BOSS-Linux/C2/File-System/Sanskrit

From Script | Spoken-Tutorial
Revision as of 17:10, 13 January 2015 by Gaurav (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 Linux File System विषये spoken tutorial मध्ये स्वागतम्
00:04 अहं Linux उपयुञ्जे
00:08 वयम् आशास्महे यत् आदेशानां प्राथमिकसंकल्पनां तथैव Linux - प्रणाल्या: आरम्भ: कथं करणीय: इति भवान् जानाति
00:16 यदि रुचिमन्त: भवन्त: तर्हि अस्मिन् जालपुटे अन्यस्मिन् अपि spoken tutorial मध्ये इदं ज्ञानम् उपलभ्यमस्ति http://spoken-tutorial.org
00:28 अपि च जानातु यत् linux अक्षर-संवेद्यम् अस्ति
00:32 अस्मिन् पाठे विशेषत्वेन अनुक्ता: सर्वे आदेशा: लघु-अक्षरै: टङ्किता: सन्ति
00:41 Linux-मध्ये प्राय: सर्वं सञ्चिका-रूपं भवति
00:44 तर्हि का नाम सञ्चिका ? व्यवहारे वयं जानीम: यत् सञ्चिका नाम सा यस्याम् अस्माकम् पत्राणि सामग्री: च वयं संगृह्णीम:
00:54 तथैव Linux - मध्ये सञ्चिका सामग्री-संग्राहिका भवति
01:00 अन्यच्च किं नाम संधारिका?
01:03 संधारिका इत्युक्ते सञ्चिकानां , उपसंधारिकाणां च संग्रह इति वक्तुं शक्यम्
01:10 संधारिका सञ्चिका: व्यवस्थापयितुं साहाय्यं करोति
01:16 Windows मध्ये यत् धारिका इति उच्यते, तादृशम् एव इदम्
01:20 अनेन भिन्न-उपयोक्-र्तॄणां स्वस्य संधारिका:, सञ्चिका: च भवितुम् अर्हन्ति या: अन्ये द्रष्टुं परिवर्तयितुं वा न शक्नुयु:
01:30 अपि च यदि संधारिका: न भवेयु: तर्हि प्रणाल्यां विद्यमानानां सर्व-सञ्चिकानां भिन्न-नामानि आवश्यकानि स्यु:,यानि व्यवस्थापयितुं कष्टंकरं भवेत्
01:41 यद्यपि संधारिकाणां , सञ्चिकानां च इमा: व्याख्या: सामान्यत: अवगन्तुं समीचीना: सन्ति तथापि ता: संपूर्णत: यथार्था: न सन्ति
01:51 सञ्चिकाया: एकं नाम भवति ,कतिचन धर्मा: भवन्ति ,अथवा प्रशासकीय-सूच्यांश: भवति इत्युक्ते सञ्चिकाया: रचना-परिवर्तन-दिनाङ्क: ,तदनुमतिश्च
02:05 सञ्चिकाविन्यासे inodeनामा एक: विशिष्ट: सामग्रीखण्ड: भवति , यस्मिन् धर्मा: रक्षिता: भवन्ति अपि च सञ्चिकाया: दैर्घ्यं , disk मध्ये संग्रहण-स्थानं च इत्यस्य ज्ञानं समाविष्टं भवति
02:20 सञ्चिकाया:विन्यास: inode - क्रमाङ्कम् उपयुङ्क्ते , अस्माकं सारल्यार्थं धारिकाविन्यास: सञ्चिकाया: नामकरणमात्रं करोति , यत: दीर्घ-क्रमाङ्कस्य स्मरणापेक्षया नाम्नां स्मरणं सुकरं भवति
02:35 वस्तुत: संधारिका अन्य-सञ्चिका: न रक्षति ,अपि तु सा स्वयमेव एका सञ्चिका अस्ति या inode क्रमाङ्कान् ,अन्य-सञ्चिकानां नामानि च संधारयति एतच्च तस्या: अतिसरलव्याख्याया: विरोधि भाति
02:49 वस्तुत: Linux - मध्ये सञ्चिकाया: प्रकारत्रयमस्ति -
02:54 १ नियत-सञ्चिका, सामान्य-सञ्चिका वा - एषा केवलं अक्षरयुतां सामग्रीं धारयति
03:01 २ संधारिका -इदं पूर्वतन-अवसर्पिण्यां दृष्टपूर्वम्
03:07 ३ Device Files - Linux मध्ये सर्वाणि यन्त्रांश-उपकरणानि ,आनुषाङ्गिक-उपकरणानि च सञ्चिका-रूपेण प्रदर्श्यन्ते
03:14 Linux - मध्ये CD, Harddisk , usb stick च इति प्रत्येकं सञ्चिका भवति , किन्तु किमर्थम् एवम्? इति चेत् अनेन सामान्य- सञ्चिका इव इमानि उपकरणानि पठितुं लेखितुं च शक्यानि
03:32 Linux - मध्ये सर्वा: सञ्चिका: संबद्धा: भवन्ति , संक्षेपेण सर्वा: कुटुम्बं रचयन्ति वयम् इव
03:39 संधारिकायां विद्यमानानां सञ्चिकानां : उपसंधारिकाणां च परस्पर-संबन्ध: जन्य-जनक-भाव-संबन्ध: इव भवति, एवञ्च linux इत्यस्य सञ्चिका-व्यवस्थाया: रेखावृक्ष: उत्पन्न: भवति
03:53 उपरि मूलं भवति यत् frontslash (/) द्वारा निर्दिश्यते , तस्मिन् अन्या: सर्वा: सञ्चिका: संधारिका: च भवन्ति
04:04 अनेन सञ्चिकात: संधारिकात: वा अन्यत्र गमनं सुकरं भवति , यदि वयम् उचितं मार्गं जानीम:,
04:12 यदा Linux प्रणाल्यां वयम् कार्यं कुर्म: तदा अनेन वृक्षेण सह गच्छाम: इति भाति
04:18 एकेन आदेशेन भवान् एकस्मात् स्थानात् अन्यत्र गन्तुं शक्नुयात्
04:24 चित्तवेधकं भाति इदं , तथैव अस्ति च ,वयं पश्याम: एव
04:29 यदा वयं Linux प्रणाल्यां login कुर्म: तदा उत्सर्गेण वयं गृह-संधारिकायां भवाम:
04:36 अधुना terminal उद्घाटयाम:
04:39 गृह-संधारिकां द्रष्टुं ,आदेशस्य संसूचके टङ्कयतु

