03 इदं रक्तत्रिकोणं जीवितकूर्चः (animated brush) अस्ति ।
05:18 इदम् अत्र प्रयतामहे ।
05:27 इदं किञ्चित् अङ्कनीचित्रणम् इव दृश्यते । अपि च अयम् अङ्कनीरेखान्यासः (pencil sketch) इति कथ्यते ।
05:36 नीलवर्णे विद्यमानाः parametric brushes इति कथ्यन्ते ।
05:41 एताः मूलतः गणितीयदशाः सन्ति, इदम् अहं किञ्चित् कालानन्तरं भवते दर्शयामि ।
05:49 केचन अत्र आदर्शकूर्चाः (standard brushes) सन्ति ।
05:52 अस्मिन् कूर्चे, कृष्णभागः पुरोदेशवर्णेन पूरितः अस्ति । सन्दर्भे अस्मिन् अयं कृष्णः । अपि च एतेषु आदर्शकूर्चेषु श्वेतभागः न परिवर्तितः । अतः, अहम् अत्र रङ्गसेचनं कर्तुं शक्नोमि ।
06:09 अपि च, यदि अहं मम पुरोदेशवर्णं रक्तं प्रति परिवर्तयामि तर्हि रङ्गसेचने लघु चित्रं रक्तं भवति । अपि च अयं श्वेतः पृष्ठदेशरूपेण तिष्ठति ।
06:29 मरिचवर्णकूर्चवत् (pepper color brush) अत्र अन्ये केचन कूर्चाः सन्ति ।
06:35 अत्र अहं नूनं मरिचं स्थापयितुम् अपि च एतेषां मरिचाणां रेखां रचयितुम् अपि शक्नोमि ।
06:52 अयं कूर्चः बहु उपयोगकरः नास्ति किन्तु, भवान् भवदीयकूर्चान् निर्मातुं शक्नोति अपि च ते उपयोक्तुं योग्याः स्युः ।
07:06 अत्र बहु उत्तमः कूर्चः अस्ति ।
07:10 इदं vine इति कथ्यते । अपि च vine इत्येतस्य एकां रेखां रचयितुं शक्नोति । तत् द्रष्टुं बहु सुन्दरम् अस्ति ।
07:18 भवान् तत् अलङ्करार्थम् उपयोक्तुं शक्नोति ।
07:32 अग्रिमे अंशफलके (Clipboard) विद्यमानं विचित्रकूर्चं वयं पश्यामः ।
07:37 अतः, इदानीम् अहं किमपि चित्रयामि । किन्तु, ततः पूर्वम् अहं कृष्णं श्वेतं च मम वर्णत्वेन उपयुञ्जे ।
08:01 अतः, इदानीम् अहं रङ्गसेचनं परितः चतुरस्रस्थानं चित्वा अपि च तत् Ctrl+C इत्यनेन अंशफलके प्रतिलेखं (copy) करोमि ।
08:16 प्रतिलेखं कर्तुं, अहं क्रमशः Edit >> Copy इत्यत्र गन्तुम् अथवा दक्षिणनोदनं कृत्वा Copy इति कर्तुं शक्नोमि ।
08:33 इदानीम् अहम् अत्र मम Paintbrush इतीदं चित्वा Clipboard इति संवादपेटिकां चिनोमि ।
08:41 भवान् पश्यतु, इदम् अत्र कार्यं न कुर्वत् अस्ति ।
09:05 अहं केवलम् अस्मिन् चयने रङ्गसेचनं कर्तुं शक्नोमि स्म; यतोहि इदं स्थानं चितम् अस्ति अपि च इदं न चितम् अस्ति ।
09:15 अतः, Shift+Ctrl+A इतीदं नुत्वा अहम् इदं चिनोमि अपि च इदानीं रङ्गसेचनं कर्तुं शक्यते ।
09:26 अत्र भवान् पश्यतु, मम लघु पुष्पम् उत्सूच्यते (pops up) ।
09:30 भवान् एतेषां लघु पुष्पाणां रेखाम् एकाम् अपि चित्रयितुं शक्नोति, इदं तावत् सम्यक् नास्ति । यतोहि पृष्ठदेशः अपि प्रतिलेखितः अस्ति । अपि च प्रत्येकं पुष्पस्य उपरि अन्यपुष्पं प्रतिलेखितम् अस्ति ।
