GIMP/C2/Adjusting-Colours-Using-Layers/Sanskrit

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:22 Meet the GIMP इति पाठेऽस्मिन् सर्वेऽभ्यः स्वागतम् । Rolf Steinort महाभागः एतं पाठं Northern Germany देशस्थे Bremen इति स्थाने ध्वन्यङ्कनं कृतवान् ।
00:29 पूर्वतन-आवृत्यां सम्पादनोत्तरम् अहम् एतत् चित्रम् अत्र प्राप्तवान् ।
00:33 दिने च अस्मिन् अहं वर्णान् व्यवस्थापयितुं चिन्तयन् अस्मि ।
00:39 यतोहि चित्रमिदम् अतीव हरितम् अस्ति ।
00:41 अत्र वर्णं समायोजयितुंबहूनि विधानानि सन्ति, Curves इति साधनं तेषु अन्यतमम् अस्ति ।
00:47 अहं tool box इत्यत्र विद्यमानं Curves इति साधनं नुदामि । अनन्तरम् अहं Green Channel इति चिनोमि । पुनश्च curve इतीदम् अधः कर्षयामि ।
00:55 इदानीं भवन्तः,चित्रे विद्यमाने colour channels अपि च fog इतीमे यथार्थं fog इव दृश्येते ।
01:02 इदानीम् अहं, तथा curve व्यवस्थापयामि येन सम्पाद्यमानं चित्रं धूसरवर्णे (Gray) भवति न तु हरितवर्णे अथवा पाटलवर्णे (Pink)।
01:13 अहं Curves इति साधनस्य उपयोगं नैव कर्तुम् इच्छामि । यतोहि, एतेन चित्रस्थानि विवरणानि नश्येरन्, तथा च नष्टे चित्रे पुनस्समीकरणं कष्टाय।
01:23 यद्यपि अहं Undo इति साधन म्उपयोक्तुं शक्नोमि तथापि अनन्तरं सर्वेऽपि स्तराःपुनःकरणीयाः भवेयुः।
01:28 अतः, अहं तादृशं साधनम् इच्छामि यत् चित्रं न नाशयति अपि च अहम् अग्रे समीकर्तुमपि शक्नोमि ।
01:34 तत्र कश्चनसरलः मार्गः अस्तियस्मिन् layers इत्यनेन समं filter इत्यस्यउपयोगः भवति ।
01:39 अतः, अहम् अत्र layer इति संवादपेटिकाम् उद्घाटितवान् ।
01:43 भवन्तः अत्र पृष्ठदेशं पश्यन्ति यच्च अस्माकं यथार्थं चित्रम् अस्ति ।
01:47 अपि च अहं नूतनं layer योजयित्वा Layer Fill Typeमध्ये White इति चिनोमि । अपि च color correction green इति नाम ददामि ।
01:59 इदानीं चित्रमिदं सम्पूर्णं श्वेतम् अस्ति । किन्तु, अहं तस्य layer mode परिवर्तनं कर्तुं शक्नोमि ।
02:05 'layer mode' इति कश्चनविधिकल्पः (algorithm) अस्ति, यच्च मूलं Background layer अपि च नूतनं layer इतीमे उभयेऽपि योजयति ।
02:16 अतः, अहम् अत्र Multiply mode इतीदं चिनोमि ।
02:22 अपि च भवन्तः मूलं चित्रं यथावत् प्राप्नुवन्ति ।
02:27 Multiply mode इतीदं background अपि च foreground इत्यनयोः चित्रकणान् (pixels) परस्परं गुणयित्वा फलितं 255 तः भागं करोति ।
02:37 अपि च श्वेत चित्रे सर्वाः वर्ण वाहिन्यः (color channels) 255सङ्ख्यया निर्दिश्यन्ते । अतः, 255सङ्ख्यया गुणनं तदनु तस्याः एव भाजनं च आरम्भिकबिन्दुमेव ददाति । सैव पृष्ठदेशः अस्ति ।
02:52 किन्तु, यदि अहं new layer मध्ये एकां वाहिनीं न्यूनं करोमि, तर्हि तत् पृष्ठदेशेऽपि न्यूनं भवति । यतः 200 सङ्ख्यया गुणयित्वा255 सङ्ख्यया यदि भाजयामः तर्हि फलितं न्यूनमेव भवति ।
03:06 इदानीम् अहं न्यूनीभूतया हरितवाहिन्या (green channel) सहितं वर्णं चेतुमिच्छामि ।
03:12 अत्र मत्सविधे पुरोदेशे कृष्णवर्णः अस्ति यं च अहं पृष्ठदेशवर्णत्वेन अपि च श्वेतवर्णं पुरोदेशवर्णत्वेन परिवर्तयामि । अत्र भवन्तः द्रष्टुं शक्नुवन्ति यत् सर्वाः रक्त-हरित-नीलवर्णवाहिन्यः 255इति समानमूल्यवत्यःइति ।
03:31 कथञ्चित्, अत्र अवसर्पिण्यां (slider) वर्णैः विचलिताः मा भवन्तु ।
03:36 एषः नीलवर्णः न, अपि तु पीतः । किन्तु, यदा अहम् अवसर्पिणीं निर्दिष्टे बिन्दौ अवनयामि तदा भवन्तः सर्वासु अवसर्पिणीषु वर्णाः स्वयमेव परिवर्त्यन्ते इति पश्यन्ति ।