"echo space dollar capitalमध्ये H-O-M-E " , enter नुदतु च

04:53 अनेन गृह-संधारिकाया: मार्गनाम दृश्येत
04:57 वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:
05:01 किन्तु ,यदा वयम् कस्यां-चित् संधारिकायां भवाम: तदा सा संधारिका उद्घाटित - संधारिका / कार्यकारिणी संधारिका वा इति उच्यते,
05:09 तत: pwd आदेश: उद्घाटित -संधारिकां द्रष्टुम् अस्माकं साहाय्यं करोति , pwd इत्युक्ते "present working directory"
05:18 संसूचके "pwd" इति टङ्कयतु ,enter नुदतु , अधुना एषा अस्माकं विद्यमाना कार्यकारिणी संधारिका अस्ति
05:28 वयम् उक्तवन्त: यत् वयम् एकस्या: संधारिकाया: अन्यां संधारिकां गन्तुं शक्नुम:
05:32 किन्तु कथं करणीयम् इदम् ? एतन्निमित्तम् अस्मत्-सविधे cd इति आदेश: अस्ति
05:39 भवता इष्टसंधारिकाया: मार्गनाम्न: अनन्तरं cd इति आदेश: टङ्कनीय:
05:47 पुन: अस्माकं विद्यमान-संधारिकां पश्याम: ,तदर्थं संसूचके pwd टङ्कयतु तत: enter नुदतु
05:57 तर्हि वयमिदानीं अस्यां संधारिकायां स्म:
06:01 अधुना वयं slash usr directory इत्यत्र गन्तुम् इच्छाम: चेत् नुदाम:

"cd space slash usr" , अत्र स्मरतु, linux मध्ये slash इत्युक्ते front slash ,enter नुदतु च

06:17 अधुना अस्माकं उद्घाटित-संधारिकां पश्याम: ,टङ्कयतु pwd , enter नुदतु च
06:24 आं, वयं slash usr directory प्रति गतवन्त:
06:30 अत्र एका समस्यास्ति यत् मार्गनाम दीर्घं भवितुम् अर्हति ,यतो हि एतानि नि:शेषाणि मार्गनामानि मूल-संधारिकात: मूलसहितं संपूर्णं मार्गं निर्दिशति
06:42 अथवा वयं विद्यमान-संधारिकया आरभ्यमाणानि संबद्ध-मार्गनामानि उपयोक्तुं शक्नुम:
06:48 अत्र अस्माभि: विशिष्टं चिह्नद्वयं ज्ञातव्यम्

dot उद्घाटित-संधारिकां प्रदर्शयति, अपि च dot dot उद्घाटित-संधारिकाया: पितृ-संधारिकां दर्शयति