09:48 केवलं चित्रस्य किञ्चित् भागं प्रतिलेखं कृत्वा अपि च अनन्तरं तत् चित्रे यत्र अपेक्ष्यते तत्र चित्रणं करोति चेत् इदं सम्यक् दृश्यते ।
09:59 भवतां logos इतीदं मुद्रितुम् अथवा चित्रे एकस्य पुरुषस्य वदनम् असंस्कृतेन मुद्रितुम् इदम् उपयोक्तुं शक्यते ।
10:24 यदा Brushes इति पृष्ठम् उद्घाटयामि अत्र तदा अहं किञ्चित् कूर्चाणां विषये परिष्कारं कर्तुं शक्नोमि ।
10:31 Spacing इतीदम् अत्र प्रथमम् अस्ति । इदानीम् अपि मम अंशफलकस्य कूर्चः चितः अस्ति अपि च यदा अहं Spacing इत्यनेन 100% प्रति गच्छामि तदा सुन्दरपुष्पाणां रेखां रचयितुं शक्नोमि ।
10:53 केवलं प्रथमविकल्पस्य नोदनेन अस्यां संवादपेटिकायां भवान् नूतनकूर्चं निर्मातुं शक्नोति । किन्तु, अयं सम्पादनविकल्पः अस्ति ।
11:10 अतः, द्वितीयविकल्पं चित्वा अत्र अहं नूतनं कूर्चं निर्मातुं शक्नोमि ।
11:20 अहं Shape इत्यत्र वर्तुलं, चतुष्कोणम् अथवा वज्राकारं चेतुं शक्नोमि ।
11:27 वयं वज्राकारं स्वीकुर्मः । अहम् Radius इतीदं परिवर्तयितुं शक्नोमि अपि च Spikes इतीदम् अपि कूर्चं प्रति योजयितुं शक्नोमि ।
11:40 अहं मम कूर्चस्य Hardness इतीदं परिवर्त्य मृदु अथवा कठिणम् अपि कर्तुं शक्नोमि इति भवान् द्रष्टुं शक्नोति ।
11:48 अहं Aspect ratio इतीदम् अपि परिवर्तयितुं शक्नोमि ।
12:03 कूर्चस्य Angle इत्यस्य परिवर्तनपूर्वकं, अहम् इदं किञ्चित् अभिनतं (tilt) कृत्वा Spacing इतीदं परिवर्तयितुं शक्नोमि ।
12:13 वयं तत् अत्र कुर्मः । अनेन लघुनक्षत्रेण, Spacing इतीदं 200 प्रति वर्धयामः ।
12:22 इदानीं नूतनकूर्चस्य निर्माणम् अत्र समापितवान् । अपि च इदम् अहं star इति कथयामि ।
12:37 भवतः नूतनं star इतीदं कूर्चम् इदानीं संवादपेटिकायां Brushes इत्यत्र भवान् द्रष्टुं शक्नोति ।
12:43 अपि च यदा भवान् तत् उपयुञ्जते तदा एतत्सदृशनक्षत्रं प्राप्नोति ।
12:49 इदानीम्, मया इदं केवलकृष्णेन पूरणीयम् अस्ति ।
12:58 गौरवर्णं भवतः पुरोदेशवर्णत्वेन चिनोतु ।
13:02 अधिकमूल्ययुतं jitter इतीदं star इति कूर्चं प्रति योजयित्वा अत्र नक्षत्रं मुद्रयतु ।
13:18 jitter इतीदं किञ्चित् अधिकम् अस्ति इति अहं चिन्तये । अपि च इदं सम्यक् न दृश्यते ।
13:27 नूतनकूर्चं निर्मातुम् अतीव शीघ्रं विधानम् इदम् आसीत् ।
13:33 प्रथमविकल्पस्य चयनेन अहं कूर्चं सम्पादयितुं शक्नोमि । अहं Angle इतीदं किञ्चित् परिवर्त्य, अपि च अत्र इदम् विवर्त्य (turn) उपयोक्तुं शक्नोमि ।
13:51 अहं कोणं किञ्चित् परिवर्तितवान्, अतः इदं सम्यक् कार्यं करोति ।
13:58 नूतनकूर्चस्य निर्माणद्वारा गणितीयया व्याख्यातान्, भवतः एव कूर्चान् भवान् निर्मातुं शक्नोति ।