03:50 अस्तु, अहम् अत्र हरित-अवसर्पिणीं चित्वा तां च 211 समीपं कर्षयामि ।
03:59 यं वर्णं पृष्ठदेशार्थं प्राप्तवान् तम् अहं मम चित्रे कर्षयामि । अहं फलितं यत् प्राप्नोमि तत् पाटलवर्णमिव अस्ति ।
04:10 किन्तु, अहं opacity slider इत्यस्य साहाय्येनहरितवर्णस्य सान्द्रतां समीकर्तुं शक्नोमि ।
04:19 यदा अहं शून्यं प्रति गच्छामि, तदा पूरातनं चित्रं प्राप्नोमि । अपि च यदा अहम् अवसर्पिणीम् उपरि कर्षयामितदा चित्रे हरितवाहिनीं न्यूनीकर्तुं शक्नोमि । अपि च चित्रे पाटलवर्णस्य प्राप्तिं निवारयामि ।
04:35 द्रष्टुमिदं सुन्दरम् अस्ति इति चिन्तयामि ।
04:38 अहंLayers इति साधनम् उपयुज्य कदाचिदपि परिवर्तयितुं शक्नोमि । अपि चयदा बहूनि Layers इतीमानि अनेन निबद्धानि भवन्ति तदा सुष्ठु समीकर्तुं शक्नोमि । अपि च यद्यपि अहंunderlying चित्रं परिवर्तयामि तथापि परिवर्तनानि तथैव तिष्ठन्ति ।
04:55 अस्मिन् layer मध्ये इतोऽपि परिवर्तनीयानि कर्तव्यानि । यतोहि इदानीम् एतत् धूसरवर्णे दृश्यमानम् अस्ति । अपि च किञ्चित् नीलवर्णं योजयितुम् इच्छामि ।
05:03 पुनरहं पूर्वतनप्रक्रियामेव अनुसृत्य नूतनं layerरचयामि । अपि च तत्color correction blue इति कथयामि ।
05:11 अपि च इदानीम् अहं किञ्चित् नीलवर्णं योजयितुम् इच्छामि ।
05:15 चित्रे नीलवर्णं योजयितुम् अहं Screen Mode उपयुञ्जे । यच्च Multiply mode अपेक्षया किञ्चित् जटिलम् अस्ति ।
05:24 Screen mode इत्यस्मिन्,वर्णाः प्रथमं विपरीताः अनन्तरं गुणिताः,भाजिताः जटिलाः च भवन्ति ।
05:33 अहं पुरोदेशस्यवर्णं कृष्णेन परिवर्त्य इच्छानुसारं वर्णं साक्षात्योजयितुम् इच्छामि ।अधुना अहं किञ्चित् नीलवर्णं योजयामि ।
05:43 अतः, किञ्चित् नील-अवसर्पिणीम् अधः कर्षयन्तु।
05:47 अपि च चित्रे वर्णं कर्षयन्तु ।
05:51 अत्र इदं यथार्थतया नीलवर्णीयं,परंकृष्णवर्णीयम् इव अस्ति । किन्तु, अयम् अत्यन्तं गाढः नीलवर्णः ।
05:59 अत्र विद्यमानं चित्रं पश्यन्तु अपि च यदा अहम् इदं पिदधामि तदा भवन्तः परिवर्तनं पश्यन्ति ।
06:04 चित्रमिदंनिश्चयेन नीलवर्णीयम् अस्ति ।
06:08 अहम् उभे अपि नूतने layers इतीमे पिदधातुं शक्नोमि । तेन आरम्भिकं स्थानं प्राप्यते ।
06:13 यदा अहं first layer इत्यस्योपरि नुदामि तदा वयं न्यूनीभूतां हरितवाहिनीं पश्यामः । अपि चयदा अहं 2ndlayer इत्यस्योपरि नुदामि तदा किञ्चित् नीलवर्णः युज्यते ।
06:22 अहं चिन्तयामि यत् इदं बहु नीलवर्णीयम् अस्ति । अतः अहं opacity इतीदं न्यूनं करोमि ।
06:27 इदंसम्यक् दृश्यते इति मे भाति।
06:30 अहम् अग्रेकदाचिदपि इदं व्यवस्थापयितुं शक्नोमि ।
06:33 Layers इति साधनंबहुसामर्थ्ययुतम् अस्ति । यतोहि भवन्तः एकस्योपरि एकम् इति बहूनि layersरचयितुं शक्नुवन्ति । अपि च प्रत्येकं layer इत्यस्मिन् भवान् चित्रकणान् (pixels) परिवर्तयितुं शक्नोति, ये च अधोभागात् layer इत्यस्मात् उपरि आगच्छन्ति ।
06:44 दोषपरिहारस्य शक्यताःअसीमाः, अपि च भवान् यदा इच्छति तदा कर्तुं शक्नोति ।
06:51 कदाचित् अत्र भवान्,opacity slider इतीदं किञ्चित् अधः कर्षयित्वा उत्तमं वर्णं प्राप्तुं शक्नोति । अत्र sliders इतीमानि अस्मभ्यम् अनायासेन वर्णं परिवर्तयितुम् अनुकूलं कल्पयन्ति।
07:05 अहं चिन्तयामि यत् अहं Layers इत्यस्य साधनस्य विषये विस्तारयितुं नूतनं पाठं स्वीकरणीयं भवेत् परम्, अद्य अलमति विस्तरेण।
07:13 Spoken Tutorial परियोजनायाम् अस्याम् अनुवादकः वासुदेवः । प्रवाचकः श्री नवीनभट्टः उप्पिनपट्टणम् पुनर्मिलामः धन्यवादाः ।

Contributors and Content Editors

NaveenBhat