07:02 अधुना cd आदेशं सविस्तरं पश्याम:
07:06 नि:संशयं cd इति आदेश: पुन: गृह-संधारिकां गन्तुम् उपयुज्यते
07:13 संसूचके- "cd" enter नुदतु च
07:19 अधुना pwd इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु
07:23 अथ अधुना वयं अस्माकं गृह-संधारिकायां प्रत्यागता:

/home/gnuhata [ narration- slash home slash gnuhata ]

07:30 अधुना सङ्गीत-संधारिकां गच्छाम: , संसूचके टङ्कयतु "cd space Music(M in capital) slash" , enter नुदतु च
07:43 अधुना pwd इति आदेशेन अस्माकं उद्घाटित-सधारिकां परिशीलयतु , pwd ,enter नुदतु , पश्यतु वयं /home/gnuhata/Music प्रत्यागता:
07:57 सङ्गीतत: पितृ-संधारिकां गच्छाम: , तन्निमित्तं भवता dot dot इत्यनेन सह cd इति आदेश: उपयोक्तव्य:
08:04 संसूचके टङ्कयतु - cd space dot dot , enter नुदतु च
08:11 अधुना pwd इति आदेशेन अस्माकं विद्यमान-सधारिकां परिशीलयाम:, वयं पुन: /home/gnuhata मध्ये स्म:
08:23 अधुना dot उपयुज्य उद्घाटित-संधारिकाया: उपसधारिकां गन्तुं प्रयतामहे
08:30 संसूचके टङ्कयतु - "cd space dot slash Documents(D in capital) slash." , enter नुदतु
08:42 pwd इति टङ्कयित्वा उद्घाटित-सधारिकां परिशीलयतु , वयं /home/gnuhata/Documents इत्यत्र स्म:
08:53 control L नुदित्वा पटलं रिक्तं कुर्म: , येन स्पष्टता भवेत्
08:58 cd आदेशेन अस्माकं गृह-सधारिकां गन्तुं

टङ्कयतु cd , नुदतु enter.

09:07 पुन: pwd इति आदेशेन उद्घाटित-सधारिकां परिशीलयतु , वयं /home/gnuhata इत्यत्र आगता:
09:17 वयं कियन्त: अपि dot dot दातुं शक्नुम: यानि संबद्ध-मार्गे slash इत्यनेन भिन्नानि भवन्ति
09:23 अस्याम् अवसर्पिण्यां वयं सञ्चिका- व्यवस्थापनस्य क्रमं पश्याम: , उपरितन-भागे Root , slash वा अस्ति , username -इति root मध्ये home तथा च bin इति उपसन्धारिका-द्वयम् अस्ति , अत्र home मध्ये gnuhata नाम्न: उपसन्धारिका अस्ति
09:43 अधुना वयं /home/gnuhata मध्ये स्म: , अधुना bin सन्धारिका कथं गन्तव्या ?
09:51 संसूचके टङ्कयतु

"cd space dot dot slash dot dot slash bin" , enter नुदतु च

10:03 pwd इति आदेशेन उद्घाटित-सन्धारिकां परिशीलयतु

वयं /bin [narration - slash bin] इत्यत्र स्म:

10:11 प्रथमं dot dot , slash home slash gnuhata] त: slash home प्रति अस्मान् नयति ,
10:18 अग्रिमं च /home त: root प्रति
10:24 अधुना slash त: ,root त: वा वयं slash bin संधारिकायां प्रत्यागता:
10:30 cd इति आदेशेन अस्माकं गृह-सन्धारिकां गच्छतु
10:34 सन्धारिकां निर्मातुं वयं mkdir आदेशम् उपयुञ्ज्महे
10:40 सन्धारिका-निर्माणार्थं भवता आदेशं ,सन्धारिका-नाम च टङ्कनीयं ,तदनु उद्घाटित-सधारिकायां सन्धारिका निर्मिता भवेत्
10:49 testdir इति नाम्न: सन्धारिकां निर्मातुम् आदेशं टङ्कयतु - "mkdir space testdir" ,enter नुदतु च
11:01 अनेन testdir सन्धारिका यशस्विरीत्या निर्मिता भवेत् !
11:05 पश्यतु यत् , संधारिका-निर्माणं तत्-निष्कासनं वा यशस्वि अभवत् इति वक्तुं कापि प्रत्यक्षं सूचना नास्ति
11:13 भवान् कमपि दोष-सूचनां न प्राप्नोति इत्युक्ते इदं सम्पादनं यशस्वि अभवत्
11:18 वृक्षे कुत्रापि सन्धारिकां निर्मातुं वयं relative , absolute वा मार्गनाम उपयोक्तुं शक्नुम: किन्तु तथा कर्तुम् अनुमति: आवश्यकी अपि च तत्-नाम्न: सन्धारिका आदावेव विद्यमाना स्यात्
11:33 एषा प्रक्रिया बहुविधा: संधारिका: , संधारिकाणां च क्रमं निर्मातुं उपयोक्तुं शक्यते
11:39 टङ्कयतु - "mkdir space test1 space test2 " enter नुदतु च , अनेन विद्यमान-संधारिकायां test1 तथा च test2 इति संधारिकाद्वयं निर्मितं भवति
11:57 टङ्कयतु - "mkdir space testtree space testtree slash test3".
12:11 अनेन testtree संधारिका तथैव testtree इत्यस्य test3 इति अन्या एका उपसंधारिका निर्मिता भवति
12:20 अथ अस्माभि: उद्घाटित-संधारिकायां संधारिका-चतुष्टयं निर्मितं -testdir,test1,test2 , testtree च , तेषु प्रथम-त्रयं रिक्तम् अस्ति , अन्तिमा च test3 नाम्न: उपसंधारिका समाविशति
12:40 mkdir इव rmdir अपि एक: आदेश: अस्ति य: संधारिकां निष्कासयितुम् उपयुज्यते
12:50 "rmdir space test1" इति आदेश: test1 संधारिकां यशस्विरीत्या निष्कासयति
13:00 संधारिका तदैव निष्कासयितुं शक्या यदा भवान् तस्य स्वामी भवति ,यदा भवत: उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि भवति अपि च यदा संधारिका रिक्ता भवति
13:13 संसूचके टङ्कयतु

"cd space testtree slash test3"

13:25 वयम् अधुना संधारिकायां स्म: या testtree इत्यस्य उपसन्धारिका अस्ति
13:33 "rmdir space testdir" आदेशं टङ्कयित्वा testdir संधारिकां निष्कासयाम: ,enter नुदाम:
13:46 वयं पश्याम: यत् एतत् न भवति ,उद्घाटित-संधारिका क्रमश: निष्कासनीय-संधारिकाया: उपरि नास्ति
13:54 अत: अस्माभि: testdir संधारिकाया: क्रमश: उपरितना संधारिका गन्तव्या
14:00 टङ्कयतु - "cd space dot dot" , enter नुदतु च
14:06 अधुना "cd space dot dot" आदेशं टङ्कयित्वा पितृ-संधारिकां गच्छतु
14:13 अधुना पुन: पूर्वतन-आदेशं टङ्कयतु
14:16 अधुना टङ्कयतु - "rmdir space testdir" , enter नुदतु च
14:23 testdir संधारिका यशस्विरीत्या उच्छिन्ना , पश्यतु यत् testdir संधारिका अपि रिक्ता आसीत्
14:32 बहुविधसंधारिका: संधारिकाणां क्रम: वा युगपत् निष्कासयितुं शक्य: , अत: test3 उपसंधारिकया सह testtree संधारिकां उच्छेत्तुं प्रयत्नं करोतु
14:43 संसूचके टङ्कयतु

"rmdir space testtree space testtree slash test3 " , enter नुदतु च

14:57 पश्यतु , दोष-सूचना क्रियते यत् 'testree' संधारिका निष्कासयितुं न शक्या यत: testtree रिक्ता नास्ति
15:07 किन्तु एकम् अंशं भवान् विस्मर्तुं शक्नोति यत् testtree/test3 उच्छिन्ना यतो हि सा रिक्ता आसीत्
15:16 तत् परीक्षितुं संसूचके टङ्कयतु - "cd space testtree" , enter नुदतु च
15:25 अधुना टङ्कयतु- "ls" , enter नुदतु च , पश्यतु संधारिकायां किमपि नास्ति , अत: test3 उच्छिन्ना
15:34 अथ पाठे अस्मिन् अस्माभि: Linux - सञ्चिका , संधारिका ,तयो: कार्यं च इत्यादिकं पठितं , तत् सर्वं पश्यतु, यथावत् करोतु च
15:48 अत्र असौ पाठ: समाप्यते , Spoken Tutorial इति Talk to a Teacher प्रकल्पस्य भाग: य: National Mission on Education through ICT. इत्यनेन साहाय्यीकृत:
16:02 अस्य अधिक-ज्ञानम् अस्मिन् सन्धाने उपलभ्यते
16:08 एतत्-पाठ-अनुवादकर्त्री इयं नन्दिनी आपृच्छते भवन्तं , संपर्कार्थं धन्यवादा: !

Contributors and Content Editors

Gaurav, Vasudeva ahitanal