14:05 प्रथमविकल्पः नाम, नूनं किमपि अंशफलके प्रतिलेखकरणम् इति ।
14:10 पाठे अस्मिन् अन्तिमतया अन्तर्जालतः कूर्चाणां प्राप्तिं दर्शयितुम् इच्छामि । तत् केवलं GIMP brushes इत्यस्य अन्वेषणेन भवति । अपि च भवतः कृते अत्र deviantART by Iceytina इत्यस्य उपरि एकम् उदाहरणम् अस्ति ।
14:49 अत्र लभ्यमानाः कूर्चाः Iceytina इत्यनेन रचिताः सन्ति । अपि च Download इत्यस्य चयनेन अहम् अवारोहणं (download) कर्तुं शक्नोमि ।
15:05 अपि च तान् अहं वृत्तके (disk) save इतीदं करोमि ।
15:14 अहं मम वृत्तकं प्रति अवारोहणं कृतवान् । अपि च एकस्मिन् निमेषे एव प्रतिष्ठापनं (install) करोमि ।
15:21 पत्रम् इदं वयं पश्यामः । अपि च एते कूर्चाः Creative Commons License इत्यतः प्राप्त-आज्ञापत्राः सन्ति । तत् आधृतवस्तूनां निर्माणं कर्तुम् अहम् अनुज्ञातः न अस्मि । तान् अहं प्राप्तुं, परिवर्तयितुम् अपि च पुनः जालपुटे स्थापयितुम् अपि न शक्नोमि ।
15:47 किन्तु, तान् अहं मूलशृङ्खलम् (original link) अपि च Iceytina इति नामोल्लेखं कृत्वा उपयोक्तुं, तैः सह कार्यं कर्तुम् अपि च मम जालपुटे तान् प्रकाशयितुं शक्नोमि ।
16:00 GIMP Brushes इत्यत्र गन्तुं शृङ्खलम् (link) अस्ति इति अपि च तत्र deviantART इत्यत्र तथैव अन्यत्र जालपुटेषु अपि बहु अधिकाः कूर्चाः सन्ति इति भवान् अत्र द्रष्टुं शक्नोति ।
16:14 इदं, गत 24 घण्टाभ्यः कूर्चेषु अतिविनूतनः प्रसिद्धः च brush इत्ययम् एकः अस्ति ।
16:21 अहं 1 month इतीदं चिनोमि । अपि च इदानीम् अत्र विभिन्नप्रकारकाः बहवः कूर्चाः सन्ति इति भवान् द्रष्टुं शक्नोति ।
16:36 अस्तु ! वयं Stardust and Twinkles इतीदं स्वीकुर्मः ।
16:49 किन्तु, इदम् अतीव आश्चर्यं जनयति ।
16:59 KNUX’S Spike Brush Pack इतीदं Knux57 इत्यनेन इति ।
17:04 अस्तु, अत्र आज्ञापत्रस्य सूचना नास्ति, अतः अहम् इदम् अवारोहणं कृत्वा तस्य उपरि कार्यं कर्तुं शक्नोमि ।
17:29 अहं नूनं Download इतीदं नुदामि ।
17:32 अत्र GIMP 2.4 brushes इत्यस्य सञ्चयः (folder) उद्घाटितः अस्ति अपि च 'star.vbr' इतीदं द्रष्टुं शक्नोति ।
17:44 अहं 'vbr' इत्यस्य विषये न जानामि किन्तु, 'gbr' इतीमे तु GIMP इत्यस्य उत्कृष्टकूर्चाः सन्ति ।
17:54 अत्र विद्यमानाः कूर्चाः तु, तस्मात् जालपुटात् Iceytina इत्यनेन रचिताः सन्ति ।
18:01 अहं मम पुरावृत्त (archive) साधनेन इमं सञ्चयम् उद्घाटयामि । 'jpg' इत्यत्र विद्यामानं 'water colours' इतीदम् अपि च 'README' इतिवत् सदृश्यः अन्याः बहुसञ्चिकाः (files) भवान् द्रष्टुं शक्नोति ।
18:20 अतः, अहं नूनं सर्वं चित्वा अपि च brushes इति विभागं (directory) प्रति कर्षयामि ।
18:35 सर्वाणि अत्र सन्ति ।
