BOSS-Linux/C2/BOSS-Linux-Desktop/Sanskrit

From Script | Spoken-Tutorial
Revision as of 15:27, 28 October 2020 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 ‘BOSS Desktop’ अधिकृत्य ‘Spoken Tutorial’ इत्यस्मिन् वर्गे भवतां स्वागतम्।
00:06 अस्मिन् पाठे वयं BOSS Desktop इत्यस्य परिचयं प्राप्स्यामः।
00:12 अस्य कृते BOSS Linux 3.4.2 इत्यस्य प्रयोगः मया क्रियते।
00:21 अहं स्लैड्स् अवनयामि।
00:24 अधुना भवन्तः BOSS Desktop पश्यन्तः सन्ति।
00:28 भवन्तः उपरि वामभागे कोणे Main Menu इति द्रष्टुं शक्नुवन्ति।
00:33 तत् उद्घाटयितुं Alt + F1 नोत्तुं शक्नुवन्ति, अथवा Application इत्यस्य उपरि नोत्तुं शक्नुवन्ति।
00:46 Application Menu इत्यस्मिन् ये प्रयोगाः स्थापिताः सन्ति ते वर्गीकृतरूपेण दृश्यन्ते।
00:54 Menu इत्यस्मिन् स्थितानां मुख्यानां प्रयोगानां विषये परिचिताः भवामः।
01:01 तर्हि क्रमशः Applications>Accessories>Calculator इत्यत्र गच्छामः।
01:08 'Calculator' इत्येतत् अङ्कगणितस्य वैज्ञानिकस्य आर्थिकस्य च गणनायाः साहाय्यं करोति
01:16 वयम् ‘Calculator’ इत्यस्य उपरि नुत्वा तत् उद्घाटयामः।
01:20 किञ्चित् सरलाकलनस्य अभ्यासं कुर्मः।
01:23 '5 * 8' इति टङ्कयित्वा '=' चिह्नं नुदामः।
01:29 '=' इत्यस्य चिह्नस्य स्थाने 'Enter' अपि नोत्तुं शक्नुमः।
01:35 अधुना पिधानस्य चिह्नं नुत्त्वा 'Calculator' तः बहिः आगच्छामः।
01:40 अधुना अपरं कञ्चन प्रयोगं पश्यामः।
01:43 तन्निमित्तं Applications प्रति गत्वा पुनः Accessories प्रति गच्छतु।
01:49 तत्र gedit Text Editor इत्यस्य उपरि नुत्वा उद्घातयतु।
01:56 अधुना screen मध्ये gedit text editor पश्यामः।
02:02 अहम् अधुना किञ्चित् टङ्कयामि रक्षामि च।
02:06 "H-e-l-l-o W-o-r-l-d" इति टङ्कयामि।
02:11 रक्षणार्थं Ctrl + s नोत्तुं शक्नुमः अथवा File उपरि गत्वा Save नोत्तुं शक्नुमः।
02:20 पश्यतु, अहं File उपरि गत्वा Save नुदामि।
02:26 अधुना किञ्चन लघु Dialog Box उद्घटति।
02:29 एतत् File इत्यस्य नाम, तस्य रक्षणस्थानं च पृच्छति।
02:36 अहं नामनिमित्तं "hello.txt" इति टङ्कयामि, रक्षणस्थानार्थं Desktop इति चिनोमि,
02:47 अनन्तरं Save इत्यस्य उपरि नुदामि।
02:49 अधुना gedit पिधानं कृत्वा अस्माभिः निर्मितं File, 'Desktop' मध्ये रक्षितम् उत न इति पश्यामः। इदानीं पिदधातु।
02:58 अधुना Desktop मध्ये hello.txt इति File दृष्टुं शक्नुमः।
03:05 अर्थात् निर्मितं text file रक्षितम् अभवत्।
03:10 एतत् चिह्नोपरि वारद्वयं नुत्वा उद्घाटयामः।
03:14 अहो! अस्माभिः यत् टङ्कितं तत् आगतम्।
03:18 एवं वयं विविधासु स्थानीयभाषासु अपि अत्र लेखितुं शक्नुमः।
03:24 अधुना तत्कथं करणीयमिति पश्यामः।
03:27 gedit Text Editor मध्ये CTRL अपि च space bar नुदतु।
03:33 भवन्तः दक्षिणपार्श्वे अधः लघु बोक्स् पश्यन्ति।
03:39 तस्योपरि नुदन्तु।
03:41 तत्र Hindi इति चिन्वन्तु।
03:43 Inscript इति चिन्वन्तु।
03:45 अहं Hello world इति टङ्कयामि।
03:49 पश्यन्तु, लेखः Hindi Inscript प्रति परिवर्तितमस्ति।
03:53 अधुना अहं Hindi इति चित्वा Phonetic इति चिनोमि।
03:59 अहं phonetic उपयुज्य welcome इति टङ्कयामि।
04:03 पश्यन्तु, welcome इति पदं हिन्द्यां टङ्कितमस्ति।
04:08 अधुना रक्षितुं save इत्यत्र नुदन्तु।
04:11 अधुना Text editor पिधाय Accessories मध्ये Terminal इत्यस्य विषये पश्यामः।
04:20 तर्हि क्रमशः Application>Accessories>Terminal इत्यत्र गच्छामः।
04:27 Terminal इत्यस्य अपरं नाम Command Line इति अस्ति। यतोहि इतः वयं सङ्गणकाय आदेशं दातुं शक्नुमः। यथार्थतया एतत् 'GUI' अपेक्षया शक्तियुतम् अस्ति।
04:40 तर्हि एतदनुभवार्थं सरलादेशं दद्मः।
04:45 ls टङ्कयामः, Enter नुदामः च।
04:50 इदानीं वर्तमाने 'Directory' इत्यस्मिन् विद्यमानानि Files Folders च दृष्टुम् शक्नुवन्ति।
04:57 अत्र 'Home Folder' इत्यस्मिन् विद्यमानानि Files, Folders च दर्शयति।
05:02 वयं किम् नाम 'Home Folder' इति अग्रे पश्यामः।
05:07 एतत्सम्बद्धे Linux Spoken Tutorial मध्ये Terminal Commands विषये सम्यक्तया विवरणम् दत्तम् अस्ति।
05:15 Terminal इति प्रयोगस्य पिधानं कुर्वन्तु।
05:18 अधुना वयम् अपरं प्रयोगं प्रति गच्छामः। सः प्रयोगः अस्ति 'Iceweasel Web Browser' ।
05:25 एतत् BOSS operating system मध्ये औत्सर्गिकं browser अस्ति।
05:30 एतदुद्घाटयितुं क्रमशः Applications>Internet>Iceweasel Web Browser. इत्यत्र नुदामः।
05:36 Iceweasel इत्येतत् firefox इतस्य re-branded आवृत्तिः अस्ति।
05:41 एतस्य उपयोगेन वयं अस्माकं ई-मैल् दृष्टुम् अपि च आवश्यकविषयज्ञानं च प्राप्तुं शक्नुमः।
05:49 अधुना google जालपुटं गच्छामः।
05:51 address bar इत्यत्र शीघ्रं गन्तुं F6 नुदतु, अथवा अत्र address baar इत्यत्र नुदतु।
06:00 अहं www.google.co.in इति टङ्कयामि।
06:07 टङ्कणावसरे Iceweasel कांश्चन विकल्पान् सूचयति।
06:11 तेषु एकं चेतुं शक्नोति,
06:14 अथवा सम्पूर्णम् अपि टङ्कयित्वा enter नुदतु।
06:19 वयमधुना google इतस्य अन्वेषकपृष्ठे स्मः। अधुना अन्वेषकपृष्ठे spoken tutorial इति टङ्कयतु।
06:27 स्पोकन् ट्युटोरियल् जालपुटं प्राथम्येन सूच्यां दृश्यते, तस्योपरि नुदन्तु।
06:34 तदा वयं स्पोकन् ट्युटोरियल् इत्यस्य होम् पेज् प्रति गच्छामः।
06:38 अधुना एतत् पिधाय अग्रे सरामः।
06:42 इदानीं क्रमशः Applications>Office इत्यत्र गच्छामः।
06:48 अत्र लिब्रे आफीस् इत्यस्य विकल्पाः यथा Writer, Calc, Impress इत्यादयः सन्ति।
06:57 एते लिब्रे आफीस् सूट् इत्यस्य Word Processor, Spreadsheet, Presentation चेति प्रयोगाः सन्ति।
07:04 अस्माकं जालपुटे एतेषां विषये Spoken Tutorials सन्ति। वयं तानि दृष्टुं प्रेरयामः।
07:12 अधुना वयं Sound and Video Menu पश्यामः। एतदर्थं Application गत्वा Sound and Video गच्छामः।
07:19 एषः विकल्पः BOSS operating system मध्ये विद्यमानानि विविधप्रकारकाणि प्लेयर्स् सूचिबद्धं करोति।
07:27 भवन्तः एतेषु यत्किमपि एकं विकल्पं भवतां वीडियो अथवा आडियो सञ्चिकां चालयितुम् उपयोक्तुं शक्नुवन्ति।
07:33 अधुना कतिचन महत्वपूर्णविषयान् पश्यामः। तन्निमित्तं, Places इत्यत्र गच्छन्तु।
07:41 अत्रत्यः प्रथमविकल्पः अस्ति Home Folder इति।
07:45 तत् उद्घाटयामः।
07:47 प्रत्येकमपि उपयोगकर्तुः BOSS OS मध्ये किञ्चन Home Folder भवत्येव।
07:52 Home Folder इत्युक्ते किञ्चन गृहमिव यत्र च सर्वाः सञ्चिकाः सन्धारिकाः च सङ्गृहीतुं शक्नुमः।
08:00 तत्र अस्माकम् अनुमतिं विना न केनापि आगन्तुं शक्यते।
08:04 अनुमतिविषयकम् अधिकविवरणं भवन्तः अस्माकं जालपुटे लिनक्स् स्पोकन् ट्योटोरियल् मध्ये प्राप्तुं शक्नुवन्ति।
08:14 वयम् अस्माकं Home Folder मध्ये Desktop, Document, Downloads, Music इत्यादयः सन्धारिकाः दृष्टुं शक्नुमः।
08:25 लिनक्स् मध्ये सर्वमपि सञ्चिका एव भवति।
08:29 अधुना Desktop सन्धारिकां तस्योपरि वारद्वयं नोदनेन उद्घाटयामः।
08:35 अहो, अत्र वयं hello.txt सञ्चिकां दृष्टुं शक्नुमः यत् च gedit text editor मध्ये रक्षितवन्तः आस्म।
08:44 अतः एषा सन्धारिका अपि च डेस्क्टोप् इति एते समाने स्तः।
08:49 अधुना अहम् इमां सन्धारिकां पिदधामि।
08:52 इदानीं वयं डेस्क्टोप् इत्यस्य थीम् परिवर्तयामः।
08:55 दक्षिणकोणे विद्यमानं username इतीदं नुदतु।
09:02 अत्र उपयोक्तृनाम Spoken इति अस्ति। अतः अहं Spoken इत्यस्योपरि नुदामि।
09:09 अधुना System Setting विकल्पस्योपरि नुदन्तु।
09:13 System Setting नाम्ना किञ्चन संवादपेटिका दृश्यते।
09:16 Background Icon इत्यस्योपरि नुदन्तु।
09:19 दृश्यमानसूच्यां यत्किमपि background चिन्वन्तु।
09:23 अधुना भवतां नूतनं background प्रदृश्यते।
09:27 संवादपेटिकां पिदध्मः।
09:29 वयमधुना Application मेन्यु इत्यस्याधः विद्यमानं System Tool इति विकल्पं पश्यामः।
09:36 अस्मिन् मेन्यु मध्ये बहु मुख्यविकल्पाः सन्ति ये च भवतां डेस्क्टोप् अपि च विविधानि अप्लिकेशन्स् व्यवस्थापयितुं साहाय्यं करोति।
09:44 अधुना क्रमशः System Tools > Administrations > Synaptic Package Manager इत्यत्र गच्छन्तु।
09:51 अधुना अनुक्षणं भवन्तः पास्वर्ड् दृढीकरणार्थं पृष्टाः भवन्ति।
09:57 भवन्तः भवताम् आड्मिन् पास्वर्ड् नुत्वा Authentication इत्यत्र नुदन्तु।
10:02 Synaptic Package Manager विषये अस्यामेव शृङ्खलायाम् अपरपाठे विवरणमं विद्यते।
10:10 अत्र असौ पाठः समाप्यते।
10:14 अस्मिन् पाठे BOSS Desktop, Main Menu अपि च BOSS Desktop मध्ये विद्यमानानि बहुविधवैशिष्ट्यानि ज्ञातवन्तः।
10:25 अधोविद्यमाने लिंक् मध्ये उपलभ्यमानं वीडियो पश्यन्तु।
10:28 एतत् प्रकल्पस्यास्य सारांशं वदति।
10:31 भवतां समीपे यदि उत्तमं बैंड्विड्त् नास्ति तर्हि एतत् अवचित्य पश्यन्तु।
10:36 स्पोकन् ट्युटोरियल् प्रकल्पगणः एतान् पाठान् उपयुज्य कार्यशालाः चालयति।
10:41 ये च आन्लैन् परीक्षायाम् उत्तीर्णाः भवन्ति तेभ्यः प्रमाणपत्रमपि दीयते।
10:45 अधिकविवरणार्थं contact@spoken-tutorial.org इत्यत्र लिखन्तु।
10:53 Spoken Tutorial इत्ययं प्रकल्पः Talk To a Teacher इत्यस्य प्रकल्पस्य भागः अस्ति। यस्य विषये राष्ट्रियसाक्षरतामिशन् इति संस्था ICT इत्यस्य माध्यमेन कर्तुं समर्थितवती अस्ति।
11:05 अस्य विषये http://spoken-tutorial.org/NMEICT-Intro इति जालपुटे अधिकविवरणम् उपलभ्यम् अस्ति।
11:11 अस्य पाठस्य अनुवादकः प्रवाचकश्चऐ ऐ टी बाम्बे तः वासुदेवः अस्ति। सर्वेभ्यः धन्यवादः।

Contributors and Content Editors

PoojaMoolya, Pratik kamble, Vasudeva ahitanal