18:37 अपि च अहं Knux Spike Brush Pack इत्यनेन सह समानं करोमि ।
18:43 अहं Archive manager इत्यनेन सञ्चयम् उद्घाटितवान् । अत्र GIMP इत्यस्य कूर्चस्य सञ्चिकाः भवान् पश्यति ।
18:52 अतः, अहं सर्वं चित्वा मम brushes इति विभागं प्रति कर्षयामि ।
19:05 इदानीं मम कूर्चविभागे सर्वे कूर्चाः प्राप्ताः । अतः, अहं Archive Manager इतीदं पिधाय अत्र सञ्चयं पिदधामि । अपि च GIMP इतीदं प्रति प्रति आगच्छामि ।
19:21 किमपि परिवर्तितं नास्ति इति अत्र द्रष्टुं शक्नोति किन्तु, Reload Brushes इतीदं चेतुं शक्नोमि । इदानीम् अहं बहून् कूर्चान् प्राप्तवान् इति भवान् द्रष्टुं शक्नोति । इमे कूर्चाः Iceytina इत्यस्मात् आगताः अपि च अहम् अत्र परीक्षितुं शक्नोमि ।
19:46 इमे कूर्चाः water colour इतिवत् सन्ति ।
19:50 अतः, अत्र water colour box इत्यस्मात् एकं वर्णं चित्वा चित्रयामि ।
19:57 इमे कूर्चाः केवलं मुद्रणार्थम् उपयुज्यन्ते न तु चित्रणार्थम् ।
20:03 इमे कूर्चाः jitter इतीदं बहु प्राप्ताः सन्ति ।
20:17 प्रथमम् अहं पृष्ठदेशं मार्जयामि ।
20:23 अतः, अत्रत्याः इमे कूर्चाः कूटकरणं (fake) water colour इतिवत् कर्तुं योग्याः सन्ति अथवा चित्रं परितः आबन्धं (frame) रचयितुम् उपयोक्तुं शक्नोति ।
20:36 अतः, इदानीं Knux इति कूर्चान् पश्यामः ।
20:40 अहं तान् पूर्वं न दृष्टवान् अपि च वयं तत् यतामहे ।
20:47 इमे कूर्चाः बृहदाकारे सन्ति । इदं पुनः मुद्रणार्थं विद्यन्ते ।
20:53 अपि च अतीव भिन्नम् अस्ति । यदा एतैः सह रङ्गसेचनं करोमि तदा न तावत् सम्यक् अस्ति । किन्तु, यदा spacing इतीदं वर्धयित्वा opacity इतीदं न्यूनीकरोमि तदा इदं सम्यक् भवितुम् अर्हति ।
21:07 यदि भवान् कञ्चित् परितः सीमाम् इच्छति तर्हि इदं सम्यक् भवितुम् अर्हति ।
21:13 किन्तु, इमे कूर्चाः चित्रणस्य (graphical) कलाकाराणां कृते रचितम् अस्ति । अपि च भाचित्रकेभ्यः (photographers) न तावान् उपयोगकरः इति मे चिन्तनम् ।
21:23 किन्तु, कदाचित् भवान् तान् उपयोक्तुं मार्गम् अन्विषति ।
21:27 कूर्चविषयके बहु विषयान् चर्चितवान् इति चिन्तयामि । अहम् अनुप्राणितकूर्चस्य (animated brush) रचनम्, चित्रस्य जलनलिका (image hose) अपि च वर्णमयकूर्चाणां निर्माणविषये अन्यस्मिन् लघु प्रकाशने विवृणोमि ।
21:44 अधिकविवरणार्थं http://meetthegimp.org इत्यत्र गच्छतु । अपि च यदि टिप्पणीं प्रेषयितुम् इच्छति तर्हि कृपया info@meetthegimp.org. इत्यत्र प्रेषयतु ।
21:56 Spoken Tutorial प्रकल्पाय अनुवादकः वासुदेवः प्रवाचकश्च श्री नवीनभट्टः उप्पिनपट्टणं धन्यवादाः ।

Contributors and Content Editors

NaveenBhat, Sandhya